बाबा रामदेवः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
स्वामी रामदेवः
जन्मस्थानम् सैयदलिपुरम्,महेन्द्रगडमण्डलम्, हरियाणाराज्यम्, भारतम्
पूर्वाश्रमनाम गुन्नु रामकिशन यदवः
गुरुः/गुरवः आचार्यः कर्मवीरः, आचार्यः बालकृष्णः च
शिष्याः सहस्रशः शिष्याः
तत्त्वचिन्तनम् सनातनधर्मः
उक्तिः जागृत भारत ।


बाबा रामदेवः इति ख्यातः स्वामी रामदेवः भारतस्य प्रसिद्धः कश्चित् सनातनधर्मरक्षकः साधुः । एषः पातञ्जलयोगसूत्रेषु प्रतिपादितयोगप्राणायामान् प्रचारेण प्रसारेण च प्रसिद्धिमापन्नः । योगं जनप्रियं कारयितुम् आयुर्वेदस्य चिकित्साविधानस्य दिव्ययोगमन्दिर ट्रस्ट् इति संस्थायाः स्थापकेषु अन्यतमः । अस्य सार्वजनिकशिबिरेषु अत्यधिकप्रमाणेन जनाः सम्मिलन्ति । एतावता कालेन ८.५कोट्यधिकजनाः भागम् अवहन् ।[१] दूरदर्शनवाहिन्या योगप्रात्यक्षिकायाः दर्शनेन जनाः अनुसरन्ति । तस्य योगप्रशिक्षा सामान्यजनां कृते निश्शुल्कं भवति । जीवने सर्वजनसहायः भवेयम् इति तस्य आशयः ।

बाल्यं शिक्षा च[सम्पादयतु]

बाबा रामदेवस्य जन्म हरियाणाराज्यस्य महेन्द्रगडमण्डलस्य सैयदलिपुरे अभवत् । गुन्नु रामकिशन यदवः इति अस्य पूर्वनाम आसीत् । बाल्ये पार्श्ववायुव्याधिना पीडितः योगद्वारा एव रोगोपशमनम् अभवत् । इमं विषयं आकाशवाणीप्रसारे बाबा स्वयम् उक्तवान् । शहभाज़ नगरस्य शलायाम् अष्टमकक्ष्यां समापितवान् । पश्चात् संस्कृतं योगं च अध्येतुं खान्पुरग्रामे आर्षगुरुकुलं प्राविशत् । कालान्तरेण एषः संयासम् आश्रित्य लोकान्तात् एकान्तम् अगच्छत् । पश्चात् अस्य नाम बाबा रामदेवः इति विख्यातम् । जिन्दोपमण्डलस्य कल्बा आर्षगुरुकुलं गत्वा हरियाणाराज्यस्य ग्रामीणानां निश्शुल्कयोगशिबिरं समारभत ।

उपलब्धयः[सम्पादयतु]

स्वामी रामदेवः क्रि.श. १९९५तमे वर्षे आचार्येण कर्मवीरेण आचार्येण बालकृष्णेन च सह दिव्ययोगमन्दिरम् अस्थापयत् । आचार्यः कर्मवीरः योगे वेदे च निष्णातः आसीत् । बालकृष्णः दैहिकज्ञः आयुर्वेदज्ञः चासीत् ।[२].स्वामिनः रामदेवस्य दूरदर्शनस्य योगप्राणायामदर्शनानि सार्वजनिकयोगशिबिराणि च अतीवजनप्रियानि सन्ति । तस्य सर्वसामान्ययोगशिबिरेषु २०सहस्राधिकाः स्वास्थेच्छुकाः भागं वहन्ति ।[३]भारतदेशे बहुत्र योगशिबिराणि कृत्वा भारतस्य राष्ट्रपतिभवने अपि आयोजितवान् ।[३] अस्य दूरदर्शनमाध्यमेन योगबोधनं जगतः विविधखण्डेषु प्रसार्यमाणम् अस्ति । तेषु आफ्रिका, आस्ट्रेलिया, एष्या, यूरोफ्. अमेरिका च अन्तर्गतानि । अस्य कार्यक्रमस्य अभ्यर्थना सर्वदा भवति एव अतः दूरदर्शनस्य विविधवाहिन्यः अस्य कार्यक्रमाणां दृश्यावलीः मुद्राप्य प्रसारयन्ति ।[३] २०दशलक्षजनाः अस्य कार्यक्रमाणां निरन्तरवीक्षकाः सन्ति ।[३] एतेषु कार्यक्रमेषु भागमूड्वा फलानुभविनः वदन्ति यत् अस्माकं देहस्य रुधिरनिपीडः, मधुमेहः, कशेरुकवेदना, यकृद्दौर्बल्यम्,देहस्थौल्यम्, इत्यादयः समस्याः नितरां परिहृताः अभवन् इति ।[३] स्वामी रामदेवः अन्ययोगबोधकानाम् अपेक्षया पृथक् तिष्ठति । एषः प्राणायामविषये आद्यतां कल्पयति । एतत् सामान्यजनान् बोधयित्वा अभ्यस्तुम् अवकाशान् परिकल्पयति ।[३] किन्तु अन्यशिक्षकाः आसनानि आद्यत्यास्वयोगकेन्द्रेषु बोधयन्ति ।[३]प्राणायामकार्यक्रमस्य प्रदर्शनचित्रणम् बाबा रामदेवस्य स्वास्थ्यसंरक्षणार्थं प्राणायामः प्रत्याहारः च भारतीयसंस्कृतेः भागः एव ।[४],विख्यातः अध्यात्मगुरुः श्री श्री रविशङ्करः बाबारामदेवस्य विषये एवं वदति अस्मिन् देशे भारते योगस्य पुनरुज्जिवयितुः किञ्चित् नाम अस्ति चेत् तत् रामदेवस्य एव । योगः प्राणान्तकरोगान् अपि निर्मूलयति इति बहुवारं रामदेवः दर्शितवान् तदग्रे अनुवर्तते अपि, इति[३]

पतञ्जलियोगपीठम्[सम्पादयतु]

पतञ्जलियोगपीठम्

क्रि.श २००६तमे वर्षे अगस्ट मासे षष्टे दिने स्वामी रामदेवस्य अत्यन्तं प्रमुखां योजनां पदञ्जलियोगपीठम् उद्घाटितम् । अस्य लक्ष्यं तु चिकित्सा, संशोधनम्, प्रशिक्षणम् इति प्रकल्पयुक्तं आयुर्वेदयोगयोः बृहद्विश्वविद्यालयस्य निर्माणम् ।[३][५]. इयं संस्था दीनानाम् अशक्तानां च निश्शुल्कं चिकित्सां करोति । अन्यसामान्यानाम् अन्यचिकित्सालयानाम् अपेक्षया न्यूनशुल्केन उत्तमा चिकित्सा लभ्यते । स्वामी रामदेवः पिवैपिद्वारा अन्यान्यसंस्थाभिः सहयोगेन सेवां कुर्वाणः अस्ति । एवमेव मधुमेहः, रुधिरनिपीडनम्, कायस्थौल्यम्, एतेषु रोगेषु अपि योगः प्रभावं करोति इति चिन्तनं प्रसारयन् अस्ति ।

राष्ट्रियविषयानां चर्चा[सम्पादयतु]

स्वामी रामदेवः स्वस्य योगशिबिरमाध्यमेन राष्ट्रियस्तरस्य नैकान् विषयान् मन्त्रयते । एतावति काले समाजोत्थनस्य अनेकान् अंशान् विचर्च्य बहूनां लक्ष्यम् आकृष्टवान् । तेषु भारतसर्वकारस्य प्रशासनिकनीतिः सामान्यजनानां जीवनशैली च परिवर्तनीया इति अस्य प्रमुखम् अभ्यर्थनम् । अन्ये विषयाः ये सर्वत्रिकचर्चानुगताः ...

कृषिक्षेत्रे परिवर्तनम्[सम्पादयतु]

स्वामी रावदेवः वदति यथा कृषकाः फलचयस्य प्रमाणं वर्धयितुम् अधिकलाभेच्छया च रसायनिकदोहदं क्रिमिनाशकानि च उपयोजयन्ति । अनेन् अक्रमेण संवर्धितैः शकैः अन्याहारवस्तुभिः च नानविधाः रोगाः उत्पादिताः ।

सिद्धपानीयाहारविरोधः[सम्पादयतु]

बहुसङ्खाकाः जनाः विपणिषु लभमानानि सिद्धपानीयानि पोटलितान् सिद्धाहारान् उपयोजयन्ति । अयं विषयः रामदेवस्य शिबिरेषु बहुचर्च्यमानः विषयः । एतेषु पदार्थेषु रोगोत्पादकांशाः अपौष्टिकांशाः च भवन्ति । अतः तेषां पनां भक्षणं वा अस्वास्थ्यकारं भवति । सिद्धपानीयेषु विशेषतः बहुकालसंरक्षणार्थं क्रिमिनाशकविषं भवति ।

कृषकबलवर्धनम्[सम्पादयतु]

भ्रष्टाः राजनीतिपक्षाः कृषकान् न पोषयन्ति । तेषां समस्याः न श्रुण्वन्ति । अधिकारिणां समाजस्य अविकसितजनानं विषये लक्ष्यं नास्ति । भारतस्य आर्थिकतायं कृषेः योगदानम् अधिकम् । किन्तु कृषकः एव दरिद्रः सञ्जातः इति विपर्यासः । देशस्य कशेरुकः इव विद्यमानः कृषकः अद्यतया परिगणनीयः सर्वकारेण इति अस्य आग्रहः ।

स्वदेशोद्यमानां प्रोत्साहनम्[सम्पादयतु]

सर्वकारस्य शिथिलनियमानां कारणेनैव उद्यमक्षेतेषु देशः अविकसितः अस्ति । अनेन कारणेन एव अन्यदेशीयाः समवायाः अत्रागत्य व्यभिचरन्ति । विदेशेषु निर्मितानि विविधाङ्कितानि वस्तूनि भारतीयविपणिषु आधिक्येन सन्ति । अनेन देशीयौद्ममिकसंस्थानानि प्रक्षीणानि सन्ति । इति वदन् भारतसर्वकास्य उपरि वाक्प्रहारं कृतवान् । केन्द्रसर्वकारेण राज्यसर्वकारैः च देशीयानि औद्यमिकसंस्थानानि उद्दीप्य उत्पाद्यानि संवृध्य विदेशीयवस्तूनां व्यवहारः न्यूनीकर्तव्यः । इति रामदेवस्य बलवान् आग्रहः अस्ति ।

स्विस् देशेरक्षितभारतीयकालधनस्य आयातः[सम्पादयतु]

स्विस् वित्तकोशेषु भारतीयानम् अन्यायसम्पादिता अपारा सम्पत् रहस्येन न्यस्ता अस्ति । एतद्धनं तु भारतस्य राष्ट्रिया सम्पत् भवति । अतः भारतसर्वकारः एतद्धनम् आनेतुं गभीरतया प्रयत्नं कुर्यात् । इति स्वामी रामदेवः[१] अधिकृतसमीक्षानुगुणं देशस्य अस्य ८४कोटिजनाः (७५%प्रजाः) प्रतिदिनं २०रूप्यकैः जीवन्ति । बाबा रामदेवः एतादृशजनानां कल्याणार्थमेव भारतस्वाभिमानान्दोलनम् अरब्धवान् । अस्य प्रथमलक्ष्यम् एव ८४कोटिजनानां क्षेमाभिवृद्धिः ।

भारतस्वाभिमानान्दोलनम्[सम्पादयतु]

आन्दोलनस्य पञ्चलक्षानि ।

  • १००% मतदानम् ।
  • १००% राष्ट्रियतावादस्य चिन्तनम् ।
  • १००% विदेशीयोत्पादनं तिरस्कृत्य स्वदेशीयोद्ममावलम्बनम् ।
  • १००% देशजनसङ्घटनम् ।
  • १००% योगदृष्टिदेशः ।

भारतस्वाभिमानान्दोलनस्य प्रतिज्ञाविधिः

  • देशाभिमानः, निष्ठा, शौर्यम्, दूरदृष्टिः, धिर्यम्, सम्पर्ककौशलम् इत्यादयः नायकत्वगुणाः येषु सन्ति तेभ्यः एव मतदानं कुर्मः ।
  • नवस्वातन्त्रं, नवव्यवस्थाः, नूतनपरिवर्तनं, आनेतव्याः, वयं सर्वे देशाभिमानेन, विश्वासेन, सूक्ष्मप्रज्ञया, निष्ठया युक्तजनान् मेलयामः । सर्वे मिलित्वा १००%राष्ट्रियशक्तेः सञ्चयनं कुर्मः । भारतं जगद्गुरुं कुर्मः ।
  • शून्यतन्त्रज्ञनेन सिद्धानि विदेशियवस्तूनि सम्पूर्णतया बहिष्कुर्मः । अपि देशीयोत्पादनानि उपयुञ्जामहे ।
  • राष्ट्रियतावदस्य चिन्तनानि १००% अङ्गीकृत्य अनुष्ठने अनयामः । इस्लाम्, क्रिश्चियन्, इत्यादीनि मतानि पश्यामः ताथापि वयं यथार्थे भारतीयाः इति जीवमः ।
  • समग्रं राष्ट्रं १००५ योगयुकं कर्तुम्, प्रत्येकं पौरं स्वस्थं कुर्मः । प्रत्येकं वञ्चनं, भ्रष्टता, निराशस्थितिः, अविश्वासः, द्वन्द्वमनोभावः इत्यादीनां कारणं परिशील्य दौर्वल्यं विमोचय्य आत्माभिमानेन जीवितुम् अवकाशं परिकल्पयामः । राष्ट्रियभावं जगरय्य भारतस्य प्रसुप्तगौरवं वर्धयामः ।

भ्रष्ठाचारनिर्मूलनध्येयः[सम्पादयतु]

अन्यायः, अत्याचारः, उत्कोचग्रहणम् इत्यादीन् नीतिशसनविरुद्धान् दुराचारान् निर्मूलयितुं बाबा रामदेवः भारतस्वाभिमानान्दोलनम् इति सामूहिकप्रतिरोधयात्राम् आरब्धवान् । एतत् आन्दोलनं सर्वकारस्य सर्वेषु विभागेषु भ्रष्टाचारं विरुद्ध्य विप्लवं करोति । भारसर्वकारीयानम् अधिकारिणाम् उत्कोचदुराशया सामाजिकोद्यमक्षेते वैदेशिकसमवायाः प्रविशन्ति । अनेन भारतीयसामाजिकार्थिकव्यवस्थायां विपरीतपरिणामः भवति । रामदेवस्य भारतस्वाभिमानसंस्थया सञ्चालितं भारतदेशस्य भ्रष्टां व्यवस्थां विरुद्ध्य जनान्दोलनम् प्रवर्तते । देशस्य दारिद्र्यं दूरयितुम् एतत् प्रथमं सोपानं भवति । अस्याः संस्थायाः उद्देशं पूरयितुं देशे संस्कृतिविस्मृतिवतः सर्वान् अस्मिन् आन्दोलने योजयेत् । अनेन भारतं बलिष्ठं राष्ट्रं कर्तुं शक्यते इति रामदेवस्य दृढाभिप्रायः । शिक्षाव्यवस्थायाः विषये मुख्योद्देशद्वयम् अस्ति । आद्यः स्वदेशीया शिक्षा नाम भारतीयमूलतत्त्वयुक्ता विद्यादानव्यवस्था । अपरा स्वदेशीया वैद्यशिक्षा । इत्युक्ते भारतीयमूलतत्त्वयुक्ता वैद्यकीयशिक्षाव्यवस्था अनेतव्या । सर्वकारेण प्रादेशिकभाषाः आदरणियाः । भारतीयभाषाः सर्वकारीयव्यवहारस्य प्राथमिकभाषाः भवेयुः । एताभिः एव भाषाभिः न्यायाङ्गव्यवहारः शिक्षा सञ्चालनीया । हिन्दीभाषाभाषिकानां सङ्ख्या देशे अधिका अस्ति । समग्रे विश्वे एव चीनीभाषाभाषिकानां सङ्क्यायाः पश्चात् हिन्दीभाषिकाः एव सन्ति । तथापि देशे आङ्ग्लभाषायाः प्रामुख्यम् अस्ति हिन्दी द्वीतीयस्थाने एव अस्ति । इति विषये रामदेवः भारतसर्वकारस्य अवधानम् आकृष्टवान् । भारतदेशं विना अन्यः यः कोऽपि देशः स्वभाषां त्यक्त्वा विदेशभाषां नोपयोजयति ।

सलिङ्गरतिविरोधः[सम्पादयतु]

क्रि.श. २००९तमे वर्षे देहल्याः उच्चन्यायालयः भारते सलिङ्गरतिः अनपराधः इति निर्णयम् अश्रावयत् । तदा रामदेवः प्रसारमाध्यमानां पुरतः अयं निर्णयः अपराधं मानसिकास्वस्थ्यं च पोषयति । भारतस्य कुटुम्बव्यवस्थामेव उन्मूलयति । लज्जास्पदः अवमानकरः च विचारः एषः । विदेशीयानाम् अन्धनुकरणस्य फलमेतत्। इति बहुधा आक्षिप्तवान् । यदि सर्वकारः शासननियमं करोति तर्हि वीथ्यां विप्लवं करोमीति गर्जितवान् ।[६]

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • क्रि.श. २००७तमे वर्षे जनवरिमासे के.ऐ.ऐ.टि.विश्वविद्यालयः रामदेवायाय डाक्टरेट् गौरवपदम् अयच्छत् वेदविज्ञनयोगस्य जनप्रियतानिर्माणार्थम् ।[७]

उल्लेखाः[सम्पादयतु]

बाह्यानुबन्धा[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=बाबा_रामदेवः&oldid=279864" इत्यस्माद् पुनः प्राप्तिः