प्राणायामः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
योगशास्त्रस्य प्रणयिता पतञ्जलिः
तस्मिन् सति श्वासप्रश्चासयोर्गतिविच्छेदः प्राणायमः । (यो.द. २/४९)

श्वासप्रश्वासयोः गतेः विच्छेदः प्राणायामः । प्राणायामः त्रिविधः । रेचकः, पुरकः, कुम्भकश्चेति । नाडीशोधनं भवति प्राणायामस्य मुख्योपयोगः । यमनियमाभ्यां संयुक्तः सन् पुरुषः यदि प्राणायाममाचरेत् तर्हि नाड्यः शुध्दाः भवन्ति । प्राणायामेन पापस्य अज्ञानस्य च क्षयो भवति । मनः स्थिरं भवति । धारणायोग्यसामर्थ्यं प्राप्नोति । प्राणायामः-श्वासप्रश्वासयोः गतिविच्छेदः प्राणायामो भवति ।

रोगाणां विनाशाय प्रणायामस्यपि आवश्यकता वर्तते । शरीरस्थासु द्विसप्ततिसहस्रं नाडीषु कस्याञ्चित् एकस्यां नाडयां वायुसञ्चालनं सम्यक् न भवति चेत् शरीरं रोगग्रस्तं भवति । तदा वायुसञ्चालनं सम्यक् कर्तुं प्राणायामस्य आवश्यकता भवति । ‘हठयोगः’ इति ग्रन्थे – ‘ह’ ‘ठ’ इति अक्षरद्वयस्य पृथगर्थः हठयोगप्रदीपिका-ग्रन्थस्य प्रणेत्रा स्वात्मारामेन वर्णितः । सूर्यदेवः अर्थात् पिङ्गलानाडी अथवा प्राणवायुः ‘ह’ कारः इति उच्यते, यत्तु दक्षिणनासापुटम इत्युच्यते । पुनश्च चन्द्रदेवः अर्थात् इडानाडी अथवा अपानवायुः ‘ठ’ कारः इत्युच्यते, यत्तु वामनासापुटमिति कथ्यते । अतः अनयोः सूर्यचन्द्रयोः मेलनम् ‘हठयोगः’ अर्थात् इडानाड्यां पिङ्गलानाड्यां च प्रवहतः वायोः मेलनं हठयोगः इति कथ्यते । उक्तञ्च –

हकारः कीर्त्तितः सूर्यष्ठकारश्चन्द्र उच्यते ।
सूर्याचन्द्रामसोयोगाद् हठयोगो निगद्यते ॥

(गोरक्षनाथेन सिध्दसिध्दान्तपध्दतौ )

प्राणायमाभ्यासः[सम्पादयतु]

हठयोगी यथा प्राणापानयोः वायोः मेलनं कारयित्वा प्राणायामसाधनेन वायुं निरोधयति, प्राणायाममाध्यमेन शारीरस्य स्वस्थतां च संरक्षति, तथैव महर्षिपतञ्जलिरपि प्राणायामं वर्णयित्वा प्राणायामेन शरीरस्य समतां प्रतिपादयति । यथा – नासापुटमाध्यमेन प्राणवायुग्रहणम् –श्र्वासः नासापुटमाध्यमेन प्राणवायुनिष्कासनम् –प्रश्वासः

तयोः श्वासप्रश्वासयोः वायोः गतिं स्वेच्छानुसारं चालनं प्राणायामः । समुचिते आसने उपविश्य प्राणायमाभ्यासः अवश्यं करणीयः । हठयोगानुसारम् – ‘चले वाते चलं चित्तं निश्चले निश्चलं भवेत् ’। अतः

यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते ।
मरणं तस्य निष्क्रान्तिः ततो वायुं निरोधयेत् ॥

