बालगङ्गाधरनाथस्वामी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्रीबालगङ्गाधरनाथस्वामी (१८जनवरी १९४५तः-१३ जनवरी २०१३) प्रमुखेषु धर्मिकगुरुषु अन्यतमः । कर्णाटके अत्यन्तं सुप्रसिद्धस्य आदिचुञ्चनगिरिमठस्य मठाधीशः बालगङ्गाधरनाथस्वामी सद्यः एव मकरसङ्क्रमणदिने विधिवशः अभवत् । संस्कृताभिमानिनः एतस्य कर्णाटकस्य शिक्षणक्षेत्रे महत् योगदानम् अस्ति । आदिचुञ्चनगिरिः कर्णाटकस्य मण्ड्यमण्डले अस्ति । २०१० तमे वर्षे भारतस्य तृतीयश्रेष्ठेन नागरिकसम्मानेन पद्मविभूषण्णेन एषः सम्मानितः आसीत् । आदिचुञ्चनगिरिमठद्वारा बहवः विद्यालयाः, चिकित्सालयाः, परिसरसंरक्षणाकेन्द्राणि, प्राणिसंरक्षणाकेन्द्राणि, वेदाध्ययनकेन्द्राणि, कृषिसाहाय्यककेन्द्राणि प्रचलन्ति । धार्मिकसामाजिकक्षेत्रेषु बालगङ्गाधरवर्यः अत्यन्तं सक्रियः आसीत् ।

"https://sa.wikipedia.org/w/index.php?title=बालगङ्गाधरनाथस्वामी&oldid=372923" इत्यस्माद् प्रतिप्राप्तम्