पुरुषसूक्तम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

विदित एव खल्वयमर्थ: सर्वेषामपि विदुषां यत् किल जगन्नियन्त्रकं पारमेश्वरं तत्त्वं यथा भारतीयानां सारस्वते प्रतिपादितं नैवमन्यत्र क्वापीति । भारतीयानां च निरतिशयप्रमाणभूता ग्रन्था नाम वेदा एव । तन्मूलकत्वेनैव स्मृतिप्रमाणादीनां प्रामाण्यम् । यच्च वेदविरोधि तत्पुनस्त्याज्यमेवेति निश्चिन्वते श्रुतिमात्रनिष्ठा भारतीया: । सृष्टिनिर्माणविधौ सर्वाद्यतमा: खलु श्रुतय: । तथाहि आर्चिके पौरुषे सूक्ते

तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत ॥

इति सर्वादौ वेदानामाविर्भावमुद्घोष्य तदनन्तरमेव अश्व-गो-मेध-याग-ब्राह्मणादिवर्णा सञ्जाता इति प्रत्यपादि । श्रुतय एव सर्वं ज्ञानविज्ञानानां मूलमिति मन्यन्ते भारतीया: । सर्वं वेदात् प्रसिद्ध्यति इत्यभियुक्त्योक्तिरेतदेव कथयति । विशेषत: खलु यज्ञार्थमेव वेदानामवतार:। यज्ञश्च नाम परमात्मन उपासना । परमात्मनो ज्ञानमेव परमश्रेयसो मोक्षाख्यस्य सम्पादकमिति “तमेव विदित्वाऽतिमृत्युमेति नान्य: पन्था विद्यतेऽयनाय” इति श्रुति: प्रतिपादयति । सर्वव्यापक: परमात्मैव भगवान् विष्णु: । “तत्सृष्ट्वा तदेवानुप्राविशत्” इति श्रुत्या विष्णुपदार्थो विज्ञायते । विशतीति विष्णुरिति व्यापक इत्यर्थ: ।

विष्णोः देवत्वम्[सम्पादयतु]

श्रीभगवान् विष्णु: स्वभक्तपरित्राणाय दुष्टविदलनाय च तदा तदावतारान् जग्राहेति प्रतिपाद्यते पुराणेषु । तस्य मूलं वेदेषु सम्प्राप्यते । श्रीविष्णो: स्वरूपं सामर्थ्यं सर्वव्यापकत्वमपि पुराणादिषु प्रतिपाद्यते । तदपि वेदेष्वेव प्रथमं संदृश्यते । तथाहि ऋक्संहितायां विष्णुसूक्तेषु विष्णो: परमात्मस्वरूपत्वम् : “विष्णो देवत्वं परमस्य वित्से” । “न ते विष्णो जायमानो न जातो देव महिम्न: परमन्तमाप”। अत्र हि विष्णु: पर्मात्मा अगम्यमहिमा इति निरूपितम् । विष्णो: सर्वव्यापकत्वम् : नारायणोपनिषदि “यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण: स्थित:” ।

विष्णो: सर्वशक्तिमत्वम् : ऋग्वेदे पवमानमण्डले स्पष्टतया उक्तमस्ति ।
अत्रहि विष्णु विश्वप्रकाशकस्य - सूर्यस्यापि प्रकाशक इत्युक्तम् ॥

विष्णोर्महान्ति कर्माणि : विष्णुसूक्तेषु “उरुक्षितिं सुजनिमाचकार” इत्येतस्मिन् वाक्ये पृथिव्या: समृद्धये अयमवततार परमात्मा इति सूच्यते । पावमानमण्डले च स्पष्टमेव श्रूयते “हरि: सन्योनिमासदत्” । हरिर्विष्णुर्जन्म लब्धवानित्यर्थ: । आर्चिकेषु विष्णुसूक्तेषु च विष्णोर्वामनावतारवर्णनं सुस्पष्टतया व्यज्यते । वामनरूपिणो विष्णोर्यज्ञे गमनम् :- “बृहच्छरीरो विमिमान ऋक्वभिर्युवा कुमार: प्रत्येत्याहवम्” । अत्र युवा कुमार: आहवं नामयज्ज्ं प्रत्येति गच्छतीति वामनवटोर्यज्ञे गमनं व्यज्यते । त्रिभि: पदक्रमैर्विश्वस्याक्रमणम् :- “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्” ।“त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्य:” । “विचक्रमाणस्त्रेधोरुगाय:” । “यस्योरुषु त्रिषु विक्रमाणेष्वधिक्षियन्ति भुवनानि विश्वा” । इत्यादिभिश्च वाक्यै: पौराणिकै: प्रतिपाद्यमानो वामनरूपिणो विष्णोर्विक्रम: सूच्यते । अन्यतापि “त्रिर्देव: पृथिवीमेष एतां विचक्रमे” (ऋक्) इत्यभ्यधायि । अयं च परमात्मा जगत्राणार्थमेव अवतारादिकं धारयति । तथाहि

विष्णुसूक्तेषु[सम्पादयतु]

