बेङ्गळूरु

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(बंगलोर इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
बेङ्गळूरु (ಬೆಂಗಳೂರು)
—  महानगरम्  —
Clockwise from top: UB City, Infosys, Glass house at Lal Bagh, Vidhana Soudha, Shiva statue, Bagmane Tech Park
बेङ्गळूरु (ಬೆಂಗಳೂರು)
Location of बेङ्गळूरु (ಬೆಂಗಳೂರು)
in Karnataka and भारतम्
निर्देशाङ्काः

12°58′N 77°34′E / 12.967°N 77.567°E / 12.967; 77.567

देशः भारतम्
भूप्रदेशम् Bayaluseeme
राज्यम् Karnataka
मण्डलानि Bangalore Urban
Mayor Sharadamma[१]
Commissioner Shankarlinge Gowda[२]
जनसङ्ख्या

सान्द्रता
महानगरम्

८४,२५,९७०[३] (3rd) (2011)

११,३७१ /km2 ( /sq mi)
८४,९९,३९९[४] (5th) (2011)

समयवलयः IST (UTC+05:30)
विस्तीर्णम्

औन्नत्यम्

७४१.० square kilometres (. sq mi)[५]

९२० metres ( ft)

जालस्थानम् www.bbmp.gov.in/

बेङ्गलूरुमहानगरं कर्णाटकस्य आग्नेयभागे विराजते । एतत् मण्डलमपि| बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति । "बेङ्गलूरु"-एतत् नगरं भारतदेशस्य कर्णाटकराज्यस्य राजधानी अस्ति । २००६ तमे वर्षे नवेम्बरमासे अस्य नगरस्य नाम आधिकारिकरूपेण "बेङ्गलूरु"- इति जातम् । एतत् नगरं कर्णाटकस्य अत्यन्तं महत् नगरम् । अत्र अधिकांशाः जनाः द्वित्राः भाषाः जानन्ति । बेङ्गलूरुनगरे ५१% जनाः भारतस्य विभिन्नेभ्यः भागेभ्यः आगत्य वसन्तः सन्ति ।। बेङ्गलूरुनगरेण भारतस्य महानगरेषु तृतीयं स्थानं प्राप्तम् अस्ति ।

अन्तर्विषयाः

[सम्पादयतु] जनसङ्खया

अत्रत्या जनसंख्या ५.१ मिलियन् मितास्ति |

[सम्पादयतु] उपमण्डलानि ३

उत्तरबेङ्गळूरु, दक्षिणबेङ्ग्ळूरु, आनेकल् च । भारतदेशस्य तृतीयं बृहन्नगरम् इति विख्यातम् । प्रायः अत्र ९०लक्षजनाः सन्ति । उद्याननगरम् इति प्रसिद्धस्य एतस्य ऐटिसिटि इति नाम प्राप्तमस्ति । सङ्गणकोद्यमे विद्युन्मानक्षेत्रे तु नगरस्य अस्य योगदानं महत् अस्ति । इन्फोसिस् ,स्याप्, विप्रो, ओरेकल् इत्यादिभिः सङ्गणकसंस्थाभिः एतस्य “सिलिकान् व्याली” इति ख्यातिः आगता अस्ति । देशस्य स्वातन्त्र्योत्तरकाले बेङ्गलूरुमहानगरं बृहद्यन्त्रागाराणाम् आश्रयस्थानम् अभवत् । अत्रत्यं प्रशान्तं वातावरणं, सुन्दरं परिसरं च जनाकर्षणस्य कारणमभवत् । एच् ए एल्, बि.इ.एल्., इसरो इत्यादीनां यन्त्रोद्यमानां स्थापनायतनं च सञ्जातम् ।

[सम्पादयतु] इतिहासः

क्रि.श. १५३७ वर्षे केम्पेगौडमहाराजेन निर्मितम् अस्ति । एतदेव तस्य राजधानी अपि असीत् । समीपवर्तिनि देवरायनदुर्गे भूयमानस्य महाराजस्य सुरक्षादलम् अत्र भवति स्म । अतः बेङ्गावलूरु इति प्रादेशिकभाषया कथितं क्रमेण बेङ्गलूरु इति परिवर्तितम् इति प्रतीतिरस्ति ।

