बादरायणः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

इक्ष्वाकुवंशस्य कुलगुरोः वसिष्ठस्य शक्तिरिति पुत्रः आसीत् । शक्तेः पुत्रः पराशरः । तस्य सत्यवत्याम् एकः पुत्रः जातः । अयं सात्यवतेयः बदरी वने जातत्वात् बादरायणः अभवत् । असौ वेदानां विभागं कृतवान् । अतः एव वेदव्यासः इति ख्यातिं लब्धवान् । किञ्च कृष्णवर्णत्वात् द्वीपवासत्वाच्च एषः कृष्णद्वैपायन इत्यपि आहूयते ।

अचतुर्वेदनोब्रह्मा द्विबाहुरपरो हरिः ।
अफाललोचनश्शम्भुः भगवान् बादरायणः ॥

इत्यनेन श्लोकेन भारतीयास्सर्वे व्यासं त्रिमूर्त्यात्मकं मन्यन्ते इति ज्ञायते । संस्कृतवाङ्मये आदिकविः वाल्मीकेः अनन्तरं द्वितीयः कविः व्यासः एव । व्यासमहर्षिः उपनिषदः, अष्टादशपुराणानि च विरचितवान् । कुरुवंशीयानां चरितं वर्णयितुं महाभारतमिति नाम्ना उद्ग्रन्थं रचितवान् । वेदानाम् उपनिषदां च पठनं न सर्वेषां सुलभमिति मत्वा महामुनिरयं स्वीये भारतग्रन्थे यथावसरं तत्र तत्र वेदोक्तान् धर्मान् अपि विशदीचकार । अतः एव महाभारतस्य पञ्चमवेदः इति ख्यातिः अस्ति । वेदान्तशास्त्रेषु 'प्रस्थानत्रयं' सुविख्यातम् । तानि च प्रस्थानानि - १. उपनिषदः, २.भगवद्गीता, ३.ब्रह्मसूत्राणि चेति । ब्रह्मसूत्राणि बादरायणेन रचितानि। उपनिषद्वाक्येषु आपाततः यः विरोधाभासः दृश्यते तं परिहृत्य समन्वयपूर्वकं तत्त्वनिर्णयं करोति ब्रह्मसूत्रकारः । ब्रह्मसूत्राणां रचनायाः अनन्तरं वेदान्तस्य दर्शनत्वेन मान्यता प्रवृद्धा । दशाधिकानां भाष्याणां प्रवृत्तौ अपि ब्रह्मसूत्राणि एव मूलम् । भाष्यसाहाय्यं विना ब्रह्मसूत्राणाम् अर्थस्य ज्ञानं सर्वथा दुष्करम् । बादरायणस्य कालः क्रि श ४०० स्यात् इति इतिहासज्ञाः अभिप्रयन्ति । एतस्य कुलम् एषः श्लोकः विवृणोति -

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥

(व्यासः पराशरस्य पुत्रः, शक्तिमहर्षेः पौत्रः। वसिष्ठः व्यासस्य प्रपितामहः, शुकमहर्षिः व्यासस्य पुत्रः ।)

"http://sa.wikipedia.org/w/index.php?title=बादरायणः&oldid=239630" इत्यस्माद् पुनः प्राप्तिः