बिधाचन्द्रः रायः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
बिधाचन्द्रः रायः

बिधाचन्द्रः रायः
जननम् क्रि.श. १८८२तमवर्षस्य जुलैमासस्य प्रथमदिनम् ।
बङ्किपुर, पाट्ना, बिहारराज्यम्
मरणम् क्रि.श. १९६२तमवर्षस्य जुलैमासस्य प्रथमदिनम् ।
कोलकता, पश्चिमबङ्गालराज्यम्
राष्ट्रियता भारतीयः
शैक्षिकयोग्यता कोलकोतानगरस्य प्रेसिडेन्सी विद्यालयः
पाटनामहाविद्यालयः
रायल् छालेञ्ज् आफ् फिजिसियन्स् (M.R.C.P.)
फेल्लो आफ् रायल् कालेज़् आफ् सर्जन्स्(F.R.C.S.)
वृत्तिः वैद्यः
स्वातन्त्र्ययोद्धा
राजनीतिज्ञः
धर्मः हिन्दुधर्मः
मातपितरौ (माता)
(पिता)

भारतरत्नप्रशस्तिः भारतरत्नप्रशस्त्या भूषितः बिडानचन्द्रः रायः M.R.C.P., F.R.C.S.(जीवितकालः - क्रि.श. १८८२तमवर्षस्य जुलैमासस्य प्रथमदिनतः क्रि.श. १९६२तमवर्षस्य जुलैमासस्य प्रथमदिनपर्यन्तम्) एषः भारतस्य पश्चिमबङ्गालराज्यस्य द्वितीयः मुख्यम्नती अभवत् । अस्मिन् पदे भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य प्रतिनिधित्वेन १४वर्षाणि सेवाम् अकरोत् । आमरणम् एषः सङ्घटनस्य सेवां कृतवान् । वृत्त्या अत्यन्तं बहुमानितः वैद्यः आसीत् । अपिच प्रख्यातः भारतस्वान्त्रन्त्र्यादोलनस्य योद्धा आसीत् । पश्चिमबङ्गालराज्यस्य श्रेष्ठः शिल्पिः इत्यपि जना सम्बोधयन्ति स्म । राज्येऽस्मिन् कल्याणि तथा बिधान इति नगरद्वयस्य सृष्टा अपि एषः एव । कोलकता विश्वविद्यालयस्य पूर्वविद्यार्थी अपि । F.R.C.S. तथा M.R.C.P प्रणालीं द्विवर्षमासत्रेषु समापितस्य विरलजनेषु अयम् अन्यतमः अस्ति । अस्य जन्मनः मरणस्य दिनाङ्कः समानः अस्ति । अतः तत् जुलैप्रथमदिनं राष्ट्रियवैद्यदिनत्वेन आचर्यते । डा. बिधानचन्द्ररायः पाट्नानगरे विद्यमानां स्वसम्पत्तिम् अवलम्ब्य किञ्चित् विश्वस्थसङ्घटनं सामाजिककार्यार्थं रचितवान् । श्रेष्ठराजनीतिज्ञं गङ्गाशरम् सिन्हा इत्येनं संस्थायाः निर्वहणार्थं नियोजितवान् ।[१]अयं भारतस्य सर्वशेष्टनागरिकपुरस्कारं भारतरत्नप्रशस्तिं क्रि.श. १९६१तमवर्षस्य फेब्रवरिमासस्य चतुर्थे दिने अलभत ।[२]एषः ब्रह्मसामाजस्य कश्चन सदस्य अपि आसीत् ।

बाल्यं शिक्षा च[सम्पादयतु]

बिधानचन्द्रः रायः क्रि.श. १८८२तमे वर्षे जुलै मासस्य प्रथमे दिने बिहाररज्यस्य पाट्नानगरे बि.एम्.दासमार्गे बङ्किपुरेति स्थाने अजायत । अस्य पिता प्रकाशचन्द्रः कश्चित् सर्वकारीयः करग्रहणाधिकारी । बिधानचन्द्रः अस्य पितुः पञ्चापत्येषु कनीयः पुत्रः । स्वपित्रोः सरलता, अनुशासनम्, कारुणेन अतीव प्रभावितः पुत्रः । अस्य पितरौ न केवलं स्वजनेषु वात्सल्य कारुण्यं किन्तु सर्वजनेषु अपि अस्य भावः तथैव यथा भवेत तथा संस्कारं दत्तवन्तौ । अस्य चतुर्दशमे वयसि अस्य माता दिवङ्गता । अस्य पिता पञ्चापत्यानां माता पिता च सन् कर्तव्यम् अकरोत् । कस्यचितदपि कार्यं कर्तुम् आग्रहं न कृतवान् किन्तु लक्ष्यप्राप्तेः मार्गम अवश्यं दर्शितवान् । पञ्चापत्यानि अपि स्वकार्याणि स्वयं कुर्वन्ति स्म । एषः अभ्यासः बिधानस्य महाविद्यालयीये जीवने सहायः अभवत् । बिधानः ऐ.ए.परीक्षां कोलकतानगरस्य प्रेसिडेन्सीमहाविद्यालये स्नातकपदवीं पाट्नानगरस्य महाविद्यालये गणितविषये अग्रगण्यः सन् समापितवान् । पश्चात् प्रवेशार्थं बेङ्गाल् अभियन्तृमहाविद्यालये कोलकतावैद्यकीयमहाविद्यालये च आवेदनपत्रं दत्तवान् । उभयत्र अवकाशः प्राप्तः कुन्तु एषः वैद्यकीयमहाविद्यालयमेव प्रविष्टवान् । एषः क्रि.श. १९०१तमे वर्षे जून् मासे कोलकतानगरम् आगतवान् । तत्र भित्तौ लिखितेन Whatever thy hands findeth to do, do it with thy might इति वाक्येन नितरां प्रभावितः अभवत् । अपि च एतदेव वाक्यम् अस्य आजीवनं चलनपथस्य कारणम् अभवत् । अस्य वैद्यकीयविद्याभ्यासकालः अतीव परिश्रमयुतः अभवत् । यदायं प्रथमवर्षे पठन् आसीत् तदा अस्य पितुः उपमण्डलाधिकारित्वात् निवृत्तः अभवत् । अनेन पिता बहुदिनानि धनं प्रेषयितुम् अशक्तः अभवत् । बिधानः विद्याप्रित्साहधनं प्राप्नोति स्म । तस्य व्ययविषये सर्वदा जागरितः भवति स्म । पुस्तकानि न क्रीत्वा ग्रन्थायस्य पुस्तकानि एव पठति स्म । अस्य महाविद्यालयस्य अध्ययनकाले एव बङ्गलराज्यस्य विभजनम् अभवत् । तद्विभजनं विरुद्ध्य लाला लजपत रायः, अरविन्द घोषः, बालगङ्गाधर तिलकः, बिपिनचन्द्रपालः इत्यादयः नेतारः आन्दोलनं सङ्घर्षाः चाभवन् । बिधानः पूर्णप्रमाणेन अस्मिन् आन्दोलने भागी भवितुम् इच्छति स्म किन्तु अध्ययनं संलक्ष्य आवेशं नियन्त्र्य विप्लवे न पतितवान् ।

वृत्तिजीवनम्[सम्पादयतु]

बिधानचन्द्रराय चिकित्सालयः

बिधानचन्द्ररायः स्वस्य विद्यार्जनस्य समाप्तेः पश्चात् प्रान्तीयारोग्यकेन्द्रे उद्योगं प्राप्तवान् । अत्र बहुधा परिश्रमेण अनुपममोपलब्धिं सम्पादितवान् । अत्र एषः औषधानां निर्देशनं ज्ञातवान् । कदाचित् अनुवैद्या इव रोगिणाम् सेवामपि अकरोत् । विरमकाले जनेभ्यः वैद्यसेवाम् ददाति स्म । प्रतिफलरूपेण केवलं रूप्यकद्वयं स्वीकरोति स्म । बिधानः केवलं १२००रूप्यकाणियुक्तः क्रि.श. १९०९तमे वर्षे इङ्ग्लेण्ड्देशस्य सेण्ट् बार्थोलोमेव्स् इति वैद्यमहाविद्यालये उन्नतशिक्षाप्राप्तये आवेदनपत्रं विनिवेषयितुं गतवान् । किन्तुः तत्रस्थः मुख्यस्थः एषियाखण्डस्य विद्यार्थिनः अस्य आवेदनं तिरस्कृतवान् । अनेन डा.बिधानचन्द्रः अविचलितः ३०वारम् आवेदनं समर्पितवान् । अनिवार्यरूपेण मुख्याधिकारी बिधानचन्द्रं छात्रत्वेन स्वीकृतवान् । केवलं वर्षद्वयोत्तरमासत्रये M.R.C.P. तथा F.R.C.S प्रणाली समाप्य इङ्ग्लेण्ड्तः क्रि.श. १९११तमवर्षे स्वादेशमागतवान् । पश्चात् कोलकता वैद्यकीयमाहाविद्यालये, क्यम्प्बेल् वैद्यकीयशालायां, कार्मिकलवैद्यकीयमहाविद्यालये च बोधनवृत्तिम् आरब्धवान् । स्वाराज्यस्य परिकल्पयाः साकारः प्रजासु मानसिकदैहिकदृढतायाः पूरणेन विना न सम्भवति इति विश्वस्तः आसीत् । एषः वैद्यकीयक्षेत्रे अस्मिन् विषये एव योगदानमकरोत् । लोकसेवार्थं जादवपुरे टि.भि.चिकित्सालयः, चित्तरञ्जनसेवासदनम्, आर्.जि.कर् वैद्यकीयमहाविद्यालयः, कमलानेहरुवैद्यालयः, विक्ट्रियासंस्था, चित्तरञ्जनार्बुदरोगवैद्यालयः इत्यादीन् निर्मितवान् । केवलं महिलानां कृते एव पृथक् वैद्यालयं लोपार्पितवान् । पूर्वं महिलाः वैद्यालयम् आगन्तुं भीताः भवन्ति स्म । किन्तु डा. बिधानचन्द्रस्य वात्सल्यपूर्णोपदेशेन क्रमेण चिकित्सां प्राप्तुम् आगच्छन्ति स्म । सर्ववर्गस्य मतस्य कुलस्य च महिलाः अत्र चिकित्सिताः भवन्ति स्म । क्रि.श. १९४२तमे वर्षे रङ्गून् प्रदेशः जपानीयानाम् आक्रमणस्य विस्फोटेन बाधितः । तेषां विप्लवेन कोलकता सम्पूर्णतया निर्नाम भवेदिति भीतिः उत्पन्ना । तदा डा.बिधानचन्द्रः कलकताविश्वविद्यालयस्य उपकुलपतिरिति सेवां करोति स्म । अध्ययनस्य बाधां निवारयितुं महाविद्यालस्य चालं परिवर्तयितुं सूचितवान् येन वैमानिकाक्रमणात् विमोचनं शक्यते । एतादृशं महत्कार्यं परिगणय्य एतस्मै डाक्टरेट् आफ् सैन्स् उपाधिं प्रायच्छन् ।

आदर्शचिन्तनम्[सम्पादयतु]

युवानः एव देशस्य निर्मातरः डा. बिधानचन्द्रस्य अटलः विश्वासः आसीत् । युवनः गतानुगतिको लोकः इति नानुकुर्वन्तः संक्षोभेषु भागं न स्वीकुर्युः । सामाजोत्थानस्य कार्येषु निरताः भवेयुः इति आशयः आसीत् । क्रि.श. १९५६तमे वर्षे डिसेम्बर् मासस्य पञ्चदशे दिने लक्नौविश्वविद्यालये सभाम् उद्दिश्य भाषमाणः मम युवमित्राणि भवन्तः एव स्वतन्त्रसङ्घर्षस्य सैनिकाः, सर्वदा सङ्घर्षः अभ्यर्थनार्थं,भीतिमुत्पादयितुम्, अपराधिभावं दूरयितुं च भवति । प्ररिश्रमेण विना फलं नास्ति । देशार्थं स्वार्थं परित्यज्य सङ्घर्षयामः । धैर्येण दृढविश्वासेन च भवन्तः अभिगच्छान्ति इति मे विश्वासः इति उक्तवान् । डा.बिधाचन्द्रः महात्मागान्धेः मित्रं वैद्यः चासीत् । भारतं त्यक्त्वा गच्छतु इति आन्दोलस्य अवसरे क्रि.श.१९३३ गन्धिः पुणेनगरस्य पर्ण्कुटिवैद्यालये डा.बिधनचन्द्रेण चिकित्सितः । किन्तु गान्धिः तानि औषधानि वेदेशनिर्मितानि इति तत् स्वीकर्तुम् निराकृतवान् । गान्धिः डा.बिधानचन्द्रम् उद्दिश्य अवदत् वैद्यवर्य किमर्थं भवता अहं सेवनीयः ? अस्माकं देशवासिनः चत्वारदशलक्षजनान् सेवितुं भवान् शक्नोति वा ? इति । तदा डा.बिधानचन्द्रः एवं प्रत्युत्तरं दत्तवान् गान्धिमहोदय अहं मोहनदास करमचन्द गान्धिं सेवितुं नागतवान् । चत्वारदशलक्षजनान् अपि सेवितुं मया न शक्यते । किन्तु चत्वारदशलक्षजनानां नेत्रारम् उपचर्तुम् आगतः अस्मि इति । तदा गान्धिः मौनेन औषधोपाचारं स्वीकृतवान् ।

राजनीतिप्रवेशः[सम्पादयतु]

डा. बिधनचन्द्रः क्रि.श. १९२५तमे वर्षे राजनीतिं प्रविष्टवान् । बङ्गालस्य विधानसभानिर्वाचने स्वतन्त्राभ्यर्थी सन् बारक्पुरस्य् अक्षेत्रे अटितवान् । बङ्गलस्य प्राचीनप्रसिद्धं वृद्धं सुरेन्द्रनाथ ब्यानर्जी इत्येनं अभ्यर्तिनं पराजितं कृतवान् । पक्षेतराभ्यर्थी सन् अपि काङ्ग्रेस् पक्षेण प्रोत्साहितः आसित् । एषः क्रि.श. १९२८तमे वर्षे भारतीयकाङ्ग्रेस् समितौ सदस्यत्वेन चितः । पदोन्नत्याः प्रयत्नात् अथवा अन्यविवादात् दूरे एव स्थितवान् । क्रि.श. १९२६तमे वर्षे डा.बिधानचन्द्रः बङ्गालराज्ये लघुक्रान्तिमेकम् अकरोत् । क्रि.श. १९३०तमे वर्षे मोतीलाल नेह्रू काङ्ग्रेस्पक्षस्य (CWC) कार्यकारीसमितेः सदस्यत्वं दत्तवान् । CWCसमित्या विधानमण्डलं न्यायभ्रष्टम् इति निन्दितम् । डा. बिधाचन्द्रः क्रि.श. १९३०तमवषस्य अगस्ट् २६तमे दिने आरक्षकैः बद्धः अलिपुरस्य कारावारं प्रवेशितः । क्रि.श. १९३१तमे वर्षे पचालिते दण्डिसत्याग्रहे कलकतासङ्घटनस्य नैके कार्यकर्तारः बद्धाः कारावारं गताः । कारावारं न गतच्छन् सङ्घस्य कार्याणि पश्यन् भवतु इति काङ्ग्रेस् पक्षः डा.बिधानचन्द्रम् असूचयत् । क्रि.श. १९३०-३१तमवर्षयोः ग्रामस्य प्रमुखः सन् कार्यमकरोत् क्रि.श. १९३३तमेवर्षे मण्डलस्य अध्यक्षः अभवत् । अस्य प्रशासनकाले निश्शुल्कशिक्षा, आरोग्यव्यवस्था, उत्तममार्गसौकर्यम्, विद्युद्व्यवस्था, जलानयनम्, इत्यादयः योजनाः कार्यानुष्ठाने आगताः ।

स्वातन्त्र्योत्तरम्[सम्पादयतु]

काङ्ग्रेस्पक्षः डा. बिधनचन्द्रस्य नाम बङ्गालराज्यस्य मुख्यमन्त्रिपदार्थं निर्दिशत् । डा. रायः तु स्ववृत्तौ एव अनुवर्तितुम् इष्टवान् । किन्तु गान्धिमहोदयस्य सूचनानुगुणं क्रि.श. १९४८तमवर्षस्य जनवरिमासस्य २३तमे दिने मुख्यमन्त्रिपदम् अलमकरोत् । तस्मिन् काले बङ्गालराज्ये जातिवैषम्यानि, आहाराभावः, निरुद्योगः, पूर्वपाकिस्तानतः अतिक्रमः, निराश्रिताः, इत्यादयः समास्याः नितरां बाधन्ते स्म । प्रथमं डा.रायः स्वपक्षे एकताम् अनुशासनं चानीतवान् । पश्चात् क्रमशः समस्यानां परिहारस्य विषये कार्ययोजनम् अकरोत् । केवलं वर्षत्रयेण नियमानुशासनानि अनुपालयन् राज्ये समृद्धिमानीतवान् ।

We have the ability and if, with faith in our future, we exert ourselves with determination, nothing, I am sure, no obstacles, however formidable or insurmountable they may appear at present, can stop our progress... (if) all work unitedly, keeping our vision clear and with a firm grasp of our problems.

क्रि.श. १९६१तमवर्षस्य फेब्रवरिमासस्य चतुर्थे दिने एषः भारतसर्वकारेण भारतरत्नप्रशस्त्या विभूषितः । क्रि.श. १९६२तमवर्षस्य जुलैमासस्य प्रथमदिनाङ्के स्वचिकित्सालयस्य रोगिणां चिकित्सां कृत्वा पश्चात् राज्यस्य सर्वदायित्वात् विमुक्तः ब्रहोगीत् इत्यस्य ग्रन्थम् अवलोकयन् तत्र शान्तिसन्देशं पठितवान् । तत्पश्चात् ११होराकालं जीवितवान् । अनन्तरम् इहलोकं त्यक्तवान् । स्वकुटुम्बनिर्वहणार्थं स्वमातुः नम्मि शोभमानं अघोरकामिनिदेवीचिकित्सालयं दत्वा गतवान् । क्रि.श. १९७६तमे वर्षे वैद्यकीये, राजनीतौ, विज्ञाने, मनश्शास्त्रे, सहित्ये, कलायां च ये यशोवन्तः तेभ्यः दातुं बि.सि.रायः राष्ट्रियप्रशस्तिः उद्घुष्टा । अस्य गौरवार्थं क्रि.श. १९६७तमे वर्षे नवदेहलीनगरे डा.बि.सि.रायसंस्मरणग्रन्थालयः बालानाम् अध्ययनप्रकोष्टः च आरब्धः ।

उल्लेखाः[सम्पादयतु]

  1. Choudhary, Valmiki (1984). Dr. Rajendra Prasad, Correspondence and Select Documents: 1934-1937. Allied Publishers. pp. 368 (at page 133). ISBN 9788170230021. 
  2. http://news.in.msn.com/gallery.aspx?cp-documentid=3433120&page=4
"http://sa.wikipedia.org/w/index.php?title=बिधाचन्द्रः_रायः&oldid=258281" इत्यस्माद् पुनः प्राप्तिः