[सम्पादयतु] भौगोलिकस्तिथिः

क्रि श १९२४तमे काले बेङ्गळूरुमानचित्रम्

बेङ्गलूरुनगरं समुद्रस्तरात् ९००कि.मी. उन्नतस्तरे वर्तते । भूगोलकस्य १२° २९ उ - १३° उ अक्षांशे प्रस्थितम् अपि अत्र सदा वातावारणं तु शीतलं भवति । सामान्यतः उष्णांशः२४सें तः २५सें पर्यन्तं भवति । सदाशिवनगरे स्थितं रमणाश्री उद्यानम् अत्यन्नतं स्थानम्, होसकेरेहल्ली अत्यवनतं स्थलम् अस्ति । बेङ्गलूरुनगरं कर्णाटकस्य दक्षिणपूर्वभागे वर्तते । १२.९७ डिग्री उत्तर- अक्षांशे तथा ७७.५६ डिग्री पूर्व-रेखांशोपरि स्थितमस्ति एतत् नगरम् । बेङ्गलूरुजनपदस्य उत्तरपूर्वदिशि ’कोलार’-जनपदः, उत्तरपश्चिमदिशि ‘तुमकूरु’-जनपदः, दक्षिणपश्चिमदिशि ‘मण्ड्य’-जनपदः, दक्षिणे ‘चामराजनगर’-जनपदः तथा च दक्षिणपूर्वदिशि ’तमिळुनाडु’-राज्यम् अस्ति । बेङ्गलूरुनगरं समुद्रस्तरापेक्षया ९०० मी. परिमितम् उपरि अस्ति। बेङ्गलूरुनगरे सदा शीतलं वातावरणं भवति । षोडशे शतके केम्पेगौडः अस्य नगरस्य जलव्यवस्थार्थं बहुविधानां तडागसरोवारादीनां निर्माणं कारितवान् आसीत् । तेषु केम्पाम्बुधितडागः, मडिवाळसरोवरः, हेब्बाळसरोवरः, अलसूरुसरोवरः, स्यांकिजलागारः इत्यादयः प्रमुखाः। किन्तु अद्य बेङ्गलूरुनगरं प्रति ८०% जलं "कावेरीनदी" व्यवस्थापयति ।

[सम्पादयतु] संस्कृतिः शिक्षा च

कलावैविध्य, जननीवनवैविध्यं च अस्य नगरस्य वैषिष्ट्यम् अस्ति । विविधविद्याभ्यासार्थमपि नगरेऽस्मिन् अवसराः सन्ति । अस्याः नगर्याः विशिष्टा संस्कृतिः वैदेशिकान् अकर्षयन्ती अस्ति । भाररीयविद्याभवनम्, चित्रकलापरिषत्, भारतीयविज्ञानमन्दिरम्, इण्डियन् इन्स्टिट्यूत् आफ् सैन्स इत्याद्यः शिक्षासंस्थाः आबहोः कालात् सरस्वतीसेवां कुर्वत्यः सन्ति ।

कश्चनरथोत्सवः
अम्बेड्कर् तान्त्रिकविद्यालयः

अत्र ईशदिव पाश्चिमात्त्यजीवनशैली अपि रूढिगता अस्ति।अतः एतत् नगरं “कास्मोपालिटन् सिटि इत्यपि कथयन्ति । अत्रत्यानि विविधानि दूरदर्शनवाहिनीनां केन्द्राणि, आकाशवाणीकेन्द्राणि विशेषतः एफ्.एम्.रेडियो बहुप्रसिद्धानि सन्ति । इदानीं भिन्नभिन्नराज्येभ्यः देशेभ्यः जनाः उपजीविकार्थम् अत्र आगत्य सर्वभाषामयं महानगरं सञ्जातम् । कन्नडिगानां सङ्ख्या न्यूना जायमाना अस्ति । अत्यधिकयन्त्रोद्यमानां संस्थपनकारणात् जनसङ्ख्यायाः बाहुल्यात् च परिसरमालिन्यं सम्भूयमानम् अस्ति । जलस्य अभावः अपि तत्र तत्र दृश्यते । एतद्विषये जनाः संस्थाः च जागरिताः अपि सन्ति ।

