प्राचीनभौतशास्त्रम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

ऊर्जसंरक्षणनियमः, अणुसिध्दान्तः, द्रव्यनिर्माणम् इत्यादयः विषयाः वैदिककालादारभ्य भारते प्रसृताः दृश्यन्ते । शब्दस्य प्रकाशस्य च गतिः स्वभावादयश्च न्यायवैशेषिकमीमांसादिषु चर्चाविषयाः जाताः दृश्यन्ते । शब्दः वायौ प्रचयम् अपचयं च निर्माय सञ्चरति । तरङ्गरुपस्य अस्य शब्दस्य प्रतिफलनम् अपि चर्चितः अस्ति । प्रकाशस्य प्रतिफलनम्, अपभ्रंशः इत्यादयः विषयाः तर्कशास्त्रे दृश्यन्ते । एते विषयाः वात्स्यायनभाष्ये रश्मिपरावर्तनशब्देन निर्दिष्टाः । प्रकाशवेगः, द्वैतस्वभावः इत्यादयः क्रिस्तीयनवमशतके जातेन आचार्यवाचस्पतिमिश्रेण विरचितायां तात्पर्यटीकायां प्रतिपादिताः । एते च विषयाः पाश्चात्यपण्डितैः सप्तदशे शतके ज्ञाताः । क्वाण्टम् सिध्दान्तम् अधिकृत्य अपि उपनिषत्सु चर्चा कृता दृश्यते ॥

'सायणाचार्यः प्रकाशस्य वेगम् एवं प्रतिपादयति-'
'योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ।'
'एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते ॥ इति ॥'

अस्य व्याख्याने प्रकाशवेगः ६४००० क्रोशमितः (१८५०० मैल्परिमितः) इति उक्तम् अस्ति । आधुनिकाः च प्रकाशवेगं १८६२०२.३९६० मैल् मितं वदन्ति ॥ ऊर्जं पिण्डस्य आनुपातिकम् अस्ति (E=mc2) इति एन्स्टिन्महोदयस्य दर्शनम् इति वादः श्रूयते । “ त्वाष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुतज्ज्वलः” इति भवभूतेः प्रयोगं पश्यन्तु भवन्तः । विश्वकर्मणः पुत्री संज्ञा सुर्यवधूः जाता । किन्तु सुर्यस्य अधिकतेजसा पीड्यमानया संज्ञया पिता बोधितः । सः पिता सूर्यं त्वाष्टृयन्त्रम् आरोप्य ऊर्जन्यूनतां चकार इति पुराणकथा । ऊर्जपिण्डबन्धनं निरुपयति खलु एषा कथा ॥

एकदा सयन्स् टुडे नामिकायां पत्रिकायां प्रकाशितम् ऎन्स्टिन्महाशयस्य वाक्यम् अत्र स्मरणीयम् । तत् एवम् अस्ति – `You hail from India in the name of Hindu Philosophy. Yet you nota cared to learn Sanskrit. Come along, see my library whicha treaseures classics from Sanskrit, the Gita and other treatises on Hindu Philosophy. Theya are the main source of my inspirations and guidelines for tha purpose of scientific investigationsa and formulations of theories

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

124-132, [४]

"http://sa.wikipedia.org/w/index.php?title=प्राचीनभौतशास्त्रम्&oldid=271137" इत्यस्माद् पुनः प्राप्तिः