बालमुरलीकृष्णः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
डा. बालमुरलीकृष्णः
Bmk.JPG
व्यैक्तिकतथ्यानि
जन्मनाम मङ्गलम्पल्लि बालमुरलीकृष्णः
मूलतः सङ्करगुपटम्, गोदावरीपूर्वमण्डलम्, आन्ध्रप्रदेशराज्यम्
सङ्गीतविद्या कर्णाटकसङ्गीतम्
वृत्तिः शास्त्रीयसङ्गीतगायकः
सक्रियवर्षाणि क्रि.श. १९३८तः वर्तमानः ।



मङ्गलंपल्लि बालमुरली कृष्ण (M. Balamuralikrishna) कर्णाटकशास्त्रीयसङ्गीतस्य कश्चित् महागायकः, कृतिकारः वाद्यकारः च अस्ति। एतावताकालेन ४००अधिकाः कृतीः रचितवान् १८सहस्राधिकसङ्गीतगोष्ठीः सञ्चालितवान् । २५०अधिकाः सङ्गीतध्वनिमुद्रिकाः लोकाय प्रदत्तवान् ।

बाल्यं सङ्गीतसाङ्गत्यम्[सम्पादयतु]

डा. मङ्गळम्पल्लि बालमुरलीकृष्णः क्रि.श. १९३० तमे वर्षे जुलै मासस्य षष्टे दिनाङ्के आन्ध्रप्रदेशराज्यस्य गोदावरीपूर्वमण्डलस्य रोजुलु इति जनपदस्य सङ्करगुपन् इति ग्रामे अजायत । अस्य बाल्यनाम मुरलीकृष्णः इति । किन्तु तस्य ग्रामस्य प्रसिद्धः हरिकथाविद्वान् नारायणः मुरलीकृष्ण इति नाम्नः मूले बाल इति पदं योजितवान् । गृहे एव सङ्गीतवातावरणम् आसीत् । पिता पट्टाभिरामय्यः वंशीवीणाबाहुलीनावादकः । माता सूर्यकान्तम्मा श्रेष्ठा वीणावादिनी । बालमुरलीकृष्णः यदा पञ्चदशमे वयसि आसीत् तदा तस्य माता दिवङ्गता । अस्य पितृभगिनी एतं विजयवाडप्रदेशं नीत्वा स्वगृहे पोषितवती । बाल्यादारभ्य अस्य पिता सङ्गीतस्य प्राथमिकगुरुः । पितुः सङ्गीतासक्तिः पुत्रम् अपि प्रभावितवती । पिता सङ्गीताक्त्याः उत्तुङ्गे विद्यमानं पुत्रं सुसर्ल दक्षिणामूर्तिः इत्यस्य आश्रये सङ्गीतम् अध्येतुम् न्यस्तवान् । कतिपयेषु एव वर्षेषु बालमुरलिकृष्णः ७२रागान् वीतवान् । क्रि.श. १९६० तमे वर्षे विजयवाडस्य आकाशवाणीकेन्द्रस्य भक्तिरञ्जिनी इति प्रातःकालस्य कार्यक्रमे गीतमालाम् आरभ्य बहुजनप्रियः अभवत् ।

प्रयोगशीलः[सम्पादयतु]

सङ्गीतविद्वान् बालमुरलीकृष्णः कर्णाटकसङ्गीतस्य मेरुगायकः । रागस्य तालस्य गानस्य पल्लव्याः च नूतनप्रयोगानां जनकः । भारतदेशस्य महत्सु वाग्गेयकारेषु अन्यतमः । देशविदेशेषु अनेकाः सङ्गीतगोष्ठीः समचालयत् । तेलुगुभाषा, संस्कृतभाषा, कन्नडभाषा, तमिळुभाषा, मलयाळभाषा, इत्यादिषु भाषासु शास्त्रीयतगीतानि गीतवान् । अपि च एतासु भाषासु चलच्चित्रगीतानि अपि गीतवान् सम्भाषणस्य कण्ठदानं च कृतवान् । क्रि.शा. १९३८ तमे वर्षे प्रचालिते सद्गुर्वाराधनामहोत्सवे स्वस्य प्रथमसङ्गीतगोष्ठीं प्रदर्शितवान् । तदा अस्य आयुः केवलं ८वर्षाणि । गानम् अतिरिच्य बाहुलीनां, खञ्जिरं, वंशीं सन्तोषेण वादयति स्म । विजयवाडस्य सर्वकारीयसर्ङ्गीतविद्यालयस्य प्राम्शुपालत्वेन सेवाम् अकरोत् । अभिनये निपुणः नैव किन्तु वाग्गेयकारः, कविः, सर्वदा नूतनस्य संशोधकः। स्विट्ज़र्ल्याण्ड् देशे Academy of Performing arts & Research इति संस्थाम् अस्थापयत् । कलासंस्कृतीनाम् अभिवृध्यर्थे मद्रास्(चेन्नै) नगरे एम्.बि.के.ट्रस्ट् इति संस्थाम् आरभ्य तया सङ्गीतनृत्यशालां सञ्चालयति । 'सन्ध्या केन्दिन सिन्धूरम्' इति मलयाळभाषाचलच्चित्रे प्रमुखभूमिकां निरूढवान् । सङ्गीतेन सह अस्य प्रियतरः वि़षयः नाम सुग्रासभिजनं मन्दं दीर्घकालपर्यन्तं कर्तुम् अस्य मनः इच्छति । अन्नसारयोः भोजनम् अतीव प्रियतरम् । भर्जितभक्ष्यानि, पयोहिमः इत्यादीनि अपि प्रियाणि ।

=प्रियं मनोरञ्जनम्[सम्पादयतु]

गृहे बालैः सह खेलनम्, दूरदर्शनवाहिनिषु कार्यक्रमाणां वीक्षणम्, विदेशगमने धननिष्कानि उपयुज्य सभिकक्रीडा, इत्यादीनि बालमुरलीकृष्णस्य प्रियानि सद्व्यसनानि ।

सङ्गीतमेव मुख्यव्यसनम्[सम्पादयतु]

बालमुरलीकृष्णः अपूर्वान् नूतनरागान् संयोजितवान् । पूर्वं पञ्चस्वरैः विना रागः न रञ्जयति इति सम्प्रदायः आसीत् । एतत् अतिरिच्य त्रयाणां चतुर्णां वा स्वराणां रागान् गीतवान् । अस्य कानिचन रागरचनानि एवं सन्ति । महती, सुमुखम्, त्रिशक्तिः, सर्वश्रीः, ओङ्कारी, जनसम्मोदिनी, मनोरमा, रोहिणि, वल्ल्भी, लवङ्गी, सुसमः इत्यादयः । बालमुरलीकृष्णः काश्चन नूतनकृतीः अपि रचितवान् सङ्गीतस्य नूतनकन्तिं, चिकित्सां च कुर्वन् शोधितवान् । वर्णं तिल्लानविष्यकं सूर्यकान्तिः इति रचनस्य विषये चतृसु भाषासु शोधग्रन्थाः सन्ति । बेङ्गळूरुमहानगरस्य गायनसमाजः इति सभाङ्गणे आयोजिते भक्तिभारतीप्रतिष्ठानस्य " पुरन्दरदसोत्सवे " सङ्गीतगोष्ठीं प्रदर्शितवान् । एषः न केवलं भारतम् अमेरिका, केनडा, इटलि, फ्रान्स्, रष्या, श्रीलङ्का, मलेष्या, सिङ्गपुर, इत्यादिषु देशेषु २०सहस्राधिकाः सङ्गीतगोष्ठीः प्रदर्शितवान् । शताधिकाः गीतगुच्छानां ध्वनिमुद्रिकाः लोकार्पिताः । अनेन स्वरनिबद्धाः महादेवसुतं, श्रीसकलगणाधिप, गङ्गणपते इत्यादयः कृतयः बहुजनप्रियाः सन्ति ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=बालमुरलीकृष्णः&oldid=277719" इत्यस्माद् पुनः प्राप्तिः