[सम्पादयतु] शब्दव्युत्पत्तिः

पुराणेषु अस्य नगरस्य नाम कल्याणपुरी अथवा कल्याणनगरी इति उल्लिखितं ह्श्यते । आङ्ग्लेयानाम् आगमनानन्तरम् अनेन नगरेण ‘बेङ्गलूरु’ इति नाम प्राप्तम् । बेङ्गलूरु समीपे प्राप्तेन शिलालेखेन ज्ञायते यत् -१००४ वर्षपर्यन्तम् एतत् बेङ्गलूरुनगरं ‘गङ्ग’राजवंशस्य शासनान्तर्गतम् आसीत् । १०१५ तः १११६ वर्षपर्यन्तं तमिळुनाडुराज्यस्य चोलवंशीयाः अत्र शासनम् अकुर्वन् । अनन्तरम् अत्रत्यं शासनं ’होयसल’राजवंशीयानां हस्तगतं जातम् । एवं मन्यते यत् आधुनिकबेङ्गलूरुनगरस्य संस्थापनं १५३७ तमे वर्षे विजयनगरसाम्राज्यस्य परिवर्तनकाले सञ्जातम् इति । विजयनगरसाम्राज्यस्य पतनानान्तरं बेङ्गलूरुनगरस्य शासनाधिकारः बहुवारं परिवर्तितः । अन्ते १७९९ तमे वर्षे जाते चतुर्थे आंगलो-मेसूरु-युध्दे टिप्पुसुल्तानस्य मरणानन्तरं बेङ्गलूरुनगरस्य शासनम् आङ्ग्लेयानां हस्तगतम् । ते अत्रत्यं शासननियन्त्रणाधिकारं मैसूरुमहाराजेभ्यः अयच्छन् । ततः तेषां मैसूरुमहाराजानां राजधानी १८३१ तमे वर्षे बेङ्गलूरुनगरं सञ्जातम् । ११ शतके होयसलराजा द्वितीयः वीरबल्लालः कदाचित् मृगयार्थं गतः मर्गभ्रष्टः भवति अरण्ये । तत्र सः कस्याश्चित् वृद्धायाः कुटीरं प्राप्नोति । तदा सा पंक्तांनि धान्यानि भोजयति तम् । अतः कृतज्ञतापूर्वकं तस्य स्थानस्य नाम ‘बेन्द-काळूरु’ इति कृतं तेन राज्ञा । (Benda-पक्तांनि kaloo-धान्यानि = Benda-kalooru) तदेव नगरं कालान्तरे ‘बेङ्गलूरु’ जातम् इत्यपि श्रूयते ।

[सम्पादयतु] नगरस्य वैशिष्ट्यानि

बेङ्गलूरुनगरं भारते एव प्रथमं जलविद्युद्व्यवस्थायुक्तं नगरं जातं १९०६ तमे वर्षे । बेङ्गलूरुनगरस्य HAL विमाननिस्थानकं भारतस्य चतुर्थं कार्यव्यग्रं विमानस्थानकम् । २००८ तमवर्षस्य मेमासस्य २४ तमदिनाङ्कात् बेंङ्गलूरुनगरे नूतनतया निर्मितम् अन्ताराष्ट्रियं विमाननिस्थानकमपि कार्यारम्भमकरोत् । बेङ्गलूरुनगरे प्रमुखं रेल् स्थानकद्वयम् अस्ति । सिटि-केन्द्रीयं, यशवन्तपुरं च । इतः भारतस्य अत्यधिकनगराणां प्रति रेलव्यवस्था वर्तते । बेङ्गलूरु भारतीयरेलव्यवस्थायाः दक्षिणपश्चिमरेलव्यवस्थान्तर्गतं भवति । अत्र बेङ्गलूरुनगरे लोकयानानि (BUS) अत्यधिकसंख्यया कार्यं निर्वहन्ति । BMTC नगरान्तर्गतयानानां व्यवस्थां, KSRTC अन्यनगराणां प्रति अन्यराज्याणां प्रति च यानव्यवस्थां च निर्वहतः । लोकयानानि विहाय त्रिचक्रिकाः (Auto Rickshas ) भाटक’कार्’ यानानि (City Taxis) अपि लभ्यन्ते ।बेङ्गलूरुनगरं विशेषरुपेण वाणिज्यसमुच्चयनिमित्तं प्रसिद्धम् अस्ति । अत्रत्यां कमर्शियल्वीथी सर्वदा जनसम्मर्दयुक्ता वाणिज्यवीथी अस्ति । तथैव महात्मागान्धिमार्गः (M.G. Road) ब्रिगेडमार्गः च वाणिज्यार्थं प्रसिद्धौ स्तः। बेङ्गलूरुनगरं Silicon Valley of India इत्युच्यते । अत्र तन्त्रज्ञानजगतः गुरवः इत्युच्यमानानां संस्थानाम् इन्फोसिस्, विप्रो, ऐ-गेट, टाटा-कन्सल़्टेन्सी, गूगल्, ऐ.बि.एम्., याहू, ओराकल्, सिस्को, इत्यादीनां केन्द्राणि अपि सन्ति ।

