पुरुषार्थः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

यथा भारतीयशास्त्रकारैः समष्टेः कल्याणार्थं वर्णधर्मः , व्यष्टेः कल्याणार्थं च आश्रमधर्मः उपदिष्टः, तथैव व्यष्टिः समष्टिः इत्युभयोः कल्याणार्थं चतुर्विध-पुरुषार्थरुपेण जीवनध्येयमपि प्रदत्तं यद् ध्रुवतारकावत् जीवनयात्रायां तस्य मार्गदर्शनं कुर्यात् । को नाम पुरुषार्थः इति चेत् तत्रोक्तम् (जै.सू.वृ.४-१२)-

कृतार्थोऽस्मि इति वृत्तिस्तत्साधनं पुरुषार्थः इति ।

यदि किंचित् जीवनलक्ष्यं न स्यात् तर्हि नानाविधान् सुखोपभोगान् भुक्त्वा अपि मानवः कृतार्थताजन्यं समाधानं नैव लभेत् । प्रचलदूर्मिमालाकुले सागरे गन्तव्यविरहिता नियन्त्रणरहिता प्रवाहपतिता नौः इव तस्य स्थितिः जायेत । अतः एव मनुष्यजीवनं साङ्गोपाङ्गम् अभ्यस्य तस्य प्रवृत्तीः च सम्यक् निरीक्ष्य एते चतुर्विधाः पुरुषार्थाः धर्मार्थकाममोक्षात्मकाः तस्मै साध्यरुपेण प्रदत्ताः मानवानुग्रहतत्परैः शास्त्रकारैः ।

सर्वेषां शास्त्राणां प्रयोजनं पुरुषार्थसिध्दिः[सम्पादयतु]

भारतीयानां कार्यकलापानां मूले पुरुषार्थसिध्दिः एव अन्तिमं लक्ष्यम् अस्ति । चरकः वैद्यकशास्त्रप्रणेता ब्रूते –

धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम् ॥चरक-१-१५

तथैव गणपत्यथर्वशीर्षे फलश्रुतौ उक्तम्-

सर्वत्राधीयानोऽपविघ्नो भवति । धर्मार्थकाममोक्षं च विन्दति ।

काव्यशास्त्रेऽपि अस्य तत्त्वस्य महत्त्वं वर्णयति भामहः –

धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिबन्धनम् ॥

सत्काव्यनिबन्धः न केवलं कीर्तिं प्रीतिं च उत्पादयति अपि तु धर्मार्थकाममोक्षेषु तथा च कलासु विवेचकबुध्दिमपि निर्मिमीते । श्रीमद्भगवद्गीतायाः उपोद्घाते पूजनीयैः आद्यशंकराचार्यैः एतत् स्पष्टतया उक्तम्- यतः तदर्थे विज्ञाते समस्तपुरुषार्थसिध्दिः इत्यतः तद्विवरणे यत्नः क्रियते मया इति । अनेन श्रीमदाचार्याः केवलं मोक्षमार्गानुसारिणः इति आक्षेपः निरस्तो भवति । प्रवृत्तिनिवृत्तिमार्गयोः सामञ्जस्यम् अभिप्रेतमासीत् आचार्याणाम् इति स्पष्टं भवति ।

कालिदासकृते कुमारसंभवकाव्ये स्वायंभुवस्तुतिप्रसङ्गे पठ्यते-

त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥२-१३॥

समस्तपुरुषार्थान् प्रेरयन्ती या शक्तिः सा प्रकृतिः, हे परमात्मन्, त्वमेव असि । तस्याः साक्षी उदासीनः पुरुषः अपि त्वमेव इति प्राहुः ।

अथ स्मृतिषु बहुवारं केवलं त्रिवर्गः इति पुरुषार्थत्रयस्य एव उल्लेखः समुपलभ्यते । यथा मनुः आह-

धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव वा ।
अर्थ एवेह वा श्रेष्ठस्त्रिवर्ग इति तु स्थितिः ॥२-२२४॥

धर्मः अर्थः कामः इत्येतेषु त्रिषु कः श्रेयस्करः इति प्रश्ने समुद्भूते त्रयोऽपि श्रेयस्कराः इति वस्तुस्थितिः ।

गृहस्थाश्रमप्रशंसाप्रकरणे गौतमधर्मसूत्रेऽप्युक्तम्-
तथा धर्मार्थकामानां त्रिवर्गफलमश्नुते ॥ गौधसू ४॥

अतः शङ्केयं समुद्भवति- किं मोक्षः नाम संकल्पना एव तदानीम् अवगता नासीत इति । किन्तु मनुस्मृत्यामेव उक्तम्- ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।६-३५॥ अनेन मोक्षपुरुषार्थाः तदानीं ज्ञातः आसीत् इति स्पष्टं भवति । तत्र इदम् अनुमानं निष्पद्यते यद् मोक्षः न सर्वेषां सामान्यजनानां कृते सुलभः पुरुषार्थः । अतः केवलम् आद्याः त्रयः धर्मार्थकामाः एव सर्वेषां कृते सनिर्बन्धम् उपदिष्टाः । परं केचन विद्वांसः बौध्दप्रभावात् परवर्तिकाले मोक्षस्य पुरुषार्थरुपेण समावेशः कृतः इति मन्यन्ते ।

पुरुषार्थाः[सम्पादयतु]

  1. धर्म-पुरुषार्थः
  2. अर्थ-पुरुषार्थः
  3. काम-पुरुषार्थः
  4. मोक्ष-पुरुषार्थः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=पुरुषार्थः&oldid=262538" इत्यस्माद् पुनः प्राप्तिः