प्राचीनविमानशास्त्रम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

वायुप्रवाहतः उत्पन्नम् ऊर्जं, सौरोर्जम्, इतरेन्धनोर्जं च उपयुज्य सञ्चार्यमाणानि विमानानि अत्रा आसन् । भरद्वाजमहर्षेः यन्त्रसर्वस्वम्, अगस्त्यस्य् शक्तिसूत्रम्, ईश्वरस्य सौदामिनीकला, भरद्वाजस्यैव अंशुमत्तन्त्रं, शाकटायनस्य वायुतत्त्त्वप्रकरणं वैश्वमारुततन्त्रं च, नारदस्य धूमप्रकरणम् इत्यादीनां विमानशास्त्रस्म्बध्दानां ग्रन्थानां उल्लेखाः दृश्यन्ते । भोजस्य समराङ्गणसूत्रधारं, शौनकमहर्षेः व्योमयानतन्त्रं, गर्गस्य यन्त्रकल्पः, नारायणस्य विमानचन्द्रिका, वाचस्पतेः यानबिन्दुः, दुण्ढिनाथस्य व्योमयानार्कप्रकाशिका, चक्रायणिमुनेः केतुयानप्रदीपिका इत्यादयः अनेके ग्रन्थाः अपि विमानशास्त्रसम्बध्दाः एव ॥

विमानस्य अवरोहणकाले, भूस्पर्शसमये चैव अपघातस्य संभावना अधिका इति भरद्वाजमहर्षिः कथयति । अद्यापि समस्ति खलु सा एव स्थितिः ? विस्तरभयात् विषयोऽयं न विश्तार्यते ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]