प्रादेशिकपर्वाणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

विविधानां धर्माणाम् आश्रयभूमिः भारतम् । अतः एव अत्रत्या संस्कृतिः अपि वैविध्यमयी एव । तस्मात् कारणात् एव भारते विभिन्नाः उत्सवाः आचर्यन्ते । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः कालिदासः “उत्सवप्रियाः खलु मनुष्याः” (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु ’पर्व’ इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति । तादृशाः उत्सवाः चतुर्धा विभज्यन्ते । धार्मिकपर्वाणि, प्रादेशिकपर्वाणि, राष्ट्रियपर्वाणि, जयन्त्युत्सवाः च इति ।

प्रादेशिकपर्वाणि धार्मिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । जयन्त्युत्सवान् राष्ट्रियपर्वाणि धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । विभज्य खादनस्य, अन्येभ्यः दानस्य वा पाठः पर्वणाम् आचरणद्वारा बाल्यादेव बालाः पाठयितुं शक्याः । प्रादेशिकादिपर्वणाम् आचरणेन परस्परं स्नेहः वर्धते । ऐक्य-स्नेह-धर्मबुद्धीनां वर्धनेन सह दैहिक-मानसिक-आरोग्यवृद्धिः, शान्तिः, इन्द्रियनिग्रहादिद्वारा श्रेयःसाधनमेव एतेषां सर्वेषां पर्वणां मूलोद्देशः । राष्ट्रियपर्वणाम् आचरणेन वयं सर्वे भारतीयाः इति ऐक्यं वर्धते । धार्मिकपर्वाणि सर्वाणि अपि धर्मबुद्धिं जागरयन्ति । तत्तत्पर्वावसरे निर्दिष्टः कश्चन आहरक्रमः वर्तते । तेन ऋतुकालादिक्रमेण सेव्यमानेन आहारेण दैहिकम् आरोग्यं वर्धते । पर्वावसरे परस्परं बान्धवानां मेलनेन, संलापेन, भजनादिना धार्मिकाचरणेन वा शान्तिः मानसिकारोग्यं च वर्धते । तादृशानि प्रादेशिकपर्वाणि -

ओणम् (केरले आचर्यते)
द्रीपर्व (अरुणाचलप्रदेशस्य जैरोखातप्रदेशे निवसन्तः अपाटानिस्-जनाः आचरन्ति)
बोणम् (तेलङ्गाणप्रदेशे आचर्यते)
राजप्रभा (ओरिस्साराज्ये आचर्यते)

एषा आवलिः केवलं साङ्केतिकी । एतावन्ति एव पर्वाणि इति न । अञ्जलौ प्रासाददर्शनम् इव एवम् आवलिरचना शक्यते इति अत्र दर्शितं तावदेव । एताम् इतोऽपि दीर्घीकर्तुमपि शक्नुवन्ति । यतः पूर्वमेव उक्तम् आवर्षम् प्रतिदिनम् अपि आचरणार्थम् अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे ।

"https://sa.wikipedia.org/w/index.php?title=प्रादेशिकपर्वाणि&oldid=431930" इत्यस्माद् प्रतिप्राप्तम्