“तत्तदिदस्य पौस्यं गृणीमसीनस्य त्रातुरवृकस्य मीढुष:” । इत्यत्र वज्रेण युध्यमनस्य (सीमस्य=) अन्नस्य संरक्षितु: अयं बलविभवोऽस्माभि: स्तूयते (तत् तद् अस्य विष्णो: पौंस्यं=बलं गृणीम=गिरा वर्णयाम:) इति प्रत्यपादि । तथा चैतावान् विष्णु: संसेव्य एवेत्याह भगवान् वेद: “महे शूराय विष्णवे चार्चत” (विष्णुसूक्तम्) । अथ ते विष्णो विदुषाचिदर्घ्य: स्तोमो यज्ञश्च राध्यो हविष्मता” (वि.सू) इत्यादिभिर्विष्णुप्रीतये यज्ञ: कर्तव्य इति ज्ञायते । एवं च सुकृतकारिणे विष्णुरधिकं श्रेय: प्रत्यर्पयतीति प्रतिपादयतीयं श्रुति: - विष्णुसूक्तेषु - “इन्द्राय विष्णु: सुकृते सुकृत्तर:” इति । एतादृश: परमात्मा विष्णुर्विश्वस्य धारक इति “एको दधार पृथिवीमुत द्याम्” इति श्रुतिवाक्येन विज्ञायते । विष्णो: स्तुतिकर्तारो भक्ता: शाश्वतपदं प्राप्नुवन्तीति “ध्रुवासोऽस्य कीरयो जनास:” (अस्य विष्णो: कीरय:=स्तोतार: जनास:=जना: ध्रुवास:=ध्रुवा: शाश्वता: भवन्तीति शेष:) इत्यनेन सूच्यते । एवं च महान्तमेनं विष्णुं स्तौति भगवती श्रुति: । “किमिते विष्णो परिचक्ष्यं भूत्प्रद्वक्षे शिपिविष्टो अस्मि” = हे विष्णो इत: परं किं वक्तव्यम्? साक्षात् त्वमेव अहमस्मि । अर्थात् त्वयि मम वयो भवत्विति । विष्णोरितरे श्रीनृसिंहादयोऽवतारा: पुराणेषु यथा वर्णितास्तथा तत्तुदुपनिषत्स्वपि वर्णिता: ।

उपसंहारः[सम्पादयतु]

यथा श्रीनृसिंहतापनीय -रामतापनीय-श्रीदत्तोपनिषद: । अवतारवर्णनेन सह आसूपनिषत्सु उपासनापद्धतिरेव मुख्यतेनोपदिष्टा । विष्णोरवतारा बहव एव विद्यन्ते । केषुचित् पुराणेषु दश । श्रीमद्भागवते पुन: चतुर्विंशतिरवतारा वर्णिता: । तत्र श्रीदाशरथिरामस्य श्रीकृष्णस्य च उपासना बहुलप्रचारा । एतस्य ब्रह्मरूपविष्णो: सत्स्वरूपविज्ञाने न वेदादन्यत् किमपि प्रमाणमस्ति । तस्माद्वेदानभ्यस्य तद्गतरहस्यविज्ञानाय तदविरोधिस्मृतिपुराणादिशास्त्राण्यधीत्य स्वश्रेय: सम्पादने मनुष्यान् यथावत् प्रेरयतु भगवान् विष्णुरिति शम् ॥

  • सौजन्यम् – जाह्नवी विद्युन्मानपत्रिका

पुरुष सूक्तम् वैदिकसूक्तेषु प्रथमगणनीयम्। अत्र विराट् पुरुष रुपम् भगवन्तम् द्यायते। पुनः महाविष्णु सन्कल्पे अस्य ऐकरूपयम् कथयन्ति। किन्तु वैदिक सङ्कल्पः अन्यः इति केचित्। केरळे तिरुवल्ला देवालये पूज्यमानः श्रीवल्लभस्य विराट् पुरुषत्वम् केचित् वक्ति। अत्र वैदिकपूजाविधि अस्ति इति अस्य वादस्य प्रामांणम्

पुरुषसूक्तस्य छन्दः[सम्पादयतु]

साध्यनारायण ऋषिः अनुष्टुप् च्छन्दः परम् पुरुषो महाविष्णुः देवता

सूक्तम्[सम्पादयतु]

  1. सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशांगुलमं॥१
  2. पुरुष एवेदम् यत् भूतम् यच्च भव्यम्। उतामृतत्वस्येशानो यदह्नेना तिरोहति॥२
  3. एतावानस्य महिमातो ज्यायांश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥
  4. त्रिपादूर्द्ध्वः उदैत् पुरुषः पादोस्येहा भवात् पुनः। ततो विष्वङ् व्यक्रामच्छाशनान शने अभि॥४
  5. तस्मात् विराडजायत विराजो अधिपूरुषः। सहातो अत्यरिच्यत पश्चात् भूमिमथॊ पुरः॥५
  6. यत् पुरुषेण् हविषा देवा यज्ञमतन्वत। वसन्तो अस्या सीदाज्यम् ग्रीष्म इद्ध्म शरधवि॥६
  7. सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः। देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं॥७॥
  8. तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये॥८॥
  9. तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यं। पशून्तांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये॥९॥
  10. तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे। छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥१०॥
  11. तस्मादश्वा अजायंत ये के चोभयादतः। गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥११॥
  12. यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्। मुखं किमस्य कौ बाहू का उरू पादा उच्येते॥१२॥
  13. ब्राह्मणोऽस्य मुखामासीद्वाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥१३॥
  14. चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत। मुखादिंद्रश्चाग्निश्च प्राणाद्वायुरजायत॥१४॥
  15. नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौः समवर्तत। पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्॥१५॥
  16. वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे। सर्वाणि रूपाणि विजित्य धीरो नामानि कृत्वा भिवदन्यदास्ते॥१६
  17. धाता पुरस्ताद्यमुदाजहार शक्रफ्प्रविद्वान् प्रतिशश्चतस्र। तमेवम् विद्वान् अमृत इह भवति नान्यफ्पन्धा अयनाय विद्यते॥१७
  18. यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवा:॥१८॥
"http://sa.wikipedia.org/w/index.php?title=पुरुषसूक्तम्&oldid=238095" इत्यस्माद् पुनः प्राप्तिः