पूगफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पूगः इत्यस्मात् पुनर्निर्दिष्टम्)
पूगफलम्
ताम्बूलनिर्माणे पूगस्य उपयोगः
पूगकर्तनयन्त्रम्
पूगवृक्षः, फलं, पुष्पं चापि
पूगसस्यम्
वृक्षे दृश्यमानानि पुगफलानि
उद्घाटितानि पूगफलानि

एषः पूगः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । तस्य वृक्षस्य फलम् एव पूगफलम् इति उच्यते । एतत् पूगफलम् अपि सस्यजन्यः आहारपदार्थः । एतत् पूगफलम् आङ्ग्लभाषायां Betel Nut इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Areca catechu इति । एतत् पूगफलं किञ्चित् वाणिज्यफलोदयः । एतत् पूगफलं नागल्लीपर्णेन सह सेव्यते । पूगफलं, नागवल्लीपत्रं, सुधां च योजयित्वा यत् निर्मीयते तत् "ताम्बूलम्" इति उच्यते । अस्य पूगस्य मूलं मलेष्यादेशः । इदानीं प्रायः जगति सर्वत्र पूगवृक्षस्य वर्धनं, पूगफलस्य उपयोगः च प्रचलति । पूगवर्धनं, विक्रयणं, संस्करणादिकम् इदानीं महान् वाण्ज्योद्यमरूपेण वर्धितम् अस्ति । केषुचित् प्रदेशेषु पूगवर्धनम् एव जीवनाधारः उद्योगः कृषिः चापि ।

"https://sa.wikipedia.org/w/index.php?title=पूगफलम्&oldid=431920" इत्यस्माद् प्रतिप्राप्तम्