बेङ्गलूरुनगरम् ‘उद्याननगरम्’ (Garden city) इत्यपि उच्यते, यतः अत्र असंख्यानि उद्यानानि सन्ति । प्रतिनगरम् अपि एकम् उद्यानम् अस्ति एव । लालबाग, कब्बन् पार्क सध्शानि महा -उद्यानानि अपि सन्ति अत्र ।

बेङ्गलूरुनारस्य प्रसिद्धं पर्व अस्ति "करगशक्त्योत्सवः" । एषः उत्सवः ‘बेङ्गलूरुकरग’ इति नाम्ना एव निर्दिश्यते । दीपानां पर्व ‘दीपावालिः’ अपि अत्यन्तं वैभवेन आचर्यते अत्र । अन्यानि सांस्कृतिकपर्वाणि - गणेशचतुर्थिः, युगादिः, मकरसङ्क्रमणम्, ईद् -उल् फिथ, क्रिसमस् अपि आचर्यन्ते बेङ्गलूरुनगरे ।

भारतीयसङ्गीतनृत्ययोः महाकेन्द्रम् अस्ति बेङ्गलूरु । बेङ्गलूरुगायनसमाजः सर्वदा तादृशान् कार्मक्रमान् आयोजायति । गणेशचतुर्थि-रामनवमि-पर्वणाम् अवसरे सार्वजनिकसथानेषु सङ्गीतनृत्यकार्यकमाः आयोजिताः भवन्ति । कर्णाटकस्य प्रसिद्धं नवरसयुक्तं ‘यक्षगानम्’ अपि आयोज्यते तदा तदा अत्र ।

बेङ्गलूरुनगरे भारतस्य सर्वविधानि प्रसिद्धानि खाद्यवस्तूनि अपि प्राप्यन्ते । दक्षिणभारतीयम्, उत्तरभारतीयं, चैनीयं, पाश्चिमात्यं वा उपहारमन्दिराणि असंख्यानि सन्ति । जगत्प्रसिद्धानि उडुपि-उपहारमन्दिरम्’ इत्यारव्यानि अत्रापि विराजन्ते एव ।

१८६४तमे वर्षे बेंगळूरुनगरस्य कन्टोन्मेन्ट्प्रदेशे भवति लेडीकर्ज़न् वैद्यालयः

सर्वविधाः कीडाः अत्र बेङ्गलूरुनगरे क्रीड्यन्ते । कन्दुकताडनक्रीडा (Cricket) अत्रापि प्रसिद्धा एव । राहुल् द्राविडः, अनिलकुम्बले, गुण्ड्प्प विश्वनाथः, वेङ्कटेशप्रसादः, B.S. चन्द्रशेखरः जावगलश्रीनाथः इत्यादयः अत्रत्याः एव । प्रमुखं क्रिकेटक्रीडाङ्गणं ‘चिन्नस्वामीक्रीडाङ्गणम्’ अपि बेङ्गलूरुनगरे एव अस्ति ।

बेङ्गलूरुनगरं शिक्षणक्षेत्रे अपि अग्रे अस्ति । पाश्च्यात्यशिक्षणपद्धतिम् अत्र परिचायितवान् मुम्मडि कृष्णराज वोडेयरः । भारतीयविज्ञानसंस्था (Indian Institute of Science) 1909 तमे वर्षे अत्र आरब्धा, राष्ट्रियचित्रसंस्था (National Institute of Design ), राष्ट्रिय-न्यायशाला, IIMB, IIT-B, NIMHANS, BMCRI, SJMC इन्याडिनि बेङ्गलूरुनगरे सन्ति । प्राथमिक-माध्यमिकविद्यालयाः तु असंख्याः सन्ति एव ।

[सम्पादयतु] दर्शनयोग्यानि स्थलानि

महानन्दिदेवालयः

बेङ्गलूरुनगरं दर्शनीयस्थानानां विषये अपि अत्यन्तं प्रसिद्धम् अस्ति । १५३७ तमे वर्षे केम्पेगोडेन निर्मितं मृण्ययं दुर्गं, तेनैव निर्मितः बसवनगुडिप्रदेशे विद्यमानः नन्दिदेवालयः, पद्मासने उपविष्टस्य शिवस्य ६५ मीटरमिता उन्नता शिवप्रतिमा, बसवनगुडिप्रदेशसमीपे स्थितं प्राकृतिक-गुहासहितं गविगङ्गाधरेश्वरमन्दिरं, मुगलवास्तुकलायुक्तः टिप्पुप्रासादः, ६०० अधिकचित्रयुक्तं वेङ्कटप्प-आर्ट्र्-ग्यालरी, १८८७ तमे वर्षे ८०० एकरेमिते स्थाने विस्तीर्णः तुदौरशैल्या निर्मितः ‘बेङ्गलूरुप्रासादः’, १९५४ तमे वर्षे नियो-द्रविडशैल्या निर्मितं विधानसौधाभवनम्, हैदरालि-टिप्पुसुल्तानाभ्यां निर्मितं काचगृहयुक्तं (Glass House) महाकारकं ‘लालबाग’उद्यानम्, कतिपय-एकरेमिते क्षेत्रे वीस्तीर्णं सहस्रवर्षातीत-वृक्षयुक्तं लान्, कमलकासार-पाटालोद्यानसहितं ‘कब्बन् पार्क-उद्यानम्, महात्मागान्धेः बाल्यारभ्य अन्तपर्यन्तं जीवनं चित्रद्वारा दर्शितं ‘गान्धीभवनम्’, विश्वे एव प्रथमं ’वायलिन्’ आकारेण निर्मितं "चौडय्य-मेमोरियल् सभाङ्गणम्, इस्कान्-मन्दिरम् इत्यादीनि बहूनि दर्शनीयस्थानानि सन्ति अत्र । एतानि विहाय बन्नेरुघट्टप्रदेशे विद्यमानः, बन्नेरुघट्ट-नेशनल् पार्क, आर्ट-आफ-लिविंग्-इत्यस्य केन्द्रे स्थितं विशालाक्षीमन्दिरं, रागिगुड्डदेवालयः, रामाञ्जनेयमन्दिरम्, महालक्ष्मीदेवालयः पुत्तिगेमठस्य कृष्णदेवालयः, रामकृष्णाश्रमः नेहरु-तारालयः इत्यादीनि अपि दर्शनयोग्यानि ।

कर्णाटकस्य उच्चन्यायालयः
विधानसौधः

अद्य विश्वव्यापि-जातस्य ‘संस्कृतभारती’नामक्स्य संस्कृतान्दोलनस्य जन्म अभवत् अस्मिन्नेव बेङ्गलूरुनगरे १९८१ तमे वर्षे । संस्कृतजगाति अत्यधिक-प्रसारयुता मासयात्रिका ‘सम्भाषणसन्देशः’ अपि इतः एव प्रकाश्यते । संस्क्रृतभारतयाः अन्ताराष्ट्रियं केन्द्रम् (‘अक्षरम्’) बेङ्गलूरुनगरस्थिते गिरिनगरे एव अस्ति । यत्र सम्पूर्णः दैनिकः व्यवहारः संस्कृतेनैव प्रचलति । आबालवृद्धाः संस्कृतेनैव व्यवहरन्ति । संस्कृतमातृभाषिबालाः अत्र द्र्ष्टुं शक्याः ।

संस्कृतेऽतिहासे प्रथमवारं प्रवृत्ता ‘विश्वसंस्कृत-पुस्तकमेला’ (World Samskrit Book Fair) अपि बेङ्गलूरुनगरे एव प्रवृत्ता २०११ तमवर्षस्य जनवरीमासस्य ६ तः१० दिनाङ्कपर्यन्तम् । यत्र चतुर्लक्षाधिकाः जनाः द्रष्टारः समागताः आसन् । बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति ।

[सम्पादयतु] उपमण्डलानि ३

उत्तरबेङ्गळूरु, दक्षिणबेङ्गळूरु, आनेकल् च ।

[सम्पादयतु] प्रमुखदेवालयाः

दोड्डुगणपति देवालयः कारञ्जि- आञ्जनेयः, गविगङ्गाधरेश्वरः बनशङ्करी, कोटे वेङ्कटरमणस्वामी, दोड्डबाणसवाडि, इस्कान्, शिवालयः, काडुमल्लेश्वरः, सोमेश्वरः, चम्पकधामस्वामी, रागीगुड्डप्रसन्न-आञ्जनेयः, गाळी आञ्जनेयः,महालक्ष्मीपुरस्य महालक्ष्मीः, वीराञ्जनेयः च, धर्मरायस्वामी नगर्त्तपेटे, दोड्डबसवनगुडि, इत्यादीनि।

[सम्पादयतु] प्रेक्षणीयस्थानानि

बेङ्गळूरुराजप्रासादः

लालबाग-उद्यानवनं, विधानसौधः, उच्चन्यायालयः, कब्बनपार्क, नेहरुतारालयः विश्वेश्वरय्या वस्तुसंग्रहालयः टिप्पुसुल्तान्दुर्गम्, अलसूरुसरोवरं, तिप्पगोण्डहळ्ळिजलाशयः शङ्करमठः, रामकृष्णाश्रमः इत्यादयः।

नूतनं विमाननिस्थानम्

दोड्डबसवण्ण (बसवनगुडि) नन्दी नन्दीश्वर इति नाम्ना प्रसिद्धः अस्ति। अत्र नवमशतकीयः बृहन्नन्दी विग्रहः १४.५७ पाटपरिमित्तोन्नतः , २० पादपरिमितः विस्तारवान् एकशिलानिर्मितः, पल्लववंशीयानां काले निर्मितः च अस्ति । समीपे एव दोड्ड्गणपतिदेवालयः अस्ति । धर्मरायस्वामी मन्दिरे पाण्डवानां द्रौपद्याः च पूजा प्रचलति । श्रीकृष्णराधनं च प्रचलति । चैत्रमासे पूर्णिमायाम् अत्र ”’करग”’नामकः उत्सवः वैभवेन प्रचलति । नवदिनानि यावत् रथोत्सवः भवति । विश्वेश्वरस्वामी देवालयः चिक्कपेटे इत्यत्र, अस्ति । मैसूरुमार्गे गळीआञ्जनेयदेवालयः, महालक्ष्मीपुरे प्रसन्नाञ्जनेयदेवालयः, कोटेप्रदेशे आञ्जनेयदेवालयः च प्रसिद्धाः सन्ति ।

प्रसन्नाञ्जनेयस्य मन्दिरगोपुरं स्वर्णमयम् । गविगङ्गाधरेश्वरदेवालय गुहान्तर्गतः देवालयः अस्ति । रात्रीगुड्डुस्थले अनेके देवालयाः सन्ति । आञ्जनेयः अत्र प्रमुखः आराध्यः । बृहाच्छिलायाः उपरि देवालयाः सन्ति । राजराजेश्वरी नगरे सुन्दरः श्रीराजराजेश्वरीदेवालयः अस्ति ।

इन्फोसिस् संस्था
बैंग्लोरे धर्माँ
मतानि प्रतिशत
हिन्दु
  
79.3%
मुस्लिम
  
13.3%
ख्रीष्टीय
  
5.8%
जैन
  
1.1%
अन्ये†
  
1%
Distribution of religions
सिख (<०.१%) बौद्ध (<०.१%) च प्रतिवपति।

[सम्पादयतु] साधाराः

  1. "Bangalore mayor: I want your support, not sympathy", 1 May 2011. Retrieved on 9 May 2011. 
  2. "Now, Shankarlinge Gowda appointed new commissioner of BBMP", 29 November 2011. Retrieved on 29 November 2011. 
  3. Cities having population 1 lakh and above. censusindia. The Registrar General & Census Commissioner, India. दिनांकः 17 October 2011.
  4. Urban Agglomerations/Cities having population 1 lakh and above. Censusindia. The Registrar General & Census Commissioner, India. दिनांकः 17 October 2011.
  5. Ramachandra T. V.; Uttam Kumar (Jan 2010). Greater Bangalore: Emerging Urban Heat Island. GIS Development. दिनांकः 2012-01-25.
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु