बाळासाहेब ठाक्रे

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
बाळ ठाक्रे

हिन्दुत्वस्य प्रतिपादकः, महाराष्ट्रवादी नायकः एषः बाळठाक्रे नाम्ना प्रसिद्धः अस्ति । अस्य जन्म १९२६ तमवर्षस्य जनवरीमासस्य २३ दिनाङ्के अभवत् । स्वस्य विचाराणाम् उपस्थापनार्थं १९६६ तमवर्षस्य जूनमासस्य नवदशदिनाङ्के शिवसेनानामकं राजकीयदलम् आरब्धवान् । एतस्य पिता केशवठाक्रे सामाजिककार्यकर्ता तथा प्रगतिपरः लेखकः आसीत् । महाराष्ट्रस्य एकीकरणस्य आन्दोलने सक्रियः आसीत् । हिन्दुत्वस्य प्रादेशिकतायाः च विषये तीव्रम् आग्रहवान् बाळासाहेबः एतयोः विषये निरन्तरं जनान् प्रेरयन् सङ्घटनस्य बलम् वर्धितवान्। महाराष्ट्रे भारतीयजनतापक्ष-शिवसेनयोः संयुक्तसर्वकारस्य रचनायाम् एतस्य महत् योगदानम् अस्ति । २०१२ तमवर्षस्य नवम्बरमासस्य १७ दिनाङ्के मुम्बयीनगरे दिवङ्गतः । अस्य अन्त्यक्रियायां सम्मिलितः ऐतिहासिकः २०लक्षात्मकः जनसागरः एतस्य जनप्रियतां द्योतयति ।