पूगवृक्षः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
पूगवृक्षः
पूगवाटिका

एषः पूगवृक्षः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । तस्य वृक्षस्य फलम् एव पूगफलम् इति उच्यते । अयं पूगवृक्षः आङ्ग्लभाषायां Betel tree इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Areca catechu इति । पूगफलं किञ्चित् वाणिज्यफलोदयः । अस्य पूगस्य मूलं मलेष्यादेशः । इदानीं प्रायः जगति सर्वत्र पूगवृक्षस्य वर्धनं, पूगफलस्य उपयोगः च प्रचलति । पूगवर्धनं, विक्रयणं, संस्करणादिकम् इदानीं महान् वाण्ज्योद्यमरूपेण वर्धितम् अस्ति । केषुचित् प्रदेशेषु पूगवर्धनम् एव जीवनाधारः उद्योगः कृषिः चापि । एतत् पूगफलं नागल्लीपर्णेन सह सेव्यते । पूगफलं, नागवल्लीपत्रं, सुधां च योजयित्वा यत् निर्मीयते तत् "ताम्बूलम्" इति उच्यते ।

"http://sa.wikipedia.org/w/index.php?title=पूगवृक्षः&oldid=250706" इत्यस्माद् पुनः प्राप्तिः