पाणिनिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

संस्कृतभाषायाः प्राचीनाः वैयाकरणाः नामभिः स्तूयन्ते यथा-

इन्द्रश्चन्द्रः काशकृत्स्नाऽपिशलाः शाकटायनः ।
पाणिन्यमरजैनेन्द्रा इत्यष्टौ शाब्दिका मताः ॥

इत्यष्टसु शाब्दिकेषु अष्टम एव पाणिनिः वर्तते । स्वतः पूर्वान् वैयाकरणान् पाणिनिः स्वस्य "अष्टाध्यायी" इति ग्रन्थे अन्यान्यव्याकरणप्रक्रियानिरूपणसूत्रेषु स्मरति, यथा- "ऋतो भारद्वाजस्य"७/२/६३. "लोपः शाकल्यस्य"८/३/१९. "त्रिप्रभृतिषु शाकटायनस्य"८/४/५०. "वा सुप्यापिशलेः"६/१/९२. इत्यादि ।

अन्तर्विषयाः

तस्मै पाणिनये नमः [सम्पादयतु]

पाणिनीया शिक्षा ग्रन्थे त्रयः श्लोकाः पाणिनये नमस्कारपराः द्श्यन्ते । पाणिनिः वैयाकरणानाम् प्रातः स्मरणीयः मुनिः । नकेवलम् वैयाकरणानाम् अपि तु निखिलसंस्कृतविपश्चिताम् एष प्रातर्नमस्यः इत्यत्र न काऽपि संशीतिः । यतः तस्मात् पूर्वतनानां ऐन्द्र,चान्द्र,आपिशलादीनां व्याकरणशास्त्राणि स्वयमधीत्य तानि असमग्राणि च परिभाव्य ’नवं, समग्रं, विश्वज्नीनं च व्याकरणम्’ चिकीर्षुः वाचामधीशम् परमेश्वरम् तपसा आराधयामास । पाणिनेः तपसा सन्तुष्टः परशिवः ताण्ड्वं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत्, तद् ढक्कायाः शब्दान् पाणिनिः अशृणोत् । अत्रायं श्लोकः -

नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् ।
उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥

एते शिवडमरुसमुत्थाः शब्दा एव माहेश्वरसूत्राणि इति श्रूयते । तदनन्तरम् पाणिनिः व्याकरणशास्त्रस्य मूलाधारं अष्टाध्यायीति सूत्रग्रन्थं व्यरचयत् ।

शङ्करः शाङ्करीं प्रादात् दाक्षीपुत्राय धीमते ।
वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥
येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥
येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥

पाणिनिः संस्कृतस्य महावैयाकरणः । यतः तदनन्तरीयाः ये ये वैयाकरणाः अभवन् ते सर्वेऽपि व्याकरणशास्त्रस्य नाना प्रक्रियायाः निरूपणार्थं पाणिनेः अष्टाध्याय्याः विविधाः व्याख्याः निरचिन्वन् ।

जन्म,कालः, नामानि च [सम्पादयतु]

पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शालातुरग्रामे अभवत् । अतः तस्य ’शालातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्तानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि संस्कृतज्ञाः तं प्रीत्या आह्वयन्ति । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । शालङ्किः इत्यपि पाणिनेः पितुः नाम आसीदिति वाराणसेयः विद्वान् श्रीगोपालशास्त्रिमहोदयः "प्रशिक्षणसंविधानम्" इति पुस्तके व्यलिखत् । अयं कृशाश्वपुत्रस्य देवलनाम्नः पौत्र इति John Garratt महाशयस्य Classical Dictionary of India पुस्तके उल्लिखितमस्ति । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'तक्षशिला'विद्यापीठे शिक्षां प्राप्तवान् ।

मरणम् [सम्पादयतु]

पञ्चतन्त्रानुसारेण पाणिनेः मृत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति । मृत्युः इति स्थाने मृत्युः इति भवितव्यम्।

ग्रन्थाः [सम्पादयतु]

अष्टाध्यायी

माहेश्वरसूत्राणि

जाम्बुवतीविजयम् काव्यम्

"http://sa.wikipedia.org/w/index.php?title=पाणिनिः&oldid=233374" इत्यस्माद् उद्धृतम्