पुष्पशाकम्
एतत् पुष्पशाकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् पुष्पशाकम् आङ्ग्लभाषायां Cauliflower इति उच्यते । एतत् पुष्पशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं,भर्ज्यम् इत्यादिकं निर्मीयते । अनेन पुष्पशाकेन "गोबिमञ्चूरि" नामकं विशिष्टं खाद्यम् अपि निर्मीयते । एतत् पुष्पशाकम् अपि बहुवर्णयुतं भवति । सामान्यतया काषायवर्णस्य, नीललोहितवर्णस्य, श्वेतवर्णस्य, हरितवर्णस्य च पुष्पशाकानि प्रसिद्धानि सन्ति । तद्विना पाटालवर्णस्य, पीतवर्णस्य चापि लभ्यन्ते ।
| कारवेल्लम् | शिघ्रुः | कूष्माण्डम् | कोशातकी | वार्तकी | वृन्ताकः | भेण्डा | बिम्बफलम् | पुष्पशाकम्
पर्णशाकम् | निष्पावप्रभेदः (बीन्स्) | उर्वारुकम् | महामरीचिका | कदलीकाण्डम् | पटोलः | आम्रातकम् अलाबु | निम्बूकम् | आमलकम् | मधुरकूष्माण्डम् | गोराणी | कदलीकुसुमम् | वर्तुलकम् | छत्राकम् | राजमाषशाकम् | पालङ्कः विदारी (नेलगुम्बळ) | जालकम् (होम्बाळे) |