बिहारराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(बिहारम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
बिहारराज्यम्
—  राज्यम्  —

मुद्रिका
भारते बिहारस्य स्थाननिर्देशः
Coordinates (Patna): 25°22′N 85°08′E / 25.37°N 85.13°E / 25.37; 85.13Coordinates: 25°22′N 85°08′E / 25.37°N 85.13°E / 25.37; 85.13
देशः भारतम्
वलयाः अङ्गिका, भोजपुरम्, मगधम्, मिथिला
विभागाः पाटनाविभागः, तिरहटविभागः, सारनविभागः, दर्भङ्गाविभागः, कोशिविभागः, पूर्णियाविभागः, भागलपुरविभागः, मुङ्गेरविभागः, मगधविभागः
स्थापना 1912 (as Bihar)
राजधानी पाटना
महानगरम् पाटना
मण्डलानि ३८
सर्वकारः
 • Body Government of India, Government of Bihar
 • Governor Devanand Konwar
 • Chief Minister Nitish Kumar (JDU)
 • Legislature Bicameral (243 + 75 seats)
 • Parliamentary constituency 40
 • High Court Patna High Court
विस्तीर्णता
 • संहतिः ९४ Square km ( Square mile)
क्षेत्रविस्तारः 12th
जनसङ्ख्या (2011)
 • संहतिः १०३
 • रैङ्क् 3rd
IST (UTC+05:30)
UN/LOCODE INBR
ऐ एस् ओ ३१६६ कोड् IN-BR
वहानपञ्जीकरणपत्रम् BR
HDI increase 0.41 [१](low)
HDI rank 21st (2011)
Literacy 63.82% (28th)
73.4% (male)
53.3% (female)
Official language(s) हिन्दी, उर्दु, मैथिली,
जालस्थानम् gov.bih.nic.in


बिहार(हिन्दी:बिहार) भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् । एतस्य राजधानी पाटना अथवा पाटलीपुत्रम् अस्ति । अस्य राज्यस्य पूर्वभागे पश्चिमवङ्गराज्यं, दक्षिणभागे झारखण्डराज्यञ्च विद्यते । 'बिहार'इत्येतत् पदं प्रायशः 'बौद्धविहारम्' इत्यत्र विद्यमानस्य विहारशब्दस्य विकृतरूपम् इति भासते। इदं राज्यं गङ्गानद्याः तस्याः उपनदीनाञ्च समृद्धक्षेत्रे विद्यते । प्राचीनकाले विशालसाम्राज्यानां मूलस्थानम् आसीत् इदं राज्यम् अधुना देशस्य अर्थव्यवस्थायाः कृते योगदाने अन्तिमस्थाने विद्यते।

अन्तर्विषयाः

इतिहासः[सम्पादयतु]

बिहारस्य ऐतिहासिकं नाम मगधम्। बिहारस्य राजधान्याः ऐतिहासिकं नाम पाटलीपुत्रम्

प्राचीनकालः[सम्पादयतु]

प्राचीनकाले बलाढ्यसाम्राज्येषु अन्यतमम् आसीत् मगधसाम्राज्यम् । मौर्यवंशः, गुप्तवंशः इत्यादयः प्रसिद्धाः राजवंशाः इतः शासनम् अकुर्वन् । मौर्यवंशस्य सम्राजः अशोकस्य साम्राज्यं पश्चिमदिशि अफघानीस्थानपर्यन्तं विस्तृतम् आसीत् । मौर्यवंशस्य शासनं क्रि पू ३२५ तः क्रि पू १८५ पर्यन्तम् आसीत् । पञ्चमे षष्ठे च शतके अत्र बौद्धजैनधर्मयोः उगमः जातः । अशोकः बौद्धधर्मस्य प्रचारे महत्त्वपूर्णां भूमिकां निरूढवान्। सः स्वस्य पुत्रं महेन्द्रं बौद्धधर्मस्य प्रचाराय श्रीलङ्काम् अप्रेषयत्। पाटलीपुत्रे यत्र सः पुत्रस्य आप्रच्छनम् अकरोत् सः प्रदेशः महेन्द्रघट्टः इत्येव निर्दिश्यते । इतः बौद्धधर्मः अग्रे चीनादेशं प्रति ततः जापानदेशं प्रति च प्रसृतं जातम् ।

मध्यकालः[सम्पादयतु]

द्वादशे शतके भख्तियारखिलजी बिहारस्य आधिपत्यं प्राप्तवान् । तदा मगधदेशस्य राजधानी न आसीत् । षोडशे शतके शेरषाहसूरी देहल्यां मुगलचक्रवर्तिनं हुमायूनं पराजित्य देहलीसिंहासनम् आरूढवान् इत्यतः बिहारस्य नाम पुनः प्रकाशितं जातम् । किन्तु अचिरात् अक्बरः बिहारराज्यं पश्चिमवङ्गे विलीनम् अकरोत्। ततः बिहारस्य अस्तित्वं वङ्गराजानाम् अधीनं जातम्।

आधुनिककालः[सम्पादयतु]

१८५७ तमे वर्षे जाते भारतस्य प्रथमसङ्ग्रामे बिहारीयः बाबू कुंवरसिंहः प्रमुखभूमिकां निरवहत् । १९१२ तमे वर्षे पश्चिमवङ्गस्य विभजनस्य कारणतः बिहारराज्यं पुनः अस्तित्वं प्राप्नोत् । १९३५ तमे वर्षे ओरिस्साराज्यम् इतः पृथक् कृतम् । स्वातन्त्रसङ्ग्रामावसरे बिहारे जातः चम्पारणविद्रोहः ब्रिटीशजनानां बहिष्करणे विरोधे च प्रमुखं पात्रम् अवहत् । स्वातन्त्र्यानन्तरं बिहारराज्यं पुनः एकवारं विभक्तम् । २००० तमे वर्षे झारखण्डराज्यं बिहारतः पृथक्जातम्। भारतं त्यज्यताम् इत्येतस्मिन् आन्दोलने बिहारस्य पात्रं मुख्यभूतम् आसीत्।

भौगोलिकी स्थितिः[सम्पादयतु]

वातावरणम्
नद्यः

इदं राज्यम् उत्तरे २१°५८'१०" ~ २७°३१'१५" अक्षांशे पूर्वदिशि ८२°१९'५०" ~ ८८°१७'४०" रेखांशे च विद्यते । राज्यस्य विस्तारः अस्ति ९४, १६३ चतरस्र कि मी मितः यस्मिन् ग्रामप्रदेशस्य विस्तारः अस्ति ९२,२५७.५१ च कि मी मितः । झारखण्डस्य पृथक्करणानन्तरं बिहारस्य भूमिः, नदीभिः युक्ता कृषियोग्या समतला विद्यते । गङ्गायाः पूर्वक्षेत्रे स्थितम् इदं राज्यं समुद्रतलात् १७३ पादमिते औन्नत्ये विद्यते । भौगोलिकदृष्ट्या बिहारराज्यं त्रिधा विभक्तुं शक्यम् - उत्तरस्य शैलीय-निम्नश्च प्रदेशः, मध्ये विशालसमतलप्रदेशः, दक्षिणे पर्वतीयप्रदेशश्च । उत्तरीयपर्वतप्रदेशे सोमेश्वरश्रेणी विद्यते । अस्याः श्रेण्याः औन्नत्यं सामान्यतः ४५५ मीटर्मितम् । तत्र विद्यमानस्य सर्वोच्चशिखरस्य औन्नत्यं ८७४ मीटर्मितम् । सोमेश्वरश्रेण्याः दक्षिणभागे निम्नप्रदेशः विद्यते । अस्मिन् मृण्मयक्षेत्रे अर्जुनवृक्षाणां निबिडारण्यं विद्यते । व्याघ्राभयारण्यं वाल्मीकिनगरे स्थितमस्ति। गङ्गानदी राज्यस्य मध्यभागे प्रवहति । उत्तरबिहारे बागमती, कोशी, बूढी गण्डक, गण्डक, घाघरा इत्येताः नद्याः तासां सहायकनदीनां च समतलप्रदेशः वर्तते । सोन, पुनपुन, फल्गू, किऊल - नद्यः बिहारस्य दक्षिणतः गङ्गया मिलन्ति । हिमालयपर्वतात् प्रवहन्त्यः अन्याः नद्यः जलधाराश्च बिहारद्वारा गङ्गया मिलन्ति । वृष्टिकाले नदीनां प्रवाहः महत्यै समस्यायै भवति। ग्रीष्मर्तौ राज्यस्य उष्णांशः भवति ३५°-४५° सेल्शियस्मितम् । शैत्यकाले ५°-१५° सेल्शियस्मितं भवति । शैत्यकालः नवम्बर्मासात् मध्यफेब्रवरिपर्यन्तं भवति । एप्रिल्मासतः मध्यजुलैपर्यन्तं भवति । ततः अक्टोबर्मासपर्यन्तं वृष्टिकालः भवति । प्रतिवर्षं सामान्यतः १२०५ मि मीटर्मिता वृष्टिः भवति । उत्तरस्यां दिशि भूमिः कृषियोग्या भवति।

मण्डलानि[सम्पादयतु]

बिहारराज्यस्य मण्डलानि

बिहारराज्यम् ९ विभागेषु विभक्तम् अस्ति। एवं ३८ मण्डलानि सन्ति। भगलपूर, दर्भाङ्ग, कोसि, मगध, मुन्गेर, पटना, पुर्णिया, सासाराम, तिर्हुत एते ९ विभागाः भवन्ति। मण्डलानि-

भाषा संस्कृतिश्च[सम्पादयतु]

अङ्गिका, भोजपुरी, मगधी, मैथिली, वज्जिका च अत्रत्याः प्रमुखभाषाः । बिहारस्य संस्कृतिः मगध-अङ्ग-मिथिला-वज्जी-संस्कृतीनां मिश्रणमस्ति। ग्रामनगरसंस्कृत्योः अधिकः भेदः न विद्यते। पारम्परिकरीतिनीतयः नगरजनैः अपि पाल्यन्ते सश्रद्धम् । समाजः अस्ति पुरुषप्रधानः। बालिकानां स्वातन्त्र्यम् अत्यल्पम् । छठ, होली, दीपावलिः, नवरात्रम्, महाशिवरात्रिः, नागपञ्चमी, श्री पञ्चमी, मोहरम्, ईद्, क्रिस्मस् च प्रमुखाः उत्सवाः । सिक्खानां दशमः गुरुः गोविन्दसिंहस्य जन्मस्थानम् इत्यतः पटनायां तस्य जयन्तीमहोत्सवः परमश्रद्धया आचर्यते। विवाहपद्धतिः प्रदेशस्य संस्कृतिद्योतिका भवति। जातिगताग्रहस्य कारणेन अधिकांशाः विवाहाः पित्रोः सम्बन्धिनां द्वारा परिवारेषु एव भवन्ति। विवाहस्य शोभायात्रा वैभवादीनि परिवारयोः आर्थिकस्थितिम् अवलम्ब्य भवति । लोकगीतानां गानं सर्वेषु समुदायेषु अपि प्रचलति । आधुनिक-पुरातनचलच्चित्राणां सङ्गीतं श्रावितं भवति। विवाहेषु शहनायीवादनं सामान्यतया श्रूयते । अस्य वाद्यस्य वादकेषु प्रसिद्धतमः बिस्मिल्लाखानः बिहारराज्ये एव जन्म प्राप्तवान् ।

जातिवादः[सम्पादयतु]

जातिवादः बिहारस्य राजनीतेः सामाजिकजीवनसय अविभाज्यम् अङ्गं जातमस्ति । पूर्वम् अस्य विराट्स्वरूपः दृष्टिगोचरः जातः आसीत् । अद्यत्वे अयं भेदभावः न्यूनः जायमानः अस्ति। अस्य जातिवादस्य निर्मूलनाय जनैः अवलम्बितः मार्गः अस्ति - उपनाम्नः परिवर्तनम् । उपनान्मः श्रवणात् जातिबोधः न भवेत् इति कारणतः यादवः, शर्मा, मिश्रः, वर्मा, झा, सिंह, श्रीवास्तवः, रायः इत्यादीनि परिवर्त्य प्रकाशः, सुमनः, प्रभाकरः, रञ्जनः, भारती इत्यादीनि कृतवन्तः ।

मनोरञ्जनम्[सम्पादयतु]

बिहारस्य नगरेषु ग्रामेषु च चलच्चित्राणि लोकप्रियाणि जातानि सन्ति । हिन्दीचित्रसङ्गीतं सर्वेभ्यः रोचन्ते । मैथिली-भोजपुरीचलच्चित्राणि अपि प्रभुत्वं साधितवन्ति सन्ति । नगरेषु निवसद्भिः आङ्ग्लचित्राणि वीक्ष्यन्ते । नृत्य-नाटक-चित्रकलादिषु परिश्रमं कुर्वन्ति बहवः उच्चकुलीयाः ।

क्रीडाः[सम्पादयतु]

भारते अन्यत्र इव अत्रापि क्रिकेट्-क्रीडा अधिकलोकप्रिया वर्तते। पादकन्दुकः, हाकीक्रीडा, टेनिस्-क्रीडा, गोल्फ्-क्रीडा अपि अत्र प्रसिद्धाः । ग्रामप्रदेशः अधिकः इत्यतः पारम्परिकक्रीडा कबड्डी अपि अत्र प्रसिद्धा अस्ति ।

आर्थिकस्थितिः[सम्पादयतु]

बिहारजनानां मुख्यम् आयमूलं वर्तते कृषिः। वाणिज्यं सर्वकारीयोद्योगः च आयमूलमस्ति । सर्वकारस्य प्रयत्नेन अधुना स्थितिः उत्तमा भवन्ती अस्ति । ७५% जनाः कृषिकार्यं कुर्वन्ति । झारखण्डस्य पृथक्करणानन्तरम् इदं राज्यं खनिजसम्पदा वञ्चितं जातम् । जनसङ्ख्यायाः वृद्धेः कारणतः अर्थव्यवस्था दुर्बला एव वर्तते ।

शिक्षणम्[सम्पादयतु]

बिहारराज्यं विश्वस्मिन् विश्वे प्रसिद्धं शिक्षणकेन्द्रम् आसीत्। जगत्प्रसिद्धाः विश्वविद्यालयाः अस्मिन् राज्ये राराजन्ते स्म। प्राचीनकाले नलन्दाविश्वविद्यालयः, विक्रमशिलाविश्वविद्यालयः,ओदन्तपुरीविश्वविद्यालयाः च बिहारस्य गौरववर्धकानि अध्ययनकेन्द्राणि आसन् । १९१७ तमवर्षपर्यन्तं पट्नाविश्वविद्यालयस्य प्रतिष्ठायुतं स्थानम् आसीत् ।

नलन्दाविश्वविद्यालयः[सम्पादयतु]

नलन्दास्थाने क्रिस्ताब्दस्य पञ्चमशतकतः द्वादशशतकपर्यन्तं कश्चन सवसतिकः विश्वविद्यालयः आसीत् इति इतिहासद्वारा ज्ञायते । अस्य प्रथमः सवसतिकः विश्वविद्यालयः इति प्रख्यातिः आसीत् । द्विसहस्रप्राध्यापकाः दशसहस्राधिकाः विद्यार्थिनः अत्र आसन् । जनाः देशविदेशतः विद्याