बालोत्सवः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Bundesarchiv Bild 183-61849-0001, Indien, Otto Grotewohl bei Ministerpräsident Nehru cropped.jpg

श्री जवाहरलालनेहरुः भारतस्य प्रथमप्रधानमन्त्री आसीत् । महान् देशभक्तः श्रेष्ठलेखकः पण्डितः जवहारलालनेहरुः बालैः सह सदा वार्तालापं करोति स्म । बालान् प्रति प्रीतिं दर्शयति स्म । अत एव नायकाः श्री जवाहरलालमहोदयस्य जन्मदिनं तस्य इच्छानुसारेण बालदिनम् इति आचरन्ति ।

जन्म बाल्यं च[सम्पादयतु]

पण्डितजवाहरलालनेहरुः १८८९ तमे वर्षे नवम्बरमासस्य १४ तमे दिने जन्म प्राप्तवान् । अलहाबाद नगरे प्रख्यातः न्यायवादी श्री मोतिलालनेहरुः पण्डित जवहारलालनेहरु महोदयस्य पिता । माता च स्वरूपराणी इति । नेहरुपरिवारस्य गृहं राजगृहमिव आसीत् । आनन्दभवनमिति तस्य नाम । तत्र श्री जवहारलालनेहरुः राजकुमारः इव आसीत् । श्रीमोतिलालनेहरुः अतीव कुशलः अपि आसीत् । अतः बाल्ये शिक्षकः बालकजवाहरलालनेहरुं गृहे एव पाठयितुं नियोजितः आसीत् । जवाहरलालनेहरुमहोदयस्य विजयलक्ष्मी कृषा इति च सोदर्यो स्तः । आङ्गलभाषाबोधनार्थम् एकः आङ्गलशिक्षकः आसीत् । तस्य नाम फर्डिनेण्ट ब्रुक्स । एषः जवाहरलालमहोदयाय बाल्ये एव पठनासक्तिं वर्धितवान् । माता च रामायणमहाभारतकथाः वदति स्म । कथाश्रवणं जवाहरलालाय अतीव इष्टम आसीत् । मुन्शी मुबारक अली नामकेन सेवकेन जवाहरलालनेहरुः स्वातन्त्र्यवीराणां देशभक्तानां विषये ज्ञातवान्। एतेन बालये एव आङ्गलानां सर्वकारविषये तस्य मनसि कोपः समभवत्। भारतस्य दास्यताविषये अपि सः ज्ञातवान् ।

विदेशे शिक्षणम्[सम्पादयतु]

पञ्चदशे वयसि जवाहरलालः विद्याभ्यासार्थम् इङ्ग्लण्डदेशं गतवान् । तत्र ह्यारो विद्यालये प्रौढशिक्षणं प्राप्तवान् । अनन्तरं ट्रिनिटिमहाविद्यालये रसायनशास्त्रं सस्यशास्रं भूगर्भशास्त्रम् च एतैः साकम् इतिहास- अर्थशास्त्र-राजनीतिशास्त्रमपि अधीतवान् । १९१० तमे वर्षे पदवीधरः सञ्जातः । १९१२ तमे वर्षे न्यायशास्त्रे च पदवीं प्राप्तवान् । भारतस्य दास्यतां चिन्तयन् रुष्टः भवति स्म । इटलीदेशस्य स्वातन्त्र्यवीरस्य ग्यारीबाल्डी महोदयस्य जीवनचरित्रं पठन देशभक्त्या जागरितः जवाहरलालनेहरुः अखिलभारतीयकाङ्ग्रेससंस्थां प्रविश्य स्वात्न्त्र्यान्दोलने भागं स्वीकर्तुं पित्रा प्रार्थितः ।

जीवनम्[सम्पादयतु]

१९१६ तमे वर्षे जवाहरलालनेहरुः मेलकौलराजपतिदेवीदम्पत्योः सुतां कमलां परिणीतवान् । १९१७ तमे वर्षे जवाहरलालनेहरुमहोदयस्य प्रथमा पुत्री सञ्जाता । इन्दिराप्रियादर्शिनी इति तस्याः नाम कृतवान् । श्रीमोतिलालनेहरुमहोदयस्य सुतस्य राजकीयप्रवेशः इष्टः न आसीत् । १९१९ तमे वर्षे जवाहरलालनेहरुः बार एटला पदवीं प्राप्य अलहाबादश्रेष्ठन्यायालये न्यायवादिवृत्तिम् आरभ्य अग्रे महात्मागान्धिनः प्रभावात् भारतीय- स्वातन्त्र्यान्दोलनम् प्रविष्टवान् ।

स्वातन्त्र्यान्दोलने भागः[सम्पादयतु]

बालेभ्यः मधुरं वितरन् जवाहारलालनेहरू

बालगङ्गाधरतिलकमहोदयस्य श्रीमती अनिबेसेन्टमहोदयायाःहोमरुललीग् आन्दोलने जवहरलालनेहरुः अपि प्रविष्टवान् । अनन्तरं न्यायवादिवृत्तिं त्यक्त्वा पूर्णतया स्वातन्त्र्यान्दोलनकार्येषु तत्परः अभवत् । श्री मोतिलालनेहरुः अपि होमरुललीगआन्दोलने भागं स्वीकृतवान् अस्य आन्दोलनप्रवेशस्य मुख्यं कारणं जलियनवालाबागहत्याकाण्डः । १९२० तमे वर्षे श्री मोतीलालनेहरुः न्यायवादिवृत्तिं त्यक्त्वा स्वातन्त्र्यान्दोलने एव कार्यं कृतवान् । १९२० तमे वर्षे असहकारान्दोलनं विदेशिवस्त्राणां बहिष्कारः विदेशीवस्त्राणां सार्वजनिकस्थलेषु दाहनम् इत्यादिकार्यक्रमाः प्राचलन् । अनेके वीराः बन्धिताः अभवन् । श्री जवहारलालनेहरुः श्रीमोतिलालनेहरुः १९२१ तमे वर्षे लखनौकारागृहे आस्ताम् । तत्रैव तन्तुनिर्माणं पठनम् एतयोः कार्याणि अभवन् । १९२२ तमे आन्दोलनं स्थगितम् अभवत् । तदा जवाहरलालनेहरुः कारावासात् बहिः आगतवान् । श्री जवहारलालनेहरुः १९२३ तमे वर्षे अलहाबादनगरसभाध्यक्षः अभवत् । श्रीमती कमलानेहरुः अपि उत्तमकार्याणि कृतवती । अलहाबादमहिलाकाङ्ग्रेसनायिका भूत्वा अनेक कार्याणि कृतवती । १९२४ तमे वर्षे श्रीजवाहरलालनेहरुः अखिलभारतीयकाङ्ग्रेससंस्थायाः कार्यदर्शी इति नियुक्तः । सङ्घटनाचतुरः श्री जवाहरलालनेहरुः ब्रिटन-फ्रान्सइत्यादि देशेषु सञ्चरन् तत्रत्यानां देशभक्तानां मेलनं कृतवान् । पुनः भारतम् आगत्य युवजनान् अधिकतया कार्यकरणे आकर्षितवान् । १९२८ तमे वर्षे कोलकतानगरे काङ्ग्रेस-अधिवेशनमभवत् । तस्मिन् समये श्रीमोतिलालनेहरुः आनन्दभवनं देशहिताय काङ्ग्रेस्ससंस्थायै दातुं निश्चितवान आसीत् । एवम् आनन्दभवनं स्वातन्त्र्यप्रियाणां कार्यणां केन्द्रस्थानम् अभवत् । १९२१ तमे वर्षे लाहोरनगरे काङ्ग्रेस-अधिवेशनं अभवत् । तत्र रावीनदीतीरे भारतीयत्रिवर्णध्वजस्य आरोहणं कृत्वा ‘पूर्णं स्वातन्त्यम् अस्माकम् उद्देशः “ इति जवाहरलालनेहरुः मध्यरात्रिसमये घोषितवान् लाहोर -अधिवेशनम् अग्रे महत्वपूर्णकार्याणाम् आधारः अभवत् । १९३० तमे वर्षे लवणसत्याग्रहे श्रीजवाहरलालनेहरुः साबरमतितः दण्डिपर्यन्तं पादयात्रायां भागं स्वीकृतवान् ।शासनभङ्गकारणात् नेहरुः नैनितालकारवासे प्रविष्टः अभवत् । १९३६ तमे वर्षे अखिलभारतकाङ्ग्रेससंस्थायाः नेहरुः एव अध्यक्षः अभवत् । किन्तु अनारोग्यात् श्रीमतीकमलानेहरुः दिवङ्गता अभवत् । जवाहरलालनेहरुः एकाकी दुःखितः आसीत् अल्मोडा कारागृहे स्थितः नेहरुः स्वात्मचरितं लिखितवान् । १९३६ तमे वर्षे प्रवृत्ते निर्वाचने सप्तराज्येषु काङ्ग्रेसबहुमतम् प्राप्य अधिकारं प्राप्नोत् । द्वितीयविश्वयुद्धं १९३९ तमे वर्षे आरब्धम्। एतेषु त्रिषु वर्षेषु आङ्गलसर्वकारः उत्तमं कार्यं किमपि अकृत्वा , स्वातन्न्न्यप्रदानविषयेऽपि निर्लिप्तः अभवत् । १९४२ तमे वर्षे पुनः भारते ‘भारतं त्यजत ’ आन्दोलनम् आरब्धम् । तदा गान्धिजिः ‘कर्तव्यं कुरुत अथवा मरणं स्वीकुरुत’ इति घोषितवान् । अस्मिन् समयेऽपि जवहरलालनेहरुः अनैकैः नायकैः सह बद्धः अभवत् । १९४५ तमवर्षपर्यन्तम् अहमदनगरदुर्गे कारावासम् अनुभवन् दीर्घकालं यावत् नेहरुः तत्रैव अवसत् । एतस्मिन् काले एव जवाहरलालनेहरुः डिस्कवरी आफ् इण्डिया । पुस्तकं लिखितवान् । भारतीय- इतिहासं स्पष्टतया अत्र दर्शितवान् अस्ति ।‘अनेन विश्वे प्रख्यातेषु लेखकेषु नेहरु अन्यतमः इति प्रसिद्धः अभवत् । श्री जवाहरलालनेहरुः इन्दिराप्रियदर्शिनीं प्रति यानि पत्राणि प्रेषितवान् तत्र मार्गदर्शनं कृतवान् अस्ति । एतानि पत्राणि अपि ‘लेटर्स् टु इन्दिरा ‘इति प्रसिध्दानि सन्ति । कारागृहादेव प्रेषितानि एतानि पत्राणि । १९४७तमवर्शस्य आगस्ट१५ तमे दिने मध्यरात्रे अन्तिमः वायिसरायः लार्ड मौण्टब्याटन् महोदयः नियमानुसारं प्राशासनिकाधिकारं हस्तान्तरितवान् । तदा एव पाकिस्तानदेशः अपि स्वतन्त्रः अभवत् । श्री जवहरलाल नेहरुः स्वतन्त्र भारतस्य प्रथमप्रधानमन्त्री अभवत् ।सरदारवल्लभभायीपटेलः उपप्रधानमन्त्री अभवत् । श्री पटेलमहोदयः संस्थानानां भारते विलीनीकरणार्थम् उत्तमं कार्यं कृतवान् । ततः १९५० तमे वर्षे जनवरी मासस्य२६ तमे दिने भारतदेशः स्वतन्त्र्यगणराज्यम् इति घोषितः अभवत् । भारतीयसंविधानं च रचितम् अभवत् । १९४८ तमे वर्षे महात्मा गान्धिनः हत्या अभवत् । भारते अनक्षरता दारिद्र्यं निरुद्योगः शिक्षासमस्यादि बहुसमस्याः आसन् । देशस्य अभिवृद्धिकार्यार्थं पञ्चवर्षिकयोजना आरब्धा अभवत् । भारतदेशः शान्तिप्रियदेशः अतः पञ्चतत्वानि अङ्गीकृतानि अभवन् । शान्तियुतं जीवनम् , आक्रमणनिरोधः समानताहितरक्षणं , आन्तरिकव्यवहारेषु अन्यदेशस्य हस्तक्षेपनिरासः, परस्परं गौरवः परमाधिकारश्च पञ्चतत्वानि । श्री जवहरलालनेहरुः स्वाधिकारसमये जनेभ्यः ”आराम हराम है” इत्यवदत । कार्येषु प्रवृत्ताः भवन्तु इति च मार्गदर्शनं कृतवान् । कलासाहित्यप्रियः इतिहासज्ञः धीरनायकः श्री जवाहरलालनेहरुः सततं १७ वर्षाणि यावत् भरतस्य प्रधानमन्त्रिस्थाने कार्यं कृतवान् । विविधकार्यार्थं देशे सञ्चरन् श्रीजवाहरलालनेहरुः प्रथमतः बालान् दृष्ट्वा शुभाशयं वदति स्म । पाटलपुष्पं सर्वदा तस्य वस्त्रे धरति स्म । एतस्य पुत्र्याः विवाहः श्री फिरोजगान्धिमहोदयेन साकं अभवत् । सञ्जयः राजीवः च पौत्रौ । श्रेष्ठनायकः सन् अपि सः गृहे श्रेष्ठपिता श्रेष्ठः पितामहः इति ख्यातः अभवत् । श्री जवहरलालनेहरुः महाभागः भारतरत्नप्रशास्त्या पुरस्कृतः । १९६४ तमे वर्षे पार्श्ववायुरोगपीडितः श्रीजवाहरलालनेहरुः दिवङ्गतः अभवत् । देशे सर्वत्र जनाः दुःखिताः अभवन्। श्रीजवाहरलालनेहरुमहोदयस्य जन्मदिनं बालदिनमिति आचरन्ति । तद्दिने बालानां हितार्यं कार्यक्रमान् आयोजयन्ति । देशे सर्वत्र बालानां योगक्षेमार्थम् उत्तमजीवननिर्माणार्थं च प्रोत्साहनं दीयते । बालैः सह हसन् बालानां हितमिच्छन ’चाचा निहरु’(पितृव्यः) इति ख्यातेन श्री जवाहरलालमहोदयेन दर्शितमार्गे इदानीमपि कार्यक्रमाः भवन्ति । श्रीजवाहरलालनहरुमहोदयस्य आदर्शमयजीवनं सर्वभारतीयानामपि अनुसरणयोग्यं गौरवयोग्यं च अस्ति इत्यत्र सन्देहः नास्ति ।

"http://sa.wikipedia.org/w/index.php?title=बालोत्सवः&oldid=234181" इत्यस्माद् पुनः प्राप्तिः