बाबा आमटे

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मुरलीधर् देवदास् आमटे

बाबा आमटे
जननम् डिसेम्बर् २६, १९१४[१]
हिङ्गणघाट, ब्रिटिशाधीनम् भारतम्
(वर्तमाने- महाराष्ट्रम्, भारम्)
मरणम् 9 February 2008(2008-02-09) (aged 94)
आनन्दवान्, महाराष्ट्रम्, भारतम्
राष्ट्रियता भारतीयः
पतिः/पत्नी साधना आमटे
अपत्यानि डा.विकास आमटे
डा. प्रकाश आमटे
हस्ताक्षरम्
जालपृष्ठम्
http://www.anandwan.in/baba-amte.html

बाबा आमटे (मराठी: बाबा आमटे, आङ्ग्ल: Baba Amte) महाराष्ट्रराज्यस्य महान् समाजसेवकः । सः कुष्ठरोगिणां सेवकः, स्वातन्त्र्यसेनानी, 'नर्मदाबचाव' आन्दोलनस्य प्रवक्ता च आसीत् । आमटेवर्यस्य मूलनाम 'मुरलीधर देवीदास आमटे' इति । जनैः प्रेम्णा, सः 'बाबा' इति सम्बोध्यते स्म[२][३][४] । अतः बाबा आमटे इत्येवं प्रसिद्धः सः ।

बाबा आमटेवर्यः, तस्य पत्नी साधनाताई

जन्म, शिक्षणं, कार्यपृष्ठभूमि: च[सम्पादयतु]

बाबा आमटेवर्यस्य जन्म 'डिसेम्बर्' मासस्य २६ दिनाङ्के १९१४ तमे वर्षे वर्धामण्डलस्य हिङ्गणघाटग्रामे अभवत् । तस्य जन्म धनिक(जहागिरदार)गृहे अभवत् । सः विधिविषयकं शिक्षणं प्राप्तवान् । सः कलारसिकः आसीत् । सः यौवनकाले आङ्ग्लचलच्चित्रसमीक्षणम् (critique) कृत्वा आङ्ग्लमासिकपत्रिकासु लिखति स्म । नागपुरविद्यापीठे तस्य शिक्षणम् जातम् । वर्धामण्डले वरोरानगरे तेन अधिवक्तृरूपेण कार्यं कृतम् । परम् अधिवक्तृकार्ये तस्य रुचिः नष्टा अभवत् । सः कृषकाणां एकत्रीकरणार्थं यत्तवान् । तेन स्वातन्त्र्यसङ्ग्रामे भागः गृहीतः । तदर्थं तस्य कारावासोऽपि सोढव्यः आसीत् । वर्धा इत्यस्मिन्नगरे स्थिते गान्धि आश्रमे अपि तस्य वास्तव्यम् आसीत् । म.गान्धि-टागोर-विनोबा भावे-सानेगुरुजीमहोदयाः आमटेवर्यस्य आदर्शाः आसन् । १९४६ तमे वर्षे साधना इत्येतन्नाम्नया कन्यया सह आमटेवर्यस्य विवाहः जातः[२] । सा अपि स्वकुलस्य धनिकतां परित्यज्य आमटेमहोदयेन सह सामाजिककार्ये भागं गृहीतवती ।

सेवाकार्यम्[सम्पादयतु]

आमटेवर्य:,पत्नी साधना,पुत्रद्वयम्

युवावस्थात: आमटेवर्य: सामाजिकक्षेत्रे कार्यं कर्तुम् उद्युक्तः आसीत् । युवावस्थायाम् एका घटना घटिता या तस्य जीवनस्य दिग्दर्शिका अभवत् । आमटेवर्यः एकवारम् एकं कुष्ठरुग्णं (leprosy patient) अपश्यत् । रोगेण त्रस्तः सः रुग्णः वर्षासमये असाहाय्यताम् अनुभूतवान् । तस्य असाहाय्यतां दृष्ट्वा आमटेवर्येण मनसि निर्धारितं यत् "कुष्ठरोगिजनानां कृते अहं कार्यं करोमि" इति । अत: १९४९ वर्षात् आरभ्य आजीवनं स: कुष्ठरोगिजनानां कृते कार्यरत: आसीत्[५] । कुष्ठरोगिजना: तु अस्पृश्याः इति जनमान्यता आसीत् तदा । सः कुष्ठरोगिणां विकासविषये, जीवनसमस्याविषये च बहु चिन्तनं कृतवान् । चिन्तनानुसारम् आचरणमपि आमटेवर्यः करोति स्म । 'आनन्दवनम्' इति तत्कार्यस्यैव अपरनाम । 'महारोगिसेवासमितिः’ इत्यस्या: संस्थायाः स्थापनेन आमटेवर्येण कार्यं प्रारब्धम् । अस्यां संस्थायां प्राथमिकस्तरे केचन प्रकल्पा: आरब्धा: । यथा -
१ आनन्दवन
२ सोमनाथ
३ लोकबिरादरी

आनन्दवन[सम्पादयतु]

ये जनाः कुष्ठरोगपीडिताः तेषां कृते पुनरावासकेन्द्रम् (rehabilitation centre) आनन्दवनम् । १९५१ तमे वर्षे आमटेवर्येण कार्यार्थं सर्वकारात् कश्चन भूभाग: लब्ध: । सः भूभागः अरण्यान्तर्गतः, वन्यजन्तुभिः आकुलः च आसीत् । १९५२ त: औपचारिकरूपेण आनन्दवनस्य कार्यं प्रारब्धम् । आमटेवर्येण तदा स्वयमेव कुष्ठशुश्रूषाविषये ज्ञानम् अधिगतम् । प्रारम्भे सः, तस्य पत्नी, पुत्रद्वयं, केचन कुष्ठरोगिणः च आनन्दवनं गतवन्तः । प्रारम्भे तैः मिलित्वा सामूहिककृषि: प्रारब्धा । ततः यत् धनं प्राप्तं, तेन आनन्दवनकार्यम् अग्रे नीतम् ।

बाबा५.jpg

आमटेवर्यः कुष्ठरोगिजनान् तत्र एकत्रीकृत्य तेषां सेवां, परिचर्यां च अकरोत् । प्रारम्भिकस्तरे निवासार्थं स्थानम् अपि नासीत्, तथापि सः कार्यं न त्यक्तवान् । १९५१ त: २००८ पर्यन्तं ३५०० रुग्णाः तत्र आसन् । अधुना न केवलं कुष्ठरुग्णानां कृते, अपि तु अन्ध-मूक-बधिर-शारीरिक-क्षति-ग्रस्तजनानां कृतेऽपि बहुप्रकल्पाः प्रचलन्ति । आमटेवर्येण कुष्ठरुग्णानां न तु केवला सेवा कृता, अपि तु तेषाम् आत्मविश्वासवर्धनार्थं, मानसिकसबलीकरणार्थम् अपि यत्नो विहित: । तेन तेषाम् उपजीविकाविषये अपि योजनाः कल्पिताः । आनन्दवनकारणेन कुष्ठरुग्णान् प्रति जनानां वीक्षणदृष्टिः परिवर्तिता । अतः आनन्दवनं सार्थनामधेयम् ।

आनन्दवनस्य योजनाः -
आनन्दवने बहवः जनाः निवसन्ति - केचन रुग्णाः, केचन कार्यकर्तारः । आमटेवर्यस्य कल्पना आसीत् – कुटुम्बरूपेण कार्यं करणीयं जनैः । अस्याः कल्पनायाः बहुयोजनाः उद्भूताः । यथा -

१ सुखसदन - आनन्दवनस्थैः दम्पतिभिः तत्रस्थस्यैव एकस्य वृद्धस्य परिवारसदस्यरूपेण स्वीकारः, तेन सुखसदननिर्माणम् इत्येवं योजना । अनेन कुटुम्बे वृद्धजनानां साहाय्यमपि भवति, दम्पतीशिशोः पालनमपि उत्तमं भवितुम् अर्हति ।

२ कृषिनिकेतनः विवाहित-अविवाहितकुष्ठरुग्णानां निवासस्थानमिदम् । अत्र निवसन्तः जनाः कृषिक्षेत्रे कार्यरताः ।

३ अन्धमूकबधिरजनेभ्यः आवासयोजना – प्रारम्भिकस्तरे कुष्ठरुग्णेभ्यः साहाय्यहस्तं प्रदाय तदनन्तरम् आनन्दवनेन अन्धमूकबधिरजनेभ्यः आवासव्यवस्था कल्पिता ।

४ 'उत्तरायण' – वृद्धजनानाम् आवासस्थानम् । वृद्धानाम् अनुभवाः आनन्दवनकार्ये प्रज्ञाकोश(Wisdom Bank)रूपेण मार्गदर्शकाः स्युः इति मत्वा आमटेवर्यः एनं प्रकल्पं प्रारब्धवान् ।

५ 'गोकुळ' – कुष्ठरुग्णानां कुष्ठरोग-अपीडिताः शिशवः अत्र पाल्यन्ते ।

कार्यप्रणालिः(Spectrom of Work)[सम्पादयतु]

- आरोग्यव्यवस्थाः - कुष्ठरुग्णालयः, नेत्ररुग्णालयः, सामान्यरुग्णालयः(O.P.D.), रक्तदानशिबिराणि च ।
- कुष्ठरुग्णानां पुनरावासव्यवस्था
- शारीरिकक्षतिग्रस्तेभ्यः (for physically challenged) निम्नलिखिताः योजनाः सन्ति -

  • व्यावसायिकप्रशिक्षणयोजना, उद्यमसम्बद्ध-उत्पादनकार्याणि(production oriented units), स्वरानन्दवननामकं वाद्यवृन्दम्, शारीरिकक्षतिग्रस्तेभ्यः आवश्यकवस्तूनाम् उत्पादनं, कृषि:, शिक्षणं च ।
  • पर्यावरणपूरकयोजनाः (Eco-friendly innovations)
  • युवभ्य: योजनाः
  • योग-ध्यान-योजनाः

सोमनाथप्रकल्पः[सम्पादयतु]

आनन्दवने कुष्ठरोगनिवारणानन्तरंम् आत्मविश्वासं प्राप्य स्वतन्त्रतया ये निवसितुम् इच्छन्ति, तेभ्यः सोमनाथप्रकल्पः । अस्मिन् प्रकल्पान्तर्गतग्रामे इदानीं ५५० जनाः निवसन्ति, कृषिकार्यं च कुर्वन्ति ।

सोमनाथप्रकल्प:

लोकबिरादरीप्रकल्पः[सम्पादयतु]

वने निवसन्तः आदिवासिनः समस्याभिः ग्रस्ताः । ताभ्यः समस्याभ्यः तान् मोचयितुं तेषां विकासः करणीयः, तेभ्यः अपि आरोग्यव्यवस्था कल्पनीया इति धिया अयं प्रकल्पः प्रारब्धः । एतदर्थम् अरण्यव्यापृतस्य गडचिरोलीमण्डलस्य सीमावर्तिभागः निर्धारितः, कार्यं च ततः आरब्धम् । आदिवासिभ्यः चलच्चिकित्सालयः (mobile hospital), चलच्छिक्षणं (mobile education) च प्रकल्पेऽस्मिन् अन्तर्भवति ।

कविः आमटेवर्यः[सम्पादयतु]

यथा आमटेवर्यस्य कार्यं तथैव तस्य शब्दसामर्थ्यमपि प्रेरणादायकम् । आमटेवर्येण 'ज्वाला आणि फुले’, 'उज्ज्वल उद्यासाठी’, 'माती जागवील त्याला मत' इत्येते काव्यसङ्ग्रहाः रचिताः । आत्यन्तिकं प्रेरणादायि इदं साहित्यम् ।

आन्दोलनकार्यम्[सम्पादयतु]

- १९८५ तमे वर्षे आनन्दवनसदस्याः भारतदेशस्थयुवभिः सह द्विचक्रिकया (bicycle) कन्याकुमारीतः काश्मीरपर्यन्तं शान्तिसन्देशयात्रां कृतवन्तः ।
- १९८८ तमे वर्षे अरुणाचलतः ओखापर्यन्तं द्विचक्रिकया यात्रां कुर्वन्तः ते तत्तद्भागस्थजनेषु भ्रातृभावं प्रसारितवन्तः ।
- १९९० त: २००० पर्यन्तम् आमटेवर्यः 'नर्मदाबचाव’आन्दोलनस्थाने उषित्वा प्रवक्तृरूपेण भागं गृहीतवान् । शान्तिस्थापनायै, पर्यावरणविषये जनजागरणार्थं च तेन अस्मिन् आन्दोलने भागः ऊढः ।

पुरस्कारा:[सम्पादयतु]

बहुपुरस्कारैः आमटेवर्यः विभूषितः । पद्मश्री, पद्मविभूषण, गान्धिशान्तिपुरस्कारः च पुरस्कारेण सः सम्मानितः । अमेरिकादेशस्य 'डेमियन-डट्टन' पुरस्कारेण बाबाआमटेवर्य: १९८३ तमे वर्षे विभूषितः । १९८५ तमे वर्षे 'मेगसेसे’ पुरस्कारः अपि प्राप्तः तेन । 'अपङ्ग कल्याण'- सावित्रीबाई फुले-डा.आम्बेडकर-‘महाराष्ट्रभूषण'- इन्दिरा गान्धि-जी.डी.बिर्ला- -‘दलितमित्र’पुरस्काराः तेन विभूषिताः ।

परिवारजनाः[सम्पादयतु]

पितुः प्रेरणया आमटेवर्यस्य सुतौ उच्चशिक्षणं प्राप्य समाजकार्यं प्रविष्टवन्तौ । कनिष्ठसुतः प्रकाशआमटेवर्यः 'हेमलकसा'क्षेत्रे कार्यरतः । ज्येष्ठसुतः विकासआमटेवर्यः वरोराग्रामस्थे आनन्दवने कार्यं करोति । अधुना आमटेवर्यस्य तृतीया-वंशश्रेणी अपि सामाजिककार्ये एव कार्यरता दृश्यते ।

निधनम्[सम्पादयतु]

अन्तिमकाले आमटेवर्यः उपवेष्टुम् असमर्थः अभवत्, यतः तस्य पृष्ठास्थिपीडा समुत्पन्ना । आमटेवर्यः ९ फेब्रुवरि २००८ इत्येतस्मिन् दिनाङ्के देहयात्रां समापितवान् । परं तस्य कार्यं, तस्य शब्दाः च जगतः कृते प्रेरणारूपेण वर्तन्ते एव ।

सन्दर्भलेखाः[सम्पादयतु]

मातृकापरिचयः

टिप्पणी[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=बाबा_आमटे&oldid=284033" इत्यस्माद् पुनः प्राप्तिः