पादकन्दुकक्रीडा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

पादकन्दुकक्रीडा(Football) कन्दुकक्रीडायाम् एका प्रसिद्धा क्रीडा ।

पादकन्दुकक्रीडा/Football
Indian-Football-2-F.jpg
नियामकगणः FIFA
उपनाम(नि) Football, soccer, footy/footie, the beautiful game
प्रथमक्रीडकः 19 December 1863
वैशिष्ट्यसमूहः
सम्पर्कः Yes
गणसदस्याः 11 per side
उभयलिङ्गम् Yes, separate competitions
वर्गीकरणम् Team sport, ball sport
उपकरणम् Football (or soccer ball)
स्थलम् Football pitch (also known as "football ground", "soccer field", "soccer pitch", or simply "pitch")
ओलिम्पिक् Yes, since the 1900 Olympics
विशेषोलिम्पिक् Yes, 5-a-side since 2004 and 7-a-side since 1984
देशः/प्रदेशः Worldwide

ऐतिहासिकी पृष्ठभूमिः[सम्पादयतु]

क्रिस्तोः पूर्वं द्विशतं वर्षेभ्यः चीनदेशे द्वयोर्दलयोर्मध्ये पादकन्दुक-क्रीडा क्रीडयते स्म । प्रतिवर्षं तत्र राज्ञः जन्मदिने राजप्रासादस्याग्रे द्वौ विरुद्धदलयोः मध्ये जनानां रञ्जनाय क्रीडन्ति स्म । विजेतृदलाय राजतपात्रेषु पानाय सुरा तथा भोक्तुं फलानि पारितोषकत्वेन दीयन्ते स्म । तथा पराजेत्रे दलाय कठोरो दण्डः प्रदीयते स्म । क्रीडायाः स्थले द्वौ वंशौ न्यखन्यतां तथा तयोरुपरि क्षौमं वस्त्रं निबद्धय तस्मिन् छिद्रमेकमक्रियत । विरोधि-दलं हस्तप्रयोगं विनाऽक्राम्यत् किञ्च सावधानतया पदा सन्ताड्नपूर्वकं कन्दुकं नियन्त्रयन्तः क्रीडकाः शारीरिकं प्रदर्शनं कृत्वा विपक्षिदलं पराजयत् । तदाऽस्याभिधानं 'सुचु’(TSUCHUE) अथवा 'किक्-बाल' (KICK BALL) इत्यासीत् ।

इतिहासाधारेणेयं क्रीडा ईसातः ५०० वर्षपूर्वं यूनानदेशस्य 'स्पार्टा’ नाम्नि स्थाने सर्वप्रथममभवत् । तत्र हस्तयोः प्रयोगोऽपि प्राचलत् । तदाऽस्य नाम हारपेस्टन (HARPASTON) इत्यभूत् । ततः परमिटलीदेशे क्रीडेयं प्रावर्तत ।

तत्रास्याख्या 'फोलिस्’ (FOLLIS) इत्यवर्तत । दद्देशीयैः केचन नियमा अपि निर्धारिता अथ च यूनानैः सह प्रतिस्पर्धितमपि । ईसातो २८ वर्षपूर्वं रोम सम्राजा स्वसेनायामस्याः क्रीडायाः खेलनं निषिद्धं यतो हि स स्वसैनिकान् युद्धाय सज्जयितुमैच्छत् । इंग्लैण्डस्य रोमदेशेऽधिकारानन्तरं तत्रापि क्रीडनमिदमारभत । पञ्चम्यां शत्यां जापानदेशे 'किमारी’ (KIMARI) नाम्ना क्रीडेयमक्रीडयत । नवमशतकात् सप्तदशशतकं यावद् नानाविधाभिः प्रक्रियाभिर्वर्धमानं क्रीडनमिदं प्रचरद् १८०१ वत्सरे 'किकिंग-गेम' नाम्ना नियमानुसारं हस्तप्रयोगवर्जं दलद्वययुतमिङ्ग्लैण्डस्य ग्रामेषु प्रवृत्तम् । ततः परमद्य यावत् समग्रे संसारे 'पाद-कन्दुक-क्रीडायाः समानः प्रचारो व्यवहारश्च समजायत तथा नियमाः स्थिरत्वेन निरधार्यन्ते ।

क्रीडाङ्गणं क्रीडोपकरणं च[सम्पादयतु]

(१) क्रीडाङ्गणास्यायाम-विस्तार-रेखा-विधानानि[सम्पादयतु]

(क) क्रीडाङ्गणम् -सन् १८८३ वत्सरे पादकन्दुक-क्रीडाया नियमान निश्चिन्वद्भः क्रीडाङ्गणस्यायामः १२०गजमितो विस्तारश्च ८० गजमितः स्वीकृतः । सम्प्रति १०० गजतः १३० गजमानं यावदायतं तथा ५० तः १०० गजमितं विस्तृतं क्रीडाङ्गणं समुचितं मन्वते । इदमायताकृतिकं भवति ।
(ख) रेखाः -अत्र -रेखाः ३" विस्तृता विधीयन्ते चतुर्षु कोणेषु च ४ फुट्-मानेनोन्नताः पताकिका आरोप्यन्ते । आयता रेखाः स्पर्श-रेखाः (टच-लाइन) विस्तृता रेखाश्च सीम-प्रवेश-रेखाः (गोललाइन) कथ्यन्ते । क्षेत्रस्य मध्ये एका रेखा दीयते सा च द्वयोः समानयोर्भागयोर्विभज्यते । इयं रेखा प्रर्धमार्गरेखा (हाफ वे लाइन) अथवा मध्यरेखा (सेण्टर् लाइन) निगद्यते । मध्यरेखाया मध्ये एवं २० गजमित्व्यासशालि वृत्तं भवति । सीम-प्रवेशरेखायाः सर्वथा मध्ये ८ गजान्तराले द्वौ स्तम्भौ निखन्येते यौ भूमेः ८ फुटमितावुन्नतौ भवतः, तयोरुपर्येका यष्टिर्दीयते । गोल-सीम्नः पृष्ठे जालिकां बधनन्ति यतः कन्दुको दूरे न गच्छेत् । 'गोलपोस्ट' नाम्ना ख्यातयोर्द्वयोरपि स्तम्भयोः ६ गजदूरे काश्चन रेखा आकृष्यन्ते ताः सीम-प्रवेश-स्थल (गोल्-एरिया) नाम्ना व्यपदिशन्ति । स्तम्भयोरुभयतः सीमरेखयोः १८ गज मिते दूरप्रदेशे द्वे रेखे विधाय ते योज्येते । तदनन्तरं स्तम्भयोर्मध्ये १२ गजमितेऽन्तराले चिह्नमेकं कृत्वा १० गजमितार्धव्यासेनैकमर्धवृत्तं विधीयते यत् सीम- प्रवेशरेखातो १८ गजमितान्तराले समाकृष्टयो रेखयोरुभयतो मिलति । अस्यान्तर्वर्तिस्थलं दण्ड-भूमिः (पेनल्टी एरिया) निगद्यते ।

(ख) क्रीडोपकरणम्[सम्पादयतु]

१-पाद-कन्दुकः अयं कन्दुकश्चर्मनिर्मितो भवति । अस्य परिधिः २८ इंचमितो भवति । वर्तुलाकृतिके चर्म-कन्दुके रबर्-निर्मितोऽन्यं कन्दुको (ब्लैडर्) निक्षिप्यते यस्मिन् वायुं पूरयन्ति, पूरिते च वायौ तस्य भारः १४ तः १६ औसपर्यन्तौ भवति ।

क्रीडकाः क्रीडाविधयश्च[सम्पादयतु]

१. क्रीडकास्तेषां नियमाश्च[सम्पादयतु]

(क) क्रीडकसंख्या -पादकन्दुक्-क्रीडा द्वयोएदलयोर्मध्ये भवति । तत्र प्रतिदलं क्रीडकानां संख्याऽधिकाधिकमेकादश ११ मिता समुचिता मन्यते । एतेषु क्रीड्केष्वेकः सीमरक्षको (गोल-कीपरः० भवति । सामान्यक्रीडावसरे द्वौ प्रतिनिधि-क्रीडकावपि भवतः परं प्रतिस्पर्धारुपिण्यां क्रीडायां सम्बद्ध-संस्थाया अनुमतिरपेक्षिताऽस्ति । दलस्यैको नायको भवति, यः स्वस्य दलस्य व्यवस्थापने समयानुसारं क्रीडकस्य स्थानपरिवर्तने च समर्थो भवति । यदा कदा क्रीडकसंख्या न्यूनाऽपि भवितुमर्हति ।
(ख) क्रीडकदलयोर्वस्त्रोपवस्त्रे -पृथग् पृथग् वर्णशालिना भवतः ययाराधारेण कस्य दलस्य क्रीडकेन किमाचरितमिति प्रेक्षणे सौविध्यं भवति । ऊर्ध्ववस्त्रं कञ्चुकं (कमीज) तथाऽधोवस्त्रं जानुपर्यन्तं (निकर), पादाच्छादने (जुराबे) उपानहौ च क्रीडकस्य सज्जायै स्वीक्रियन्ते ।
(ग) उपानद-विषये विशिष्यैष नियमोऽस्ति यत् तयोर्निर्माणे कोमलस्य चर्मणः प्रयोगो भवेत्, कीलिका बहिर्निः सृता न भवेयुः, तलभागे प्राम्बचर्मखण्डाः (बार Barr) अथवा स्टड (Stud) अवरोधक्रीडाक्युताश्चर्मखण्डाः प्रयुज्येरन् । अग्रभागस्तीक्षणो नोचितः । कस्यापि धातोः प्रयोगेण च भवितव्यम् । उपानहोर्व्यासोऽर्ध-इंचमितस्तया पार्ष्णभागस्योच्चता पादोन-इंचतोऽधिका न कर्तव्या ।
(घ) क्षेत्र-व्यूह-रचनायां

