पूर्विरागः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
पूर्विरागः (Purvi/Poorvi Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । पूर्वि थाटस्य जनकरागः भवति । पूर्वाङ्गप्रधानः रागः भवति । अस्य रागस्य वादिस्वरः गान्धारः (ग) भवति । संवादिस्वरः निषादः (नि) भवति । सम्पूर्णजात्यासहितः भवति । मध्यमौ स्वरौ भवतः तथापि शुद्धमध्यमस्य प्रयोगं योग्यप्रमाणे स्थापयितव्यं भवति । अन्यथा रागसौन्दर्यस्य नाशः स्यात् । शाश्त्रीयसङ्गीतस्य सन्दर्भे करुणरसस्य तथा विप्रलम्भशृङ्गारस्य अभिव्यक्तिः भवति । अस्य रागस्य प्रशस्तकालः सायङ्कालः भवति । सन्धिप्रकाशकः रागः भवति ।
अन्तर्विषयाः |
श्लोकः [सम्पादयतु]
निद्रालसा गात्रपटेन युक्ता
कान्तं स्मरन्ती विरहप्रपूर्णा।
सौन्दर्यलावण्यकलामयाक्षी
सा पूरवी शेषदिने तुरिये॥
- आरोहः - स रे ग म प ध नि स
- अवरोहः – स नि ध प म ग म ग रे स
- पक्कड – म प ध प, म प म ग रे ग- म ग रे स
समयः [सम्पादयतु]
प्रातः ४ तः ६ वादनपर्यन्तं प्रशस्तकालः भवति।
थाट् [सम्पादयतु]
- पूर्वि
सम्बद्धरागाः [सम्पादयतु]
- पुरियारागः
- धनश्रीरागः
बाह्यसम्पर्कतन्तुः [सम्पादयतु]
- Detailed analysis by Rajan Parrikar of Purvi/Poorvi and associated ragas along with audio samples.
- SRA on Samay and Ragas
- SRA on Ragas and Thaats
- Rajan Parrikar on Ragas
|
|||||||||||||||||||