प्राचीनभारतीया शिल्पकला
मूरितिकला अथवा शिल्पकला प्राचीनभाररे विशिष्टा आसीत् इति पुरातन मन्दिराणां दर्शनेन स्पष्टा भवति । शिल्पकला'याः sculpture अङ्ग्लभाषानुवादः । कलायाः तु त्रिविमीयं (three-dimensional) रूपं भवति। अस्याः शिल्पकलायाः निर्माणं शिलानां मृदुपदार्थानां माध्यमेन भवति । कलासु एव अतिप्राचीनः भेदः एव मूर्तिकला अथवा शिल्पकला भवति ।
अन्तर्विषयाः |
इतिहासः[सम्पादयतु]
भारतस्य वास्तुशिल्पस्य मूर्तिकलायाः मूलं भारतीयासांस्कृतिकेतिहासे बहुदूरं गहने निबद्धम् अस्ति । भारतस्य शिल्पकलायाम् आरम्भे एव यथार्थरूपेण मनवाकृतेः निखरं रूपं चित्रितम् अस्ति । भारतीयमूर्तिकलायां लतावृक्षाणां जीवजन्तूनां देविदेवतानां च असङ्ख्यातचित्राणि रूपितानि सन्ति । भारतीयसिन्धुसंस्कृतेः मोहेञ्जोदारोनागरिकतायाः बृहज्जलकुण्डानि एव प्राचीनमूर्तिकलायाः उदाहरणानि भवन्ति । दक्षिणभारतस्य कञ्ची मधुरै श्रिरङ्गम् रामेश्वरम्, उत्तरभारतस्य वाराणसी इत्यादिषु मन्दिराणां विविधाः शिल्पाः प्राचीन भारतस्य शिल्पकलानाम् उत्कृष्टम् उदाहरणम् । न केवलम् एतदेव मध्यप्रदेशराज्यस्य खुजराहोमन्दिराणि ओडिशाराज्यस्य सूर्यमन्दिरम् इत्यादिषु अपि स्थानेषु उकृष्टशिल्पकलानाम् उदाहरणानि दृश्यन्ते । साञ्चीस्थुपानां मूर्तिकला तु अतीव भव्या अस्ति । मामल्लापुरस्य सारनथसङ्ग्रहालयस्य लायन् केपिटल् (यस्मात् भारतसर्वकारस्य सिंहशीर्षमुद्रा स्वीकृता) इत्यस्मिन् स्थाने मौर्यस्य शिलामूर्तिः, गौतमबुद्धस्य जीवनघाटनानां चित्रणयुक्ता अमरावती नगरम्, अपि च नागार्जुनघोण्डस्य वास्तुशिल्पीयमूर्तयः च प्राचीनभारतस्य शिल्पकलाकौशलस्य दृष्टान्तानि भवन्ति । हैन्दवगुहाः वास्तुशिल्पस्य पराकाष्ठा तु मुम्बैनगरस्य निकटं एलिफेण्टोगुहासु दृश्यते । एवमेव एल्लोरायाः हैन्दवजैनमन्दिरेषु विशेषरूफेण अष्टमशताब्दस्य कैलासमन्दिरं वस्तुशिल्पस्य उत्तमदृष्टान्तस्य स्थानम् अस्ति । इतिहास्य कालखण्डस्य समृद्धानि साक्ष्यानि एवं सङ्केतयन्ति यत् भारतीया शिल्पकला विश्वे एव सर्वप्राथमस्थानम् अवप्नोत् इति ।
वीथिका[सम्पादयतु]
बाह्यानुबन्धाः[सम्पादयतु]
- भारतीय शिल्प : राममनोहर लोहिया
- India Crafts
- Architecture of India
- Essays on sculpture from Sweet Briar College, Department of Art History
- International Sculpture Center
- Sculpture artists listings from the-artists.org
- Escultores.com Videos and pictures of sculpture
- Corning Museum of Glass
- Cass Sculpture Foundation charity dedicated to commissioning monumental sculpture