अर्थात् यावत् प्राणवायुः शरीरे तिष्ठति तावत् जीवनमस्ति । अतः जीवनसंरक्षणार्थं प्राणायामः अवश्यम् अभ्यसनीयः । एवञ्च शरीरं निरोगं भवेत् । प्राणायामभेदेऽपि बहवः प्राणायामाः सन्ति । तेषु पूरक –कुम्भक-रेचकाः साधारण –प्राणायामाः । अस्माकं दैनन्दिनजीवने सर्वेषां प्राणायामानाम् आवश्यकतास्ति । कतिपयप्राणायामाः अस्माभिः अलक्ष्ये आचर्यन्ते । तथापि तेषु कतिपयप्राणायामान यदि वयं नित्याभ्यासेन निर्दिष्टरुपेण च आचारिष्यामः, तदा अस्माकं जीवनं सरसं सुन्दरं च भविष्यति । एतेन समाजस्यापि बहुहितसाधनं भविष्यति । ते च प्राणायामाः नाडी शोधनं, भ्रमरी, सदन्तः, शितली इत्यादयः । तेषु पुनः नाडीशोधनप्राणायामः भ्रमरी, सदन्तः, शीतली इत्यादयः । तेषु पुनः नाडीशोधनप्राणायामः भ्रमरी प्राणायामश्च इति प्राणायामश्च इति प्राणायामद्वयं शरीराय अत्यन्तम् आवश्यकम् । किञ्च तत् नाडीशोधनप्राणायामः इत्युक्ते –शरीरेऽस्मिन् द्विसप्ततिसहस्रसंख्यकासु नाडीषु प्रतिमुहूर्त्तं सुष्ठुरुपेण वायुचलनम् । कीदृशः सः नाडीशोधनप्राणायामः ? अस्य प्राणायामस्य कः अवधिः ? एवञ्च अनेन प्राणायामेन किं फलं लभ्यते ? इत्यादिविषयाः अत्र ज्ञातव्याः सन्ति ।

हठयोगानुसारम् –

प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यया रेचयेत्,
पीत्वा पिङ्गलया समीरणमथो बध्दवा त्यजेद्वामया ।
सूर्यचन्द्रमसोरनेन विधिनाऽभ्यासं सदा तन्वतां,
शुध्दा नाडिगणा भवन्ति यमिनां मासत्रयादूर्घ्वतः ॥

अर्थात् –प्राणवायुम् इडानाडया अर्थात् वामनासिकारन्ध्रेण पूरकं कृत्वा कुम्भकेन यथासामर्थ्यं धारयित्वा पिङ्गलानाडया अर्थात् दक्षिणानासिकारन्ध्रेण रेचकं कर्तव्यम् । ततः पुनः पिङ्गलानाड्या अर्थात् दक्षिणनासिकारन्ध्रेण पूरकं कृत्वा कुम्भकेन यथासामर्थ्यं धारयित्वा इडानाडया अर्थात् वामनासिकारन्ध्रेण् शनैः शनैः रेचकं कार्यम् । अनेन प्रकारेण चन्द्रसूर्यनाडीभ्यां पूरकेण वायुं पीत्वा कुम्भकेन वायुं धारयित्वा रेचकेन वायुं त्यक्त्वा विधिपूर्वकं प्राणायामभ्यासं कृत्वा मासत्रयतः अधिकं यदि एषः नाडीशोधन प्राणायामः क्रियते, तदा शरीरस्य द्विसप्ततिसहस्रसंख्याकाः नाडय्ः मलरहिताः भवन्ति । एवञ्च शरीरे वायोः चलनं सुष्ठुरुपेण भवति ।

प्राणायामस्य समयः[सम्पादयतु]

अस्य प्राणायामस्य समयः तथा संख्याविषये योगप्रदीपिकायामुक्तं यत् –

प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् ।
शनौरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥

अर्थात् –प्रातः, मध्याह्ने, सायम्, अर्धरात्रौ च चतुर्वारं प्राणायामस्य अभ्यासः करणीयः । तदपि पुनः एकस्मिन् समये विंशति प्राणायामाः कीदृशं गणनं भवेत् इति जिज्ञासायां चन्द्रनाडया पूरकेण, ततः कुम्भकेन, ततः सूर्यनाडया रेचकेण, ‘एकम्’ इति गणनम् । ततः पुनः सूर्यनाड्या पूरकेण ततः कुम्भकेन, पुनः चन्द्रनाडया रेचकेण ‘द्वे’ इति गणनम् । अनेन प्रकारेण गणनं कृत्वा एकस्मिन् समये विंसतिप्राणायामाः करणीयाः । एव्ं क्रमेण एकस्मिन् दिवसे चतुर्वारं प्राणायामेन अशीतिः प्राणायामाः कर्तव्याः । एवं क्रमेण मासत्रयात् ऊर्ध्वम् अभ्यासः करणीयः । तदा द्विसप्ततिसहस्रसंख्याकाः नाडयः मलरहिताः भवन्ति । शरीरं च नीरोगं भवति ।

