बसवराज राजगुरुः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
बसवराज राजगुरुः
Rajguru.JPG
व्यैक्तिकतथ्यानि
जन्मनाम बसवराजः
मूलतः एलिवाळग्रामः, धारवाडमण्डलम्, कर्णाटकराज्यम्, भारतम्
वृत्तिः सङ्गीतज्ञः, गायकः सङ्गीतगुरुः।
वाद्यानि शास्त्रीयगायकः
सक्रियवर्षाणि क्रि.श. १९३०तः क्रि.श.१९९० ।





बसवराज राजगुरुः (Basavaraj Rajguru) सुप्रसिद्धः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य महान् गायकः । सुर का बादशाह इत्येव ख्यातः बसवराज महान्तस्वामी राजगुरुः कर्णाटकराज्यस्य धारवाडमण्डलस्य एलिवाळग्रामे क्रि.श. १९१७तमवर्षस्य अगष्टमासस्य २४ तमे दिने अजायत । अस्य पिता महान्तस्वामी तमिळुनाडुराज्यस्य तञ्जावूरुप्रदेशे कर्णाटकसङ्गीतम् अधीतवान् । बाल्यादपि बसवराजः रङ्गगीतेषु आसक्तिं प्रदर्शयति स्म । नाटकसमवायं गत्वा तत्र रङ्गगीतानां गायने अवकाशं प्राप्तुं यतते स्म । एतत् ज्ञात्व अस्य पिता एतं सवणुरु वामनरायः इत्यस्य नाटकसमवाये प्रवेशितवान् । अस्य त्रयोदशे वयसि अस्य पिता दिवङ्गतः ।

सङ्गीतशिक्षा[सम्पादयतु]

बसवराजस्य पितृव्यः तस्य हुब्बळ्ळिनगरस्य मूरुसाविरमठस्य संस्कृतपाठशालायां प्रवेशम् अकल्पयत् । गदगस्य अन्धः गानयोगी पञ्चाक्षरी गवायी यदा तत्र आगतवान् तदास्य गानं श्रुत्वा सन्तुष्टः तेन सह बसवराजं गदगं नीतवान् । बसवराजः गानयोगिनाम् आश्रमे कठिणपरिश्रमेण सङ्गीताभ्यसम् अकरोत् । क्रि.श. १९२६ तमे वर्षे विजयनगरसाम्राज्यस्य षष्टशतमानोत्सवं हम्पीनगरे आचरन्ति स्म । तदा राजगुरुः स्वस्य सङ्गीतजीवनस्य प्रथमां गोष्ठीम् अकरोत् । गुरुः पञ्चाक्षरी गवयी एव तबलासहयोगं दत्तवान् । तस्मिन् अनेन बागेश्रीरागेन गीतं निजगुणशिवयोगिनः वचनं श्रुत्वा जनस्तोमः मन्त्रमुगग्धः अभवत् । हिन्दुस्तानीसङ्गीतस्य नूतनतारायः उदयः कर्णाटकस्य आकाशे अभवत् । क्रि.श. १९२६ तः १९४२ तमवर्षपर्यन्तं मुम्बैआकाशवाण्याम्, एच्.एम्.वि.सङ्गीतसमवायस्य कृते च अनेकान् रागान् राजगुरुः गीतवन् । क्रि.श. १९४४ तमे वर्षे पञ्चाक्षरी गवायीवर्यस्य निधनानन्तरं बसवराजः मुम्बैनगरं गत्वा सवायीगन्धर्वस्य शिष्यत्वं प्राप्तवान् । गुरुः अनतिकाले एव अर्धाङ्गवातेन पीडितः शिष्यं बसवराजं सुरेशबाबु माने इति गवायीवर्यस्य गुरुत्वं प्रापितवान् । कञ्चित्कालपश्चात् बसवराजराजगुरुः पाकिस्तानेप्रदेशे विद्यमान्स्य किराणा घराणायाः प्रसिद्धगायकस्य पञ्चाक्षरीवर्यस्य गुरोः उस्ताद वहीदखानस्य आश्रयं गत्वा सङ्गीतशिक्षा अमुन्नीतवान् । ततः पश्चात् उस्ताद लतीफ खानस्य गुरुत्वं प्राप्य ६मासान् अधीतवान् । इनयतुल्ला खान्. रोशन अलि, गोविन्दराव टेम्बे इत्यादिषु सङ्गीताभ्यासं कृत्वा बसवराजः हिन्दुस्थानीसङ्गीतस्य किराणा घराणा, ग्वालियर् घराणा, पटियाला घराणा इति घराणात्रये अपि प्रभुत्वं स्थापितवान् ।

मृत्युपरीक्षा[सम्पादयतु]

क्रि.श. १९४७ तमे वर्षे यदा भारतदेशस्य विभजनावसरे राजगुरुः कराच्याम् आसीत् । पाकिस्ताने प्रचालितनरमेधात् अपसर्तुम् उस्तादस्य लतीफखानस्य सूचनानुगुणं राजगुरुः भारतागमनस्य रैलयानेन कथञ्चित् भारतमागतवान् । भारतस्य सीमाप्रदेशे यानम् अवरुद्ध्य भयोत्पादकाः यदा सामूहिकहत्याम् अरब्धवन्तः तादा राजगुरुः रैलयानस्य अधः प्रच्छन्नः भूत्वा देहलीपर्यन्तम् आगतवान् । देहलीतः पुण्यपत्तनम् (पुणे) आगत्य सङ्गीतवृत्तिं सम्मुन्नीतवान् । तत्रापि कश्चन नूतनः अपायः अभिमुखः अभवत् । क्रि.श. १९४८ तमे वर्षे यदा नाथूरामगोड्से महात्मनः गान्धेः हत्याम् अकरोत् तदा सः ब्राह्मणः इति कारणेण महाराष्ट्रराज्ये विद्रोहिनः ब्राह्मणानां सामूहिकां हत्याम् आरभन्त । कस्यचित् ब्राह्मणस्य गृहे भाटकरूपेण स्थितः राजगुरुः विप्लवकारिणां हस्तगतः अभवत् । एषः ब्राह्मणः न इति ज्ञात्वा एतम् अत्यजन् ।

अध्यापनम्[सम्पादयतु]

बसवराजराजगुरुः स्वस्य गुरवे पञ्चाक्षरी गवायीवर्याय दत्तवचनानुसारं सङ्गीतविद्यां निर्वञ्चनया अनेकेभ्यः छात्रेभ्यः दत्तवान् । ईदानीन्तने काले प्रसिद्धाः सङ्गीतज्ञाः हासणगि गनपति भट्टः, परमेश्वर हेगडे, शान्ताराम हेगडे, नचिकेत शर्मा इत्यादयः राजगुरोः साक्षात् शिष्याः एव ।

व्यक्तित्वम्[सम्पादयतु]

बसवराज राजगुरोः कस्यचिदपि दुर्व्यसनं नासीत् । चायपानं, धूमपानं, तमाखुखादनम्, मद्यपानं वा तस्य अभ्यासे नासीत् । परीपूर्णतया शाकाहारी आसीत् । भर्जितभक्ष्याणि कदापि न खादति स्म । यत्रकुत्रापि सङ्गीतगोष्ठ्यर्थे गच्छति तत्र स्वस्य भोजनसामग्रीः स्वयं नयति स्म । धारवाडतः एव क्वथितशीतलितं जलं नयति स्म । बसवराजराजगुरुः निस्सङ्कोचगुणस्य धीरः । सङ्गीतप्रतियोगितागोष्ठिषु उस्ताद निशादखानं, उस्तादछोटे गुलमं च जित्वा जनप्रशंसाम् अवाप्नोत् । यशसः शिखरारूढः अपि सरलजीवनं देवपूजनं सङ्गीताराधनं च सर्वदा करोति स्म ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

बसवराज राजगुरुः क्रि.श.१९७५तमे वर्षे पद्मश्रीप्रशस्तिं, क्रि.श. १९९१तमे वर्षे पद्मभूषणप्रशस्तिं च प्राप्तवान् । अपि च कर्णाटकराज्यस्य सङ्गीतनाटकाकादमीप्रशस्तिं च पाप्तवान् ।

रागबिहागः[सम्पादयतु]

अमेरिकायां सङ्गीतगोष्ठिं चालयितुं जिगमिषुः वीसा (प्रवासानुमतिपत्रम्) प्राप्तुं चेन्नैनगरं गतः राजगुरुः धारवाडं प्रत्यागच्छति स्म । बेङ्गळुरुनगरं प्राप्तवान् तदा लघुहृदयाघातः अभवत् । तस्य शिष्यः नचिकेतशर्मा एतं चिकित्सालयं नीतवान् । क्रि.श. १९९१ तमे वर्षे जुलै २१दिनाङ्के वैद्यालये राजगुरुः अर्धप्रज्ञावस्थायाम् आसीत् ।

मरणम्[सम्पादयतु]

सुर का बादशाह (स्वरसाम्राट्) इति प्रसिद्धस्य बसवराजराजगुरोः शवं बेङ्गळूरुतः धारवाडं प्रत्यानेतुं कर्णाटकसर्वकारेण न कापि व्यवस्था कृता । स्वायत्तयानेन राजगुरुजडशरीरं यदा धारवाडं प्राप्तं तदा तत्र सहस्राधिकाः जनः सम्मिलिताः । तदा तत्र आगतः पद्मविभूषणः ख्यातसङ्गीतज्ञः मल्लिकार्जुन मन्सूरः अहो मरणेऽपि साम्राट् एव इति उद्गारं कृतवान् ।

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=बसवराज_राजगुरुः&oldid=236344" इत्यस्माद् पुनः प्राप्तिः