बसवनबागेवाडी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
बसवनबागेवाडी
ಬಸವನ ಬಾಗೇವಾಡಿ
—  नगरम्  —
बसवेश्वरः
Coordinates: 16°35′00″N 75°58′01″E / 16.5833°N 75.967°E / 16.5833; 75.967
राष्ट्रम्  भारतम्
ऱाज्यम् कर्णाटकराज्यम्
मण्डलम् बिजापुरमण्डलम्
औन्नत्यम्
बसवनबागेवाडी
जनसङ्ख्या (2001) २८,५८२
भाषाः
 • अधिकृत कन्नडभाषा
भारतीय सामान्यकालमानम् (UTC+5:30)
पत्रालयकूटसंख्या 586 203
दूरवाणीकूटसंख्या 08358
वाहनपञ्जीकरणम् KA-28


बसवनबागेवाडी(Basavana Bagevadi) कर्णाटकराज्ये बिजापुरमण्डले विद्यमानं किञ्चन नगरम् । महात्मनः बसवेश्वरस्य जन्मस्थानम् एतत् । द्वादशशतके जातः एषः धार्मिकक्रान्तिकारः । वीरशैवमतस्य च प्रवर्तकः । इदानीम् अपि वीरशैवानां पवित्रं तीर्थक्षेत्रम् अस्ति एतत् । तस्य जन्मस्थाने सुन्दरं मन्दिरं निर्मितम् अस्ति । कर्णाटकस्य प्रसिद्धशिवशरणक्षेत्रेषु बसवनबागेवाडि अपि अन्यतमम् । युगपुरुषः, भक्तिभण्डारी, विचारवादी, मानवतावादी, समाजवादी, समाजोद्धारकः, स्त्रीसमानतावादी कन्नडसाहित्यस्य नूतनदृष्टिदाता, क्रान्तिकारी, महामहिमवान् बसवण्णः बसवनबागेवाडीनगरे जातः ।

इतिहासः[सम्पादयतु]

शतमानेभ्यः प्राक् एषः एकः अग्रहारः आसीत् । वेदाध्ययनं प्रचलति स्म । अत्रत्याः बाह्मणाः बहवः शैवाः आसन् । तेषु साख्यायनगोत्रस्य मादरसः अन्यतमः आसीत् । तस्य पत्नी मादलाम्बिका । एतयोः पुत्रः बसवण्णः । एषः नन्दिप्रसादतः जन्म प्राप्तवान् । श्रीशङ्कराचार्यः यथा शङ्ककरस्य अवतारः इति श्रीमध्वाचार्यः मारुतेः अवतारः इति च परिभाव्यते तथैव बसवण्णः नन्दिनः अवतारः इति भाव्यते । एषः द्वितीयः शम्भुः इत्यपि कथ्यते ।

मादलाम्बिका बागेवाडिक्षेत्रस्य शिवदेवालये प्रतिमासं प्रदोषकाले श्रेष्ठं नन्दिव्रतं करोति स्म । ततः बसवण्णस्य जन्म अभवत् । एषः ग्रामः बहु प्राचीनः । एतस्य ग्रामस्य पौराणिकपृष्ठभूमिका अपि अस्ति । इदानीमेषः ग्रामः बिजापुरमण्डले एकं तालूकुकेन्द्रम् । अत्र एकशतविंशतिग्रामाः सन्ति । कर्णाटके ’वाडी’ इति अन्तिमाक्षरयुक्तग्रामाः बहवः सन्ति । हरळवाडि, नसिरवाडि, शुक्रवाडि, तन्बाकवाडि इत्यादयः । एतेषु वाडिषु बागेवाडेः पवित्रं स्थानम् अस्ति । वाडी इत्युक्ते पट्टणं, ग्रामः, ग्रामस्य भागः, लघुग्रामः इत्यादयः अर्थाः सन्ति ।

बागेवाडि क्रि.श. ६६५ तमे वर्षे अस्तित्वे आसीत् इति ज्ञायते । बसवनबागेवाडि ग्रामे शिवाराधनेन सह जैनधर्मः अपि प्रचारे आसीदिति ज्ञायते । बसवण्णस्य दैवीशक्तिविषये जनानाम् अचलविश्र्वासः अस्ति । भक्तानां श्रद्धापूर्णभक्त्या इष्टार्थः सिद्ध्यति इति जनाः वदन्ति । एतद्विषये गीतं श्रूयते । चेन्नम्मायाः भक्त्या बसवण्णः सन्तुष्टः । तस्याः मुग्धभक्त्या मृत्तिकायाः बसवमूर्तिः रूपिता । तत्रैव महिमामूर्तेः देवालयः सञ्जातः । बसवण्णव्रतकारणतः चेन्नम्मायाः गानकारणतश्र्च दैवानुग्रहः लब्धः । अर्चनया सन्तानभाग्यं लभ्यते इति प्रथा अत्र अस्ति ।

बसवण्णः यत्र जातः प्रवृद्धश्र्च तद्गृहं सर्वकारेण राष्ट्रियस्मारकं कृतम् । बसवनबागेवाड्यां विशाले स्थले बसवण्णस्य सुन्दरः देवालयः निर्मितः । कर्णाटकराज्ये गोहत्यारहितम् एकमात्रपट्टणम् अस्ति बसवनबागेवाडी । अत्र अहिंसा नियमपूर्वकम् आचर्यते । बसवनबागेवाडिमध्ये दर्शनीयानि स्थानानि इङ्गळेश्र्वरम्, जायवाडगी, मुळवाडः च । एते ग्रामाः ऐतिहासिकदृष्ट्या, पौराणिकदृष्ट्या च प्रसिद्धाः ।

इङ्गळेश्र्वरग्रामः बसवनबागेवाडितः १० कि.मी दूरे अस्ति । आरम्भदिनेषु बसवनबागेवाडिं इङ्ळेश्र्वरबागेवाडि इति आह्वयन्ति स्म । बसवण्णस्य जननान्तरं बसवनबागेवाडि इति प्रसिद्धं जातम् । इङ्गळेश्र्वरं बागेवाडी च बसवण्णस्य व्यक्तित्वम् अरूपयत् । बसवण्णः अत्रैव बाल्यं यापितवान् ।

जायवाडगी - एतदेकं धार्मिकक्षेत्रम् । बसवनबागेवाडितः १० कि.मी दूरे एषः ग्रामः अस्ति । कृषिकाः वृषभान् देवालयं प्रति आनीय प्रदक्षिणं कारयन्ति । ततः एते वृषभाः दृढाः भवन्ति इति तेषां विश्र्वासः ।

* मुळवाड – गौरीशङ्करोत्सवकारणतः एषः ग्रामः प्रसिद्धः । एतस्मिन् उत्सवे बालान् देवस्थानात् क्षिप्त्वा आच्छादकेन गृह्णन्ती । एषा एका विलक्षणसेवा अत्र आचर्यते ।
* कोल्हार - एतं ग्रामं दक्षिणवारणसी इति वदन्ति ।
* आलमट्टि - एतत् राष्ट्रस्तरस्य सुन्दरं प्रवासिकेन्द्रम् ।
* मनगूळि - अत्र चालुक्यकालस्य रामेश्वरदेवालयः अस्ति । बसवनबागेवाडि-उपमण्डलस्थः देवरहिप्परगीग्रामः अपि ऐतिहासिकमहत्वं प्राप्नोत् ।

एवं बसवनबागेवाडी-उपमण्डलं प्रसिद्धग्रामयुक्तं सत् शिवशरणानां क्षेत्रम् अस्ति । द्वादशशतके अत्र जन्म प्राप्य एतं ग्रामं बसवण्णः पवित्रीकृतवान् । एषः मानवतावादी आसीत् । तेन ज्वालितः दीपः इदानीं प्रपञ्चमेव प्रकाशयति । बागेवाडिशिवलिगशिवयोगिनां शिष्याः अनेकैः ऐन्द्रजालिककार्यैः (अलौकिककार्यैः) जनमानसे अविस्मरणीयाः सन्ति । एते महात्मानः शतं वर्षाणि जीवितवन्तः । एतेऽपि बसवत्त्वं प्रसार्य बसवनबागेवाडिकीर्तिं वर्धितवन्तः ।

बसवण्णः क्रि.श ११३०-३१ समये बागेवाड्यां जन्म प्राप्तवान् । एतस्य देवराजः इति सहोदरः, नाराम्मा इति सहोदरी च आसीत् । एते अष्टवर्षाणि स्वबाल्यम् अत्रैव यापितवन्तः । बसवण्णः आरम्भदिनेषु बागेवाडिमध्ये आसीत् । ततः इङ्गळेश्र्वरम् आगतवान् । ततः कप्पडिसङ्गमम् आगतवान् तावत् क्रीडन् गायन् नन्दन् प्रवृद्धः ।

एषा साधुसज्जनानां शिवशरणानां पुण्यभूमिः । बहवः कवयः, सज्जनाः स्वकीयकाव्यपुराणादिषु एतं ग्रामम् उल्लिखितवन्तः । भीमकविः, लक्कण्णदन्डेशः इत्यादयः बसवनबागेवाडिक्षेत्रं स्वग्रन्थेषु चित्रितवन्तः । बसवपुराणे, शिवतत्वचिन्तामणौ बसवबेळगुग्रन्थे च बसवनबागेवाडिविषये सुन्दरं चित्रणम् अस्ति ।उन्नतदुगैः, विशालाभि वीथीभिः, आकाशचुम्बिगोपुरैः, सुन्दरैः मन्दिरैः बसवनबागेवाडि शोभते स्म इति कवयः एतत् क्षेत्रं श्लाघितवन्तः ।

बसवेश्र्वरदेवालयः[सम्पादयतु]

बसवनबागेवाडि-बसकस्थानकसमीपे बसवेश्र्वरदेवालयः पूर्वाभिमुखं स्थितः अस्ति । एषः देवालयः प्राकारेण आवृतः अस्ति । एषः देवालयः ११-१२ शतके निर्मितः स्यादिति ज्ञायते । एतस्मिन् ग्रामे महादेवस्य, गजपतेः, मारूतेः च देवालयाः सन्ति । अत्र विठोबमन्दिरे राघवेन्द्रस्वामिनां वृन्दावनम् अस्ति । बागेवाडिग्रामे कुम्बारोणिमध्ये रामलिङ्गेश्र्वरस्य देवालयः अस्ति । बागेवाड्यां बसवण्णकूपः, सारङ्गकूपः इति प्रसिद्धौ कूपौ स्तः । एतस्मिन् ग्रामे १६ मठाः आसन् इति श्रूयते । विविधमतावलम्बिनां देवालयाः अपि सन्ति । अत्र खाजी अम्बरदर्गा, खाजा अमीन् उद्दीन् दर्गाश्र्च सन्ति । उरुस् नामकाः उत्सवाः अत्र प्रचलन्ति ।

बसवनबागेवाडिसम्बद्धानि शासनानि उपलब्धानि । एतैः शासनैः बागेवाडयाः प्राचीनतां ज्ञातुं शक्नुमः । शासनेषु बसवण्णस्य पितुः नाम उल्लिखितमस्ति । कानिचन शासनानि देवनागरीलिप्या सन्ति । शासनैः बागेवाड्याः बसवेश्र्वरदेवालयः प्राचीनः इति ज्ञायते । बसवः इत्यस्य त्रिषु अक्षरेषु महती शक्तिः अस्ति भक्तैः विश्वस्यते । एतया शक्त्या मनुष्यस्य व्यक्तित्वं शुद्धं भवति । बसवण्णः यदा बसवनबागेवाडीतः प्रस्थितवान् तदा भूम्या एव सम्भाषितम् इति ऐतिह्यम् अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=बसवनबागेवाडी&oldid=247293" इत्यस्माद् पुनः प्राप्तिः