बिज्जलः-२

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पेर्माडिराजस्य सुतः बिज्जलः-२ कल्याणीचालुक्यानां सिंहासनाधिकारं वशीकृत्य स्वयं राज्यभारकार्यमारब्धवान् ।

क्रिस्ताब्द ११५६ तः ११६७ वर्षसमये कलचूर्यवंशियानाम् प्रसिद्धराजः इति ख्यातः आसीत् । अस्य प्रशासनकाले बसवेश्वरः सामाजिकधार्मिकक्रान्तिं कृतवान् । एतेन कार्येण कर्णाटकराज्ये जनजागृतिः अभवत् । जनाः नवचैतन्यं लब्धवन्तः । कन्नडभाषायां सार्वजनिकानां विपुलं साहित्यनिर्माणम् अभवत् । एतत् वचनसाहित्यमिति अग्रे नाम प्राप्य जनप्रियम् अभवत् । बसवेश्वरः द्वीतीयबिज्जलस्य भाण्डाराधिकारी आसीत् ।

अन्तर्जातीयविवाहकरणात् राज्ये क्रान्तिः अभवत् । द्वितीयबिज्जलेन सह विमनस्कः बसवेश्वरः स्वाधिकारं त्यक्त्वा कूडलसङ्गमक्षेत्रं गतवान् । बसवेश्वरस्य अनुयायिभिः शिवशरणैः बिज्जलः-२ बहुमानितः अभवत् । राजा बिज्जलः-२ समर्थः शूरः युद्धपरिणतः आसीत् । अनेकमन्त्रिणां दण्डनायकानां बलं द्वितीयबिज्जलस्य आसीत् । माण्डलिकान् नियन्त्र्य राजा बिज्जलः-२ स्वपरमाधिकारं स्थापितवान् । हानगलप्रदेशे कदम्बान् पोम्बुर्चदेशीयान् शान्तारजनान् । धार्मिके संस्थानाम् उदारतया दानम् अकरोत् । कलचूर्यचक्रवर्ती शनिवारसिद्धिः गिरिदुर्गमल्लः इत्यादिभिः उपाधिभिः प्रसिद्धः आसीत् ।

"https://sa.wikipedia.org/w/index.php?title=बिज्जलः-२&oldid=369535" इत्यस्माद् प्रतिप्राप्तम्