प्राचीनरसतन्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


रसतन्त्रविषये संस्कृतग्रन्थाः बहवः सन्ति । वाग्भटस्य रससमुच्चयः एतेषु प्राधान्यम् आवहति । शिल्परत्नं, विष्णुधर्मोत्तरं, मानससारः, मानसोल्लासः, रससंहिता इत्यादयः रसतन्त्रस्य विविधविषयान् प्रतिपादयन्ति । स्फटिकं, काचः(लेन्स्), वर्णः सुधा (सिमेण्ट्), निर्यासः, सुगन्धवस्तूनि, कागदं, लोहाः विशिष्टमृत्पात्राणि इत्यादीनां पदार्थानां निर्माणं, रसप्रक्रिया च एतेषु ग्रन्थेषु निरुपिताः सन्ति । अत्र अनेकविधानि अम्लानि (acids) क्षाराणि (bases) च उल्लिखितानि । एतेषाम् उपयोगेन कृत्रिमपदार्थानां निर्माणाय अपेक्षिता साङ्केतिकविद्या अपि तेषु प्रतिपादिता ॥

चिकित्सायाम् अपि अस्य रसतन्त्रशास्त्रस्य उपयोगः आसीत् । पातञ्जलमहर्षेः लोहशास्त्रं लोहसंस्करणेन लवणनिर्माणरीतिं वर्णयति । क्रि. पू. द्वितीये शतके जातस्य नागार्जुनस्य रसरत्नाकरग्रन्थः लोह्यायनिर्माणार्थं साङ्केतिकव्यवस्थां निरुपयति । परीक्षणशालायाः रचनां, तत्रत्यानि उपकरणानि, एकैकस्यापि प्रक्रियायाः कृते आवश्यकाः तापविशेषाः रसतः औषध्निर्माणरीतिः इत्यादयः अपि अस्मिन् ग्रन्थे सन्ति । रसस्तम्भनादयः नवदशप्रक्रियाः अपि अत्रैव वर्ण्यन्ते । एकादशशतकीयः (क्रि.श. ११) रसार्णवग्रन्थः लोहस्य विविच्य ज्ञानाय ज्वालापरीक्षणव्यवस्थां (flame test) वर्णयति । देहलीस्थः विष्णुस्तम्भः अजन्ताचित्राणि च भारतीयरसतन्त्रस्य प्रत्यक्षोदाहरणानि सन्ति ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्राचीनरसतन्त्रम्&oldid=468520" इत्यस्माद् प्रतिप्राप्तम्