पाराशरस्मृतिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

पराशरमुनिर्भगवतो बादरायणव्यासदेवस्य पिताऽऽसीत् । असौ श्रीशङ्कराचार्यपरम्पराक्रमेण पीठाधीशस्तपोनिष्ठः स्मृतिशास्त्रस्य च प्रणेताऽऽसीत् । तत्प्रणीतं स्मृतिशास्त्रं कलिकालस्य कृतेऽत्यन्तमुपयोगितामावहति । पराशर मुखनिः सृतोऽयं श्लोकः-

कृते तु मानवो धर्मस्त्रेतायां गौतमः स्मृतः ।
द्वापरे शाङ्खलिखिता कलौ पाराशरः स्मृतः ॥

एकदा भगवान् व्यासः स्वपितरं पराशरं प्रार्थयित्वा प्रोवाच-पितृपादाः, कलौ मानवधर्मस्य द्रुतं ह्रासो दृश्यते । अतो भवन्तस्तपोधनाः कलियुगोपयोगि स्मृतिशास्त्रं प्रणयन्त्विति । अतस्तदनुसारेण पराशरः स्मृतिशास्त्रं लिलेख । सेयं स्मृतिरिदानीन्तनस्य कलिकालस्योपयोगित्वम् आवहन्ती सती लोकसमाजे आदृताऽस्ति ।

पुरा ब्राह्मणानां कृते कृषिकर्म निषिद्धम् आसीत् वर्णाश्रमनियमानुसारेणैव । किन्तु पराशरस्मृतौ यागयज्ञातिरिक्तं कृषिकर्मापि ब्रह्मणैः कर्त्तव्यमिति शास्त्रीयानुमतिः प्रदत्ताऽभूत् । अत एव ब्राह्मणस्तपोयज्ञादिपुण्यकपर्मद्वारा सन्यासी समाधिद्वारा योगरुढो यति योगाभ्यासद्वारा च यत् परमं मुक्तिपदं प्रप्नुवन्ति, वीरः क्षत्रियः स्वमातृभूमिनिमित्तं संग्रामे योधं योधं निहतः सन्नपि तन्मोक्षपदं लब्धं शक्नुयादिति स्मृत्याऽनुमोद्यत एव । पुनश्च वीर स्तादृशीं मुक्तिपदवीं प्रशंसादिकीर्त्तिपुरः सरं लभत इति पराशरस्मृत्याऽनुमोदितमस्ति । पराशरमहर्षिणा कलियुगस्य समयोपयोगिताम् अनुभूय कृषिकर्मणो युद्धकर्मणश्च भूयसी प्रशंसा विहिताऽस्ति । येन इदानीन्तनकालेऽपि कृषिकर्मणो युद्धविद्यायाश्च राष्ट्रे युगपदुभयोरपि भूयो भूयोऽभिवृद्धि र्दृश्यते ।

पराशरस्मृतौ द्वादशाध्यायाः सन्ति । ५१२ श्लोकाश्च वर्त्तन्ते । तत्र विशेषरुपेण आचार-प्रायश्चित्तयो र्विषये विचार उपनिक्षिप्तः । तस्याः प्रथमाध्याये कलियुगस्य शौचाचारव्यवस्था, युगधर्मः, कलिगुहेऽसत्याधर्मयोः प्रादुर्भावः, गृहस्थ-धर्मः, अतिथिसत्कारः चतुर्णां वर्णानां कर्त्तव्यानि च विवेचितानि, द्वितीयाध्याये गृहस्थस्य धर्मः, कृषि-कर्मणि नियमाः, क्षेत्रानुसारेण वलीवर्दयोजनम्, वली-वैश्वदेवफलादिकञ्च प्रतिपादितानि । ततः तृतीयाध्याये चतुर्णां वर्णानां जननाशौच- मरणाशौचविचारः, सपिण्डविचारः, शुद्धिविचारः, मरणे वर्णादीनां स्पर्शाशौचविचारः, ब्राह्मणस्य शूद्राशवानुअमनविचादयो विशेषेण प्रतिपाद्ताः, चतुर्थाध्याये क्रोधादात्महननविचारः, आत्मघातिसंस्कार-प्रायश्चित्तम्, रजः स्वलाशुद्धिः, स्त्रीव्रतानि, भर्त्तृनिन्दाफलम्, गर्भपातस्य मरणामेव प्रायश्चित्तमित्यादिकं विचारितम् । ततः कुणु-गोलक-क्षेत्रजौरस-कृत्रिमदत्तकादिपुत्राणां विचारः, परिवेतु-परिवीति प्रभुतीनां पातकम्, सतीस्त्री प्रशंसादिकञ्चो -पस्थापितम्, पञ्चमाध्याये ब्राह्मणब्राह्मण्योः स्वदंशनप्राश्चित्तम्, अग्निहोत्रि -दाहविधिश्च प्रतिपादिताः । षष्टाध्याये पशुपक्षिहिंसा प्रायश्चित्तम् । चण्डालादिवधप्रायश्चित्तम्, भुमिशुद्धिव्यास्थादिकञ्च् विचारितम् । सप्तमाध्याये द्र्व्यशुद्धिः, पात्रशुद्धिः रजः स्वलाशुद्धिः, क्षवणमिथ्या माजणादि-शुद्धिव्यवस्था च पतिपादिताः । ततः अष्टमाध्याये गायत्री-रहितब्राह्मण्स्य निन्दा, देवमन्दिरे प्रायश्चित्त-व्यवस्था, गोवधप्रायश्चितादिकञ्च् विचारितम्, नवमाध्याये विभिन्नप्रकारकगोवधे प्रायश्चित्तम्, दाशमाध्याये वर्णानां पापमुक्त्युपायः, परदार-गमनप्रायश्चित्तम, मात्रादिगमनप्रायश्चित्तम, एकादशाध्याये भक्ष्याभक्ष्यविचारः, अभक्ष्य-भक्षणप्रायश्चित्तम, विधिपूर्वकं पञ्चगव्यपान -विधानम्, तथा द्वादशाध्याये पञ्चविध स्नान- विचारः, आचमनविधिः, शुद्रान्नभक्षण-प्रायश्चित्तम्, संसर्ग-प्रायश्चित्तादिकञ्च विचारितम् ।

स्मृतावस्याम् श्लोका इमा युगोपयोगिनः कथं भवन्ति, तदवधेयम् यथा -

अथातो हिमशैलाग्रे देवदारुवनालये ।
व्यासमेकाग्रमासीनमपुच्छन् मुनयः पुरा ॥
युगे युगे च मे धर्मास्तत्र तत्र च ये द्विजाः ।
तेषां निन्दा न कर्त्तव्या युगरुपा हि ब्राह्मणाः ॥
सर्वेषामपि पापनां सङ्कटे समुपस्थिते ।
शतसाहस्त्रमभ्यस्ता गायत्री शोधनं परम् ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=पाराशरस्मृतिः&oldid=234811" इत्यस्माद् पुनः प्राप्तिः