भ्रमरीप्राणायामः[सम्पादयतु]

प्राणायामाभ्यासे निरतः

न केवलं नाडीशोधनप्राणायामः, अपि तु भ्रमरी प्राणायामोऽपि शरीरस्य स्वस्थतां वर्धयति । हठयोगानुसारम् भ्रमरीप्राणायामः –

वेगाद् घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दम् ।
योगीन्द्रणामेवमभ्यासयोगच्चिते जाता काचिदानन्द लीला ॥

अर्थात् –षणमुखिमुद्रया चक्षुः कर्णमुखादीनिः अवरुध्य शनै शनैः नासारन्ध्रमाध्यमेन श्वासवायुं गृहीत्वा ततः भृङ्गीनाद इव गुञ्जरणेन सह पुनः शनैः शनैः रेचकं कुर्यात् । तदा तेन गुञ्जरणेन मस्मिष्के मृदु कम्पनम् अनुभूयते । तेन कम्पनेन मस्तिष्कस्य स्नायवः स्थिराः भवन्ति । एकाग्रता आयाति । स्मरणशक्तेः वृध्दिरपि भवति । एतादृशेन अभ्यासेन शरीरे अपूर्वानन्दः अनुभूयते । शरीरं च नीरोग्ं भवति ।

प्राणायामस्य षटकर्माणि[सम्पादयतु]

निरोगाय प्राणायामस्य आवश्यकता इव क्रियाणामपि आवश्यकता अस्ति एव । शरीरस्य आभ्यन्तरप्रदेशस्य शोधनं, मलशून्यं च भवेत् । हठयोगे आभ्यन्तरशोधनार्थं षटक्रियाणां वर्णनं दृश्यते । यथा –

धौतिवस्तिस्तथा नेतिस्राटकं नौलिकं तथा ।
कपालभातिश्चैतानि षटकर्माणि प्रचक्षते ॥

एतेन कर्मषटकेन शरीरस्य आभ्यन्तरशोधनं भवति । आभ्यन्तरशोधनेन बाह्यप्रदेशोऽपि प्रफुल्लो भवति । परन्तु एतानि षटकर्माणि न सर्वेषां कृते । मेदाधिकस्थूलमनुष्यस्य कृते, श्लेष्मायुक्तपुरुषस्य कृते च षटक्रियाणाम् आवश्यकता अस्ति । यथा –

मेदश्लेष्माधिकः पूर्वं षटकर्माणि समाचरेत् ।
अन्यस्तु नाचरेत्तानि दोषाणां समभावतः ॥

अधुना आसनानुष्ठानेन रोगाणाम् उपशमः भविष्यतीति आलोच्यते । केषां रोगाणां कृते कानि कानि आसनानि हठयोगे निर्दिष्टानि, तदत्र वर्ण्यते । प्रथमतः कथितं यत् आहारस्य नियमितता अपेक्ष्यते । यः कोऽपि रोगः भवतु तन्निवारणाय समुचिताहारविश्रामपुरस्सरम् आसनकरणेनम् तत्फलप्रदं भवति । भूरिभोजनेन पाचनक्रिया क्रियाशीला न भवति, रोगान् च जनयति । अतः उक्तं यत् –

मिताहारं विना यस्तु योगारम्भं तु कारयेत् ।
नानारोगो भवेत्तस्य किञ्चिद्योगो न सिध्यति ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

మం]]

"http://sa.wikipedia.org/w/index.php?title=प्राणायामः&oldid=253877" इत्यस्माद् पुनः प्राप्तिः