बदरीनाथः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भारतस्य तीर्थस्थानेषु अन्यतमं बदरीनाथक्षेत्रम् । हिमालयपर्वते नरनारायणौ अस्मिन् एव आश्रमे अवसताम् । अत्र पाण्डवाः आगताः आसन् । अत्र नरनारायणयोः देवालयं विष्णुगङ्गानद्याः (अलकनन्दायाः) तीरे निर्मितवन्तः सन्ति । इदं पूर्वं वेदव्यासस्य आश्रमः आसीत् । बदरीनाथक्षेत्रं भारतस्य उत्तराखण्डराज्यस्य चमोलीमण्डलस्य नगरपञ्चायतप्रदेशः । हिन्दूनां पवित्रं क्षेत्रम् अपि । भारतस्य चतुर्धामतीर्थयात्रायाः(चारधाम) चतुर्षुक्षेत्रेषु प्रामुख्यं प्राप्तं क्षेत्रम् इदम् ।

भूगोलशास्त्रम्[सम्पादयतु]

बदरीनाथतः दृश्यमानः नीलकण्ठपर्वतः

भौगोलिकरूपेण बदरीनाथः ३०.७३तथा ७९.४८ अक्षांशरेखांशयोः स्थाने अस्ति । औन्नत्यं सामान्यतया मीटर् (११,२०४ पादमितम् )यावत् अस्ति । अलकनन्दानद्याः तटे विद्यमाने गढ़वालपर्वतप्रदेशे अस्ति । नरनारायणपर्वतश्रेण्याः मध्ये विद्यमानस्य नीलकण्ठपर्वतस्य (६,५६०मी) पृष्टभागे अस्ति । बदरीनाथक्षेत्रं हृषिकेशस्य उत्तरदिशि ३०१ कि.मी दूरे अस्ति । (केदारनाथस्य समीपे ) गौरीकुण्डमार्गद्वारा बदरीनाथक्शेत्रम् २३३कि.मी.दूरे अस्ति ।

महत्त्वम्[सम्पादयतु]

नवमे शतके बदरीनाथक्षेत्रम् आदिशङ्कराचार्यः प्रमुखतीर्थक्षेत्ररूपेण संस्थापितवान् । एषु दिनेषु एतस्य प्रसिद्धिः अधिका जाता इति कारणतः १९६१ तमे वर्षे तीर्थयात्रिणां संख्या ९०,६७६ आसीत् । २००६ तमे वर्षे स्यात् इति ऊहा । एतत् क्षेत्रं वैष्णवानां कृते पवित्रक्षेत्रम् । सनातनग्रन्थेषु तथा पुराण-पुण्य-कथासु सहस्रवर्षतः बदरीक्षेत्रं पवित्रक्षेत्रम् इति एव प्रस्तुतम् अस्ति । भागवतपुराणानुगुणं बदरीकाश्रमस्य प्रमुखः देवः (विष्णुः),नरस्य तथा नारायणरूपेण सकलजीविनाम् उद्धरणस्य लक्ष्यं साकारीकर्तुं महातपः आचरन्तौ आस्ताम् ” इति (भागवतपुराणम् ३.४.२२) उल्लेखः अस्ति ।‘बदरी’ इत्युक्ते तस्मिन् प्रदेशे समृद्धप्रमणेन वर्धमानं बीजरहितं फलम् । तथा 'नाथः’ इत्युक्ते एतस्य "देवः” । बदरीनाम्ना अपरं किञ्चन फलम् अस्ति । केषुचित् धर्मग्रन्थेषु अत्र बदरीवृक्षाः यथेष्टं वर्धन्ते स्म इति उल्लेखितवन्तः सन्ति ।

बदरीदेवालयः[सम्पादयतु]

बदरीनाथदेवालयः
मन्दिरस्य प्रवेशद्वारम्

पत्तनस्य प्रमुखम् आकर्षणम् अस्ति बदरीनाथदेवालयः । दन्तकथानुगुणं शङकरः अलकनन्दानद्यां बदरीनारायणदेवस्य सालिग्रामेण निर्मितां कृष्णशिलाप्रतिमां दृष्टवान् । सः आरम्भे तप्तकुण्डम् इति प्रसिद्धस्य उष्णजलस्य उत्ससमीपे गुहादेवालये प्रतिष्ठापितवान् । १३ शतके गढ़वालराजः प्रतिमायाः प्रस्तुतदेवालयं प्रति स्थानान्तरणं कृतवान् । प्राचीनः देवालयः इति कारणतः अपि च हिमपातकारणतः तदा तदा हानिः अभवत् । तदा अनेके प्रमुखाः एतस्य पुनरुज्जीवनकार्यानि कृतवन्तः। १७ शतके देवालयस्य अस्य गढ़वालराजाः विस्तरणं कृतवन्तः । १८०३ तमे वर्षे हिमालये जातस्य प्रमुखभूकम्पस्य कारणतः अधिकप्रमाणेन हानिः जाता । तदा जयपुरस्य राजा अस्य पुनर्निर्माणं कारितवान् । उपरितनभागे अर्धगोलाकारकस्वर्णलेपितछदयुक्तः देवालयः ५० ft (१५मी ) उन्नतः अस्ति । देवालयस्य अग्रभागः शिलाद्वारा निर्मितः । उपरितनभागे अर्धवर्तुलाकारकाणि वातायनानि सन्ति । विशालसोपानानां पङक्तिः अर्धवर्तुलाकारयुक्तस्य प्रमुखद्वारस्य दिशि अस्मान् प्रापयति। अत्रत्य वास्तुकला बौद्धविहारेषु यः चित्रालङ्कृतः अग्रभागः भवति तेन सह साम्यं भजते । अन्तः स्थम्भयुक्तः विशालप्रकोष्ठसदृशः मण्डपः अस्ति । ततः प्रमुखपूजास्थलं गर्भगृहं प्रति मार्गः अस्ति । मण्डपस्य भित्तयः स्थम्भाः च सङ्कीर्ण शिल्पयुक्ताः सन्ति ।

इतिहासः कल्पितकथाश्च[सम्पादयतु]

बदरीनाथप्रदेशं बदरी अथवा बदरीकाश्रमः इति हिन्दूधर्मग्रन्थेषु प्रस्तुतिः कृता अस्ति । एतत् स्थलं विष्णोः सानिध्येन पवित्रं जातम् अस्ति । विशिष्य विष्णोः नरनारायणयोः यत् द्विरूपम् अस्ति तत् अत्र द्रष्टुं शक्यम् । अतः महाभारते,शिवः अर्जुनम् उद्दिश्य वदति "भवान् पूर्वतनजन्मनि नररूपेण आसीत् । अतः अहं नारायणरूपेण भवता सह नारायणः सन् असंख्याकवर्षाणि यावत् बदरीप्रदेशे घोरं तपः आचरितवान् अस्मि ” इति। कल्पितकथानुसारं देवताः गङ्गां मनुकुलस्य उद्धरणार्थं भूमिं प्रति अवतरतु इति उक्तवन्तः । किन्तु 'तस्याः अवतरणस्य भारं सोढुं भूमेः सामर्थ्यं न आसीत् । अतः बृहत् गङगा द्वादशधा विभक्ता सती भूमिम् आगतवती । तासु अलकनन्दा अन्यतमा।

पाण्डवानां स्वर्गारोहणस्थानस्य मनापट्टनस्य समीपे विद्यमानः वसुधाराजलपातः
बदरीमन्दिरे अर्प्यमानानि ब्रह्मकमलानि

बदरीक्षेत्रं पर्वतैः आवृतम् अस्तीति महाभारते उल्लेखः अस्ति। पाण्डवाः पश्चिमगढ़वालसमीपे 'स्वर्गारोहणकरणम् 'इत्यर्थयुक्तस्य स्वर्गारोहिणीशिखरस्य आरोहणसमये प्रपाते जीवनं समापितवन्तः इति एकस्मिन् भागे प्रस्तापः कृतः अस्ति । स्थलीयकल्पितकथानुसारं पाण्डवाः स्वर्गं प्रति गमनसमये मार्गे बदरीनाथमार्गेण तथा ततः चत्वारिकिलोमीटर-उन्नतात् 'मना’ पत्तनद्वारा गतवन्तः इति । कल्पितकथानुसारं व्यासः यत्र महाभारतं लिखितवान् सा गुहा मनापत्तने अस्ति । पद्मपुराणे बदरीनाथक्षेत्रं परितः विद्यमानः प्रदेशः सम्रुद्धः पारमार्थिकः निक्षेपयुक्तः इति प्रशंसितवन्तः सन्ति।

तीर्थयात्रा[सम्पादयतु]

भारतचीना-टिबेट्देशानां सीमारेखातः कतिचन किलोमीटर्दूरे स्थितं बदरीनाथं प्रति चारधामयात्रायाः पूर्वतनक्षेत्रात् केदारनाथात् दिनद्वयस्य प्रयाणं भवति । सिक्खजनानां प्रमुखतीर्थयात्राक्षेत्रं ‘ हेमकुण्डसाहिब्’ बदरीनाथगमनमार्गे अस्ति । विषेशतया ग्रीष्मकाले तीर्थायात्रायाः मार्गे महान् जनसम्मर्दः भवति । बदरीनाथं प्रति प्रवासार्थं सूक्तः समयः अस्ति जून् तः सेप्टम्बर् मासस्य अवधिः । आवर्षम् ऊर्णस्य वस्त्राणि धरणीयानि भवन्ति। आदिशङकराचार्येण उत्तरभागे स्थापितः ज्योतिर्मठः पार्श्वे अस्ति । अस्मिन् प्रदेशे द्रष्टुं योग्यनि इतरक्षेत्राणि नाम हरिद्वारम् ऋषिकेशम् /हृषिकेशम् /रिशिकेशम् ।

समुद्रतलात् इदं क्षेत्रं १०,२८४ पादमिते औन्नत्ये वर्तते । अत्रत्यं देवमन्दिरं मेमासस्य द्वितीयसप्ताहतः नवम्बर्-मासस्य द्वितीयसप्ताहपर्यन्तम् उद्घाटितं भवति । अवशिष्टान् षण्मासान् यावत् इदं क्षेत्रं हिमराशिभिः पिहितं भवति ।
पिधानावसरे ज्वालितः दीपः षण्मासानाम् अनन्तरम् उद्घाटनावसरे अपि ज्वलन् भवति इति वदन्ति अनेके प्रत्यक्षदर्शिनः यात्रिकाः । अस्य दीपस्य दर्शनमेव ज्योतिर्दर्शनम् इत्युच्यते । अपि च षण्मासेभ्यः पूर्वं देवाय अर्पितानि पुष्पाणि अपि प्रत्यग्राणि तिष्ठन्ति ।

पुराणकथा[सम्पादयतु]

पूर्वं धर्मप्रजापतिना परिणीता दक्षपुत्री मूर्तिदेवी पुत्रार्थिनी सती वसुधारातीर्थे अनेकानि वर्षाणि यावत् तपः आचरितवती । तदा नारायणः प्रत्यक्षः सन् 'वरं वृणीष्व' इति अवदत् । तदा मूर्तिदेवी - 'भवदृशं पुत्रद्वयम् अनुगृह्यताम्' इति प्रार्थितवती । 'तथास्तु' इति उक्त्वा अन्तर्निहितः जातः नारायणः । अग्रे तस्य अनुग्रहेण मूर्तिदेव्यां नरनारायणौ जातौ ।
सहस्रकवचः नाम कश्चन राक्षसः ब्रह्मणः वरमेकं प्राप्तवान् आसीत् । तदीयं कवचं सः एव पुण्यपुरुषः च्छेत्तुम् अर्हति येन १०,००० वर्षाणि तपः आचरितानि भवन्ति । नारायणः स्वस्य तपश्शक्त्या तस्य ४९९ कवचानि कर्तितवान् । तदा राक्षसः सहस्रकवचः धावन् सूर्यम् आश्रितवान् । द्वापरयुगे सः एव कर्णरूपेण अजायत । नरनारायणौ कृष्णार्जुनरूपेण आगत्य तम् अमारयताम् ।
नरनारायणयोः तपसः आचरणावसरे लक्ष्मीः बदरीवृक्षरूपेण तयोः कृते फलछायादिकं दत्तवती इत्यतः इदं क्षेत्रं बदरीक्षेत्रम् इति प्रसिद्धं जातम् ।

यानसौकर्यम्[सम्पादयतु]

  • अत्यन्तं समीपस्थं विमाननिस्थानकं नाम डेह्राडून्समीपस्थं जालि ग्राण्ट् विमाननिस्थानकम्(३१७ कि.मी.) ।
  • समीपस्थं रैलनिस्थानकं हरिद्वारम् (३१०.कि.मी), हृषीकेशं(२९७.कि.मी.), कोटद्वार(३२७ कि.मी.)
  • नवदेहली-हरिद्वार-हृषीकेशतः नियतरूपेण यानव्यवस्था अस्ति ।

मार्गाः अत्यन्तं ह्रस्वाः इति कारणतः सर्वप्रदेशेषु चलितुं समर्थानि वाहनानि सन्ति चेत् उत्तमम् । एतावत्पर्यन्तं यात्रिभिः स्वयं वाहनं चालयितुं शक्यं नासीत् । किन्तु इदानीं देवालयस्य पुरतः अपि वाहनानि नेतुं शक्यानि ।

जनसान्द्रता[सम्पादयतु]

इदानीन्तनस्य भारतस्य जनगणनानुसारं बदरीनाथक्षेत्रे ८४१ जनाः सन्ति । तेषु ६५% पुरुषाः, ३५% महिलाः सन्ति । साक्षरताप्रमाणं ८५% अस्ति। एतत् प्रमाणं राष्ट्रियसाक्षरताप्रामाणापेक्षया (५९.५% ) अधिकम् अस्ति । तेषु ९२% पुरुषाः,७२% महिलाः साक्षराः सन्ति । जनसङ्ख्यायाः ९% जनाः ऊनषड्वर्षीयाः ।

"http://sa.wikipedia.org/w/index.php?title=बदरीनाथः&oldid=269318" इत्यस्माद् पुनः प्राप्तिः