पि. सुशीला

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
पि. सुशीला
जन्मनाम पि. सुशीला
मूलतः भारतीया
सङ्गीतविद्या नेपथ्यगायिका, भारतीयशास्त्रीयसङ्गीतम्
वृत्तिः गायिका
वाद्यानि Vocalist
सक्रियवर्षाणि १९५० तः... अनुवर्तते ।





पि.सुशीला आन्ध्रप्रदेशस्य विजयनगरे क्रि.श. १९३५तमे वर्षे नवेम्बरमासस्य १३तमे दिनाङ्के अजायत । दक्षिणभारतस्य लता मङ्गेश्कर् इत्येव प्रसिद्धा एषा दक्षिणभारतस्य प्रसिद्धासु नेपथ्यगायिकासु अन्यतमा अस्ति । कन्नडभाषया, तमिळुभाषया, तेलुगुभाषाया, मलयाळभाषया च अनेकानि गीताति गीतवती । सामान्यधनिकस्य कुटुम्बे जतायाः अस्याः पिता मुकुन्दरावः प्रसिद्धः न्यायवादी आसीत् । माता शेषम्मा सङ्गीतविषये विशेषेण आसक्ता । तस्मात् प्रदेशात् आगताः घण्ठसालः, द्वारं वेङ्कटस्वामी नाय्डू इत्यादयः । पुत्री एम्. एस्. सुब्बुलक्ष्मीः इव श्रेष्ठा सङ्गीतज्ञा भवेत् इति पित्रोः आशयः आसीत् । सङ्गीते डिप्लोमापदवीं प्रथमश्रेण्या उत्तीर्य क्रि.श. १९५१तमे वर्षे तदानीन्तने मद्रास्नगरे विद्वत्परीक्षां स्वीकृतवती । अध्ययनं कुर्वती एव आकाशवाण्यां गायति स्म । तत् श्रुत्वा आकृष्टः ख्यातसङ्गीतसंयोजकः पेण्ड्याल नागेश्वर राव् "पेट्रताळि " इति तमिळुभाषाचलच्चित्रे गापितवान् । एम्. एम्. राजा इति गायकः अनया सह युगलगीतं गीतवान् । ततः परं पि. सुशीला अवनतिं न दृष्टवती एव । प्राप्तान् सर्वावकाशान् उपयुज्य ४०सहस्रगीतानां स्वामिनी अभवत् । अस्याः पुलब्धिषु सङ्गीतासक्तस्य पत्युः मोहनरावस्य सहकारः अस्ति एव । जयकृष्णः इति अस्याः एकः एव पुत्रः सङ्गीते रुचिमान् अस्ति । स्नुषा सन्ध्या स्वयं नेपथ्यगायिका एव । क्रि.श. १९६०-७०तमे काले अनेकानि गीतानि सुमधुरं गीत्वा भारतसर्वकारस्य उन्नतगौरवं पद्मभूषणं प्राप्तवती । एम्. एस्. विश्वनाथात् आरभ्य ए. आर्. रेहमन्पर्यन्तं बहुभिः सङ्गीतसंयोजकैः सह कार्यं कृतवती । अस्याः आदर्शा गायिका लता मङ्गेश्कर् । राष्ट्रप्रशस्तिं स्वीकर्तुं यदा देहलीं गतवती तदा लतायाः परिचयः प्राप्तः । ततः परं तयोः आत्मीयता संवृद्धा अतः तां एषा दीदि इत्येव सम्बोदयति ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • पञ्च राष्ट्रप्रशस्तयः ।
  • क्रि.श. १९६९तमे वर्षे तमिळुभाषायाः " उयिरेन्त मानिदन् " इति चलच्चित्रस्य ' पाल् पलुवे वान् मीन्दिले' इति गानार्थम्।
  • क्रि.श. १९७१तमे वर्षे तमिळुभाषायाः " सिरिसिरि मुव्व " इति चलच्चित्रस्य ' चतुक् कुरुवे किन्न कुत्तुप्पाडु ' इति गानार्थम् ।
  • क्रि.श. १९७८तमे वर्षे तेलुगुभाषायाः " सिरिसिरि मुव्व " इति चलच्चित्रस्य ' जमान्दि नादं सायन्दि पादम् ' इति गानार्थम् ।
  • क्रि.श. १९८२तमे वर्षे तेलुगुभाषायाः " मेघासन्देशम् " इति चलच्चित्रस्य ' प्रिये चारु सीले एन्थ प्रीतोंवदे ' इति गानार्थम् ।
  • क्रि.श. १९८२तमे वर्षे तेलुगुभाषायाः " एम्.एल्.ए. एडुकोण्डलु" इति चलच्चित्रस्य ' गोपालुडु वेणुगोपालुडु ' इति गानार्थम् ।
  • राज्यप्रशस्तयः
  • आजीवोपलब्धये
  • क्रि.श. १९८८तमे वर्षे तमिळुनाडुसर्वकारस्य " भारतिदर्शनप्रशस्तिः । "
  • क्रि.श. २००४तमे वर्षे आन्ध्रप्रदेशसर्वकारस्य "रघुपति वाङ्गय्य प्रशस्तिः । "
  • क्रि.श. २००३तमे वर्षे केरळसर्वकारस्य "कमुकर प्रशस्तिः । "
  • क्रि.श. २००३तमे वर्षे महाराष्ट्रसर्वकारस्य "शिवाजी प्रशस्तिः । "
  • अन्यसम्माननानि
  • क्रि.श. २००६तमे वर्षे फिलं फेर् आजीवोपलब्धिप्रशस्तिः ।
  • क्रि.श. १९७९ तमे वर्षे सङ्गीतकलाभारती आजीवनप्रशस्तिः ।
  • क्रि.श. १९९३तमे वर्षे अताराष्ट्रियचित्रोत्सवप्रशस्तिः ।
  • क्रि.श. १९९७तमे वर्षे ए.वि.एम्. प्रशस्तिः ।
  • क्रि.श २००१तमे वर्षे भारतकलाचरप्रशस्तिः ।
  • ५५०सङ्ख्याधिकस्थानेषु सम्माननम् अभवत् ।

अस्याः गानयुक्तानि कानिचन चलच्चित्राणि[सम्पादयतु]

  • अनिरीक्षित, भूपतिरङ्ग, संशयफल, सिपायिरामु, गान्धिनगर, वीरकेसरी, साक्षात्कार, कस्तूरिनिवास, जकणाचारि, एडकल्लुगुड्ड ।
  • श्रीनाथकविसर्वभौम, पेळ्ळिपुस्तकम्. कुरुप्पिन्ते कनक्कु पुस्तकम्, मार्पु, टू टौन् रौडी, मरणमृदङ्गम्, मुरळिकृष्णुडु, यमडिकि मोगुडु, कृष्णुडु, चिन्नुडु पेद्दुडु, पेळ्ळि चेसि चूडु, संसारं ओक चदुरङ्गम्, शृतिलयलु, स्वाति तिरुनाळ, विश्वनाथ नयकुडु, नाकु पेळ्ळां कावाली, प्रेसिडेण्ट्गारि अब्बायी, मुद्दुल मनवरालु, कल्याणताम्बूलम्, ताण्ड्रदेवरायुडु, चाणक्यशपथम् इत्यादीनि ।


"http://sa.wikipedia.org/w/index.php?title=पि._सुशीला&oldid=236368" इत्यस्माद् पुनः प्राप्तिः