क्रीडकानां विभागोऽप्यत्र विशेषतया क्रियते । यथा-१-सीमरक्षकः, २-दक्षरक्षकः ३, वामरक्षकः, ४-दक्षार्धरक्षकः ५-मध्यार्धरक्षकः, ६- वामार्धरक्षकः, ७- अन्तर्वर्ती पार्श्वरक्षकः, ८-अन्तर्दक्षरक्षकः ९-बाह्यदक्षरक्षकः, १०-बाह्यवामरक्षकस्तथा ११-मध्याग्ररक्षकः । एतेषां स्थानान्यपि निशिचतानि भवन्ति यतःअ क्रीडने सौविध्यं भवति ।

(ङ) क्रीडकानां नियमाः -१-२-३-२-३ इति नियमेन क्षत्र वतमानाः क्रीडार्थिनः कन्दुकं प्रत्याक्रमणाद्वारयितुं विपक्षसीम्नि प्रवेशयितुं च यतन्ते । तत्र प्रथमः सीमत्राता (गोलकीपरः) येन केनापि प्रकारेण कन्दुकं सीमप्रवेशाद् वारयति । तस्मै सर्वेषां शरीरावयवानां प्रयोग उचितो मन्यते । दण्डक्षेत्रमध्ये स्थितः स हस्ताभ्यां कन्दुकं स्प्र्ष्टुं शक्नोति किञ्च रक्षास्थले प्रविशन्तं प्रवेशयन्तं वा कन्दुकं सीमसम्भयोर्मध्ये स्थित्वा वारयति । एतदर्थं तस्मिन् प्रबुद्धता-दूरदर्शिता -स्फरत्ताशीघ्रकारिता -विरोधि-गति-विज्ञतादिगुणानां स्थितरावश्यकी वर्तते ।
(च) रक्षक-क्रीडका

आक्रमण- विधाने परस्परं सहयोगकरणे मिथश्च कन्दुकप्रापणे दक्षा भवेयुः । मध्यक्रीडका आक्रामकाणां सहायका भवन्ति । ते गतागतं कुर्वन्तः सावधानतया कन्दुकमाक्रामकेभ्यः प्रापयितुं सर्वथा यतन्ते ।

(छ) आक्रान्तारः क्रीडका-

योजनापूर्वकं कन्दुकं ताडयन्ति, अन्येषां सहयोगिनां योजनानां क्रियान्वयने सयत्नाश्च भवन्ति ।

(२) क्रीडा-नियमा विधयश्च[सम्पादयतु]

(क) सर्वप्रथमं द्वे अपि दले क्रीडारम्भस्य निर्णयाय मुद्रोच्छालनं कुरुतः । तदानुसारं यस्य पक्षे निर्णयो भवति तददलं क्रीडामारभते । आरम्भकदलस्यायमधिकारोऽस्ति यत् स स्वेच्छया क्रीडाङ्गणाभागं चिनुयात् परमेवं करणेन प्रथमप्रहाराधिकारो विपक्षस्य हस्ते समायाति । निर्णायकस्य शुषिरिकां (सीटी) श्रुत्वा प्रारम्भकः क्षेत्रस्य सर्वथा मध्ये स्थापितं कन्दुकं पादेन सन्ताडय विपक्षक्षेत्रे प्रक्षेप्स्यति प्रतिक्रीडकस्य कस्यापि यावत् तेन कन्दुकेन स्पर्शो न भवति तावत् पूर्वपक्षीयः पुनस्तं न स्पृशति । प्रतिपक्षि क्रीडकाः १० गजमितेन्तश्च स्थिताः परिधितो बहिर्निः सृतं कन्दुकं क्रीडन्तस्ताडयन्त उच्छालयन्तश्च मिथः सीमक्षेत्रं प्रापयितुं चेष्टन्ते । सीमप्रापण (गोल्)स्य गणनाधिक्येन विजयघोषणं क्रियते ।
(ख)प्रति सीमप्रवेशानन्तरं क्रीडारम्भस्तयैव भवति परं प्रथमप्रवर्तनाधिकारस्तस्य भवति यस्य सीम्न कन्दुकः प्रविष्टः ।
(ग) मध्यावकाशानन्तरं प्रथमारम्भकदलादन्यद दलं क्रीडारम्भंअ करोति ।
(घ) कस्याप्यस्थायिनोऽवरोधात् परं निर्णेता पुनः कन्दुकं तत्रैव स्थापयति यतस्स बहिर्गतो भवति ।

(३) पादताडन-(किक्) पद्धतयः[सम्पादयतु]

कन्दुकं स्वसहयोगिभ्यो दातुं विपक्षसीम्नि प्रवेष्टु च यानि पादताडनानि भवन्ति तानि 'किक्’ नामभिः सम्बोध्यन्ते । तेषां प्रकार-नामानि यथा -

(क) प्रलम्बताडनम् (टोइ किक) शान्तस्य कन्दुकस्योच्चैरथवा दूरे प्रेषणाय ।
(ख) बाह्यस्तरताडनम् (आउटस्टेप किक्)-अस्य प्रयोगेणा कन्दुकोऽन्तेऽर्धव्यासरुपेणाग्रे वर्धते ।
(ग) अधस्तात् ताडनम् (लो किक) -लक्ष्यानुसारमधोगतये शक्तिशालि ताडनम् ।
(घ) स्वतन्त्र-ताडनम् (फ्री किक) -प्रत्यक्षाप्रत्यक्षरुपाभ्यामिदं ताडनं विभज्यते । प्रत्यक्षताडनेन कन्दुकस्य-सीम-प्रवेशो भवितुं शक्नोति किन्त्वप्रतक्षताडनेन लक्ष्य-दण्डक्षेत्रात् स्वतन्त्रताडनसमये विरोधिनः १० गजमितेऽन्तराले तिष्ठन्ति परं नियमोऽयं क्रीडकानां सीमस्तम्भयोर्मध्यगरेखायां स्थितावेव पाल्यते ।
(ङ) दण्डरेखातस्ताडनम् (पैनल्टी किक)-दण्डक्षेत्रस्य रेखात इदं भवति । समयेऽस्मिन् ताडकं विरोधिनां सीमरक्षकं विमुच्यान्ये सर्वेऽपि क्रीडका दण्डक्षेत्राद बहिस्तिष्ठन्ति । सीमरक्षस्तं कन्दुकं तावन्न स्पृशति यावदन्यः कोऽप्यन्यः क्रीडको न स्पृशति ।
(च) सीम -ताडनम्(गोल किक) प्रतिक्रीडकदलस्य ताडितः कन्दुको यथाकथमपि स्थित्या सीमरेखां पारयति तथान्तिमावस्थायां विपक्षक्रीडकेन स्पृष्टो भवति तदा सीमक्षेत्रस्यार्घभागे यस्माद् भागात् कन्दुको बहिर्गच्छति तत एव रक्षक दलस्य क्रीडकः कन्दुकं सन्ताडय क्षेत्रे प्रक्षिपति । विरोधिनो दण्डक्षेत्राद् बहिस्तिष्ठन्ति स्वतन्त्ररुपेण कद्नुकस्य सीमप्रवेशो न विधीयते न च सीमरक्षकः पूर्ववद् विरोदिना अस्पृष्टं कन्दुकं स्पृशति ।
(छ) कोण -ताडनम् (कार्नर किक) -कन्दुको यदा सीमस्तम्भयोर्मध्यस्थानं त्यक्त्वा येन केनापि रुपेण् सीमरेखां पारयति, अन्तिमस्थितौ च स विपक्षक्रीडकेन स्पृष्टो भवति तदा रक्षकदलस्य क्रीडार्थी ताडनमिदं करोति । एतत्समये कन्दुकं तत्कोणे निर्धारित-मध्यस्थलस्य चतुर्थांशक्षेत्रे संस्थाप्य ताडयति कोणताडनेन कन्दुकः साक्षात् सीम-प्रवेशमर्हति । अन्ये नियमाः पूर्ववदेव स्न्ति ।

केचन विशिष्टा निर्देशाः शब्दाश्च[सम्पादयतु]

पादकन्दुकक्रीडनात् पूर्वं सर्वेरपि क्रीडार्थिभिः क्रीडने प्रयोज्यानामेतेषां विधीनां ज्ञानं प्राप्तव्यम् -

(१) अधः प्रहरणम् (लो डाइव) कन्दुकस्याधस्तात् पृथ्व्यमेवाग्रे तीव्र गतये प्रहरणम्
(२) उच्चैरुत्पातनम् (क्लियरेन्स बौली)-कन्दुक उच्चैरुत्यतेदथ च दूरे गच्छेत तादृशं प्रहरणम् ।
(३)शिरसोच्चैरुत्पातनमुच्चैरेव प्रतिक्षेपणम् (हैडिंग-डिफेन्सिवक्लियरिंग)--उच्चभागादगतं कन्दुकं शिरसा सन्ताड्य् पुनरुच्चैरेव परावर्तनम् ।
(४)शिरसाऽधः पातनम् (हैगिंग-डाउनवर्ड)-उच्चैर्भागादागतं कन्दुकं शिरसा सन्ताड्य नीचैः पातनम् ।
(५) कन्दुक-नियन्त्रणम् (बाल-कन्ट्रोल)-(क) कन्दुकं पादत्राणेनावरुद्धय् यथेच्छं प्रेषयितुं ताडनम् । (ख)यदि कन्दुकमूर्ध्वभागादागच्छेत तदा स्वशरीरादवरुद्धय् स्वेच्छानुरुपं प्रेषयितुं ताडनम् ।
(६) अन्तःअ प्रक्षेपणम् (थ्रो-इन)-यदि विपक्षक्रीडकस्य ताडनानन्तरमथवा तस्मात् सङ्घट्टय कन्दुकः स्पर्श्रेखातो बहिर्गच्छति तदा निर्णायकोऽन्तः प्रक्षेपणावसरं ददाति । तदा कन्दुकं द्वाभ्यामपि हस्ताभ्यां शिरस् उपरि नीत्वा प्रक्षिपन्ति ।
(७) कन्दुक-नियन्त्रणपूर्वकं पुरो नयनम् ड्रिबलिंग (Dribbling) इति कथ्यते । अस्य् त्रयः प्रकाराः सन्ति -
(१) स्थिति-परिवर्तन- शिफ्ट पोजीशन (Shift position)
(२) दिकपरिवर्तनं -जगाल (Jaggle) तथा
(३) अवयव -चालनं -फैन्ट (Feint) इति । एतैः प्रतिक्रीडकानां वञ्चनपूर्वकं कन्दुकस्याग्रे नयनमुद्दिष्टं भवति ।
(८)आक्रमणाद् निर्वतनं 'टेकलिंग' (Tackling) कथ्यते । अस्यापि त्रयः प्राकारा विद्यन्ते । यथा (१) पुरोऽवरोधः फ्रन्ट ब्लाक (Front Block), (२) स्कन्धा-क्रमणम् साइड-वे (Side way) तथा (३) कटिवलनावरोधः ब्रैकर ब्लाक(Breaker) इति । इत्यमेव पादेनावरोधप्रक्रियां ट्रेप् (Trap) इति कथयन्ति । इमाः प्रक्रिया नवधा प्रयुज्यन्ते -पादतलेन, पादमध्येन, पादाग्रेण्, पादबाह्यभागेन, जङ्घया, पादभ्यां, वक्षसा, वक्षोभागादधोनयनेन शिरसा च ।सीमरक्षकोऽपि मुष्टया ताडनेन शयनपूर्वकं हस्तद्वारावरोधनेन च वैशिष्ट्यं लभते । एतेषां ज्ञानेन क्रीडकः पादकन्दुकक्रीडायां निपुणो भवति यशश्चार्जयति ।

फुट्बाल्-क्रीडायाः श्लोकः[सम्पादयतु]

उच्चैः कन्दुकमुत्पतन्तमथवा दूरे व्रजन्तं पुनः
गत्या तीव्रतयाऽऽगतं पर-दलाक्रान्तं दलक्रीडकाः ।
यस्यामाशु विपक्षसीम्नि सुधिया हन्त ! प्रवेष्टुं रताः
पदभ्यां कन्दुकताडनी भवति सा क्रीडा सतां रञ्जनी ॥
क्रीडाङ्गणे चरण-कन्दुकमुत्पतन्तं
क्रीडाकृदाप्य परिखेलति खेलकोऽत्र ।
धावन पतन्नथ चलत् प्रहरंश्च पदभ्यां
हर्ष चिरं वितनुते मनुते न दुःखम् ॥

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

"http://sa.wikipedia.org/w/index.php?title=पादकन्दुकक्रीडा&oldid=261964" इत्यस्माद् पुनः प्राप्तिः