बहुब्रीहिसमासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बहुब्रीहिसमासः
बहुब्रीहिसमासस्य समास विग्रह पद
बहुब्रीहिसमासस्य समास विग्रह पद

बहुव्रीहिसमासः[सम्पादयतु]

प्रायेण अन्यपदार्थप्रधानः बहुव्रीहिसमासः।
द्वौ वा त्रयो वा द्वित्राः इत्यादिषु उभयपदार्थस्य प्राधान्येऽपि द्वन्द्वः दृश्यते अतः समासलक्षणे प्रायेण इत्युक्तम्।

भेदाः[सम्पादयतु]

बहुव्रीहिसमासः द्विधा -

  1. सामान्यबहुव्रीहिः
  2. विशेषबहुव्रीहिश्चेति
बहुव्रीहि समास:
बहुव्रीहि समासस्य उदाहरणम्
बहुव्रीहि समासस्य उदाहरणम्


बहुव्रीहि समास:
बहुव्रीहि समासस्य उदाहरणम्
बहुव्रीहि समासस्य उदाहरणम्


सामान्यबहुव्रीहिः षोढा[सम्पादयतु]

  1. द्वितीयार्थबहुव्रीहिः - यथा - ‘प्राप्तोदकं’ प्राप्तम् उदकं यं सः प्राप्तोदकः (ग्रामः)
  2. तृतीयार्थबहुव्रीहिः - यथा - ‘पीतक्षीरः’ पीतं क्षीरं येन सः पीतक्षीरः (बालः)
  3. चतुर्थ्यर्थबहुव्रीहिः - यथा - ‘दत्तपशुः’ दत्तः पशुः यस्मै सः दत्तपशुः (रुद्रः)
  4. पञ्चम्यर्थबहुव्रीहिः - यथा - ‘उद्धृतजलः’ उद्धृतं जलं यस्मात् सः उद्धृतजलः (कूपः)
  5. षष्ठ्यर्थबहुव्रीहिः - यथा - ‘पीताम्बरः’ पीतम् अम्बरं यस्य सः पीताम्बरः (हरिः)
  6. सप्तम्यर्थबहुव्रीहि - यथा - ‘बहुफलः’ बहूनि फलानि यस्मिन् सः बहुफलः (वृक्षः)

विशेषबहुव्रीहिः नवधा[सम्पादयतु]

  1. व्यधिकरणबहुव्रीहिः - यथा - ‘चक्रपाणि’ चक्रं पाणौ यस्य सः चक्रपाणिः।
  2. सङ्ख्योत्तरबहुव्रीहिः - यथा - ‘उपविंशाः’ विंशतेः समीपे ये सन्ति ते उपविंशाः।
  3. सङ्ख्योभयपदबहुव्रीहिः - यथा - ‘द्वित्राः’ द्वौ वा त्रयो वा इति द्वित्राः।
  4. सहपूर्वपदबहुव्रीहिः - यथा - ‘सशिष्यः’ शिष्येण सह वर्तते इति सशिष्यः।
  5. व्यतिहारलक्षणबहुव्रीहिः - यथा - ‘केशाकेशि’ केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् इति केशाकेशि।
  6. दिगन्तराललक्षणबहुव्रीहिः - यथा - ‘दक्षिणपूर्वा’ दक्षिणस्याः पूर्वस्याः दिशो यदन्तरालम् इति दक्षिणपूर्वा।
  7. नञ्बहुव्रीहिः - यथा - ‘अपुत्राः’ अविद्यमानः पुत्राः यस्य सः अपुत्राः।
  8. प्रादिबहुव्रीहिः - यथा - ‘निष्कृपः’ निर्गता कृपा यस्मात् सः निष्कृपः।
  9. उपमानपूर्वपदबहुव्रीहिः - यथा - ‘गजाननः’ गजाननमिव आननं यस्य सः गजाननः।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बहुब्रीहिसमासः&oldid=409480" इत्यस्माद् प्रतिप्राप्तम्