बन्नेरुघट्ट-राष्ट्रिय उद्यानम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

बन्नेरुघट्ट-राष्ट्रिय उद्यानवनं भारतदेशस्य कर्नाटकराज्ये बेंगलूरुमहानगरस्य दक्षिणभागे २२ कि.मि.दूरे अस्ति । बेंगलूरुतः प्रायः सार्धएकहोराप्रयाणकालः अपेक्षितः भवति । पशुविशेषाणां रक्षणार्थं अत्यन्तश्रेष्ठपर्वतप्रदेशविशेषः। २५,००० (१०४.२७ कि.मि ) परिमिते प्रदेशे पशुशास्त्रीय उद्यानं अस्य नगरस्य यत्रिकाणां अत्यन्तं रमणीयस्थलं भवति।

Leopard.jpg

पशुसंरक्षणाऽभयारण्यम् (केन्द्रम्)[सम्पादयतु]

बन्नेरुघट्ट्-पशुसंरक्षणाऽभयारण्यं भारतीय श्वेतव्याघ्रान् , व्याघ्रान् ,सिंहान्, अन्ये सस्तनिजन्तुविशेषान् च संरक्षितमस्ति। के.एस्.टि.डि.सि (KSTDC) एषा संस्था धनसहायं रक्षणंच करोति। भारतीय अरण्यविभागेन प्रमाणितं भवति ।

विवादः[सम्पादयतु]

११९२ संवत्सरे बिल्ल नामकलघुबालकः व्याघ्रेण मारितः । अरण्यविभागीय जानानां निर्लक्षेण एषा घटना घटिता। एषा घटना रक्षणाविषये निर्वहणविषयेशु च प्रश्नानां उद्गमने कारणीभूता। दुर्घटनायाः समये स्वकीय यानानां क्रुते व्याघ्रवासस्थलपर्यन्तं गमनार्थं अनुमतिरासीत् । येन यानेन बालकः प्रयाणं कुर्वन् आसित्,तस्य यानस्य चालकः अस्यैव पिता आसीत् । बालस्तु पितामहस्य अङ्के उपविष्टः आसीत् । अज्ञानवशात् कार् यानं याघ्रस्य समीपे एव आसीत् । य्वाघ्रं दर्शयितुं वातायनस्य काचकम् अधः कृतवान् । ते अधिकं शब्दं कुर्वन्तः आसन् । तदा कुपितः व्याघ्रः बलेन ताडितः। अतः सः बालः सपदि म्रुतः। अस्याः दुर्घटनायाः नन्तरं व्याघ्रवासस्थलपर्यन्तं गमनार्थं निशेधः कृतः। सध्यः व्याघ्रवासस्थलपर्यन्तं गमनार्थं लघुबस्स यानानि सन्ति ।

प्रवासाय सूचना[सम्पादयतु]

औन्नत्यम् – समुद्रतः १२४५ तः १६३४ मीटर् उन्नतप्रदेशे वर्तते ।
संदर्शनसमय़ः – प्रातः९ तः सायं ५ ।
विरामदिनानि – मङ्गलवासर: ।
वीक्षणार्थं उत्तमसमयः –सेप्टम्बर् मासादारभ्य जनेवरिमास पर्यन्तं ।
मार्गः(यानानां संख्या ) – मेजेस्टिक् तः ३६५, मार्केट् तः ३६६, शिवाजिनगरतः ३६८,ब्रिगेड् मार्गतः G-4 |

मृगालय:[सम्पादयतु]

White tiger bangalore.jpg

मृगालये एकः लघुवस्तुसंग्रहालयः अस्ति । तत्र प्राणिविज्ञानसंबन्धितवस्तूनां प्रदर्शनं भवति । अस्मिन् आकर्शणीये मृगालये रिप्टैल् उद्यानवनम्, एवं लघु चलनचित्रमन्दिरमपि अस्ति । प्रदर्शनस्य निर्वहणा विशये मृगालय़ः तदातदा विमर्शितः भवति । मङ्गलवासरेशु मृगालयस्य विरामः भवति ।

वासस्थलोऽपगमः (सफारि)[सम्पादयतु]

Bannerghata zoo.jpg

मृगालयस्य दर्शनार्थं सप्ताहान्तेषु दिनेषु एवं अन्येषु दिनेषु भिन्न् भिन्न् प्रवेशशुल्कः भवति । सध्यः कालीनः प्रवेशशुल्कः एवमस्ति – य़त्र व्याघ्र्-सिंह्-बल्लूकाद्यन्य जन्तूनां वासस्थलपर्यन्तं गमनार्थं सप्ताहान्त दिनेषु प्रवेशशुल्कः रु.१३५, अन्यदिनेषु रु.१०० भवति । उद्यानवने अटितुं शुल्कः रु.३५ भवति । व्याघ्र-सिंह्-बृहत्कायमार्जालादीनां वासस्थलं द्रष्टुं बहु रमणीयं भवति, प्रवेशशुल्कस्तु बहु न्यूनं (सप्ताहान्तदिनेषु –रु.९०,अन्येषु दिनेषु रु.६५ ) इत्यतः,यात्रिकाः सुलभतया गन्तुं प्रभवन्ति । छायाग्रहणार्थं अधिकं शुल्कं रु.२० देयं भवति । विरामेषु मे मासेषु रु.११० शुल्कः भवति । भारतीय छात्राणां कृते अस्मिन् मे मासे विरामः भवति । बन्नेरुघट्टस्य राष्ट्रीय उद्यानस्य एषा सम्पर्क संख्या भवति +९१-८०-२७८२८५४० ।

पतङ्गोद्यानम्[सम्पादयतु]

VB 017 Butterfly Park Bangalore.jpg
पतङ्गोद्यानस्य प्रवेशद्वारम्

भारतदेशस्य प्रथमं पतङ्गोद्यानम् बन्नेरुघट्टस्य सस्यशास्त्रीय उद्याने स्थापितमस्ति । एतत् उद्यानवनं २५-११-२००६ शनिवासरे, केन्द्रीयविज्ञान-तन्त्रज्ञानविभागीय मन्त्रिवर्येण कपिल् सिग्बाल् महोदयेन उद्घाटितमस्ति । पतङ्गोद्यानं(३०,००० मि ) ७.५ परिमिते प्रदेशे व्यापृतमस्ति । अस्मिन् प्रदेशे पतङ्गानां संरक्षणास्थलं,वस्तुसंग्रहालयः,श्रव्यदृश्यप्रकोष्ठोऽपि सन्ति । पतङ्गानां संरक्षणास्थलं एकं पालिकार्बोनेट् धातुयुक्तम् आच्छादनं भवति ।अयं प्रदेशः १०.००० sq.ft ( १,००० m2) विस्तृतमस्ति । गोलाकारे निर्मिते अस्मिन् प्रदेशे २० त्यधिकाः विभिन्नजातीयाः सन्ति । अस्मिन् प्रदेशे समशीतोऽष्णस्य रक्षणार्थं सम्पूर्णं आर्द्रवातावरणं कर्तुं एकं कृतकं जलपातं निर्मितमस्ति। गमनार्थं लघुसेतुबन्धोऽपि अस्ति । पतङ्गानां कृते अहारार्थं योग्यसस्यान् एवं पोटरान् अपि स्थापितानि । इयं संरक्षणास्थलं प्रथम, द्वितीय गृहम्प्रति नयति । प्रथमे वस्तु सङ्ग्रहालयः अस्ति । तत्र अतीव सुन्दरपतङ्गान् प्रदर्शितं भवति । अन्तिमे लघुचित्रमन्दिरं अस्ति। कर्नाटकसर्वकारस्य प्राणिसङ्ग्रहालय विभागः, अशोक ट्रश्ट् फार् रीसर्च इन्न् एकालजि अन्ड एन्विरान्मेन्ट् (ATREE), कृशि- विश्वविद्यालय़ादयः सहयोगं कुर्वन्ति ।

जैविकाभयारणयम्[सम्पादयतु]

उद्यानस्यपरितः विद्यमान जैविकाभयारणयप्रदेशः अरण्यविभागीयः भवति । अयञ्च प्रदेशः एतेषां गजादीनां,व्याघ्राणां,हरिणाद्यन्यप्राणीनाञ्च वासस्थलं भवति । एतत् अभयारण्यं गजानां विहारस्थलं भवति। सत्यमङ्गलारण्यस्य बन्नेरुघट्टपर्वतगमनाय वेनाडुतः सम्पर्कः कल्पितमस्ति । विशेष सूचनाप्रकारं प्रयाणसमये जैविकाभयारण्यस्य परितः बन्नेरुघट्ट-आनेकल्ल् मार्गेषु गजाः अटन्तः भवन्ति इति । एकदा पाटषालायाः दिनत्रयात्मकः विरामः आसीत्, तदा एकः चित्रकः तस्य शिशुभिः सः सञ्चरन् असीत् इति वार्ता प्रकटिता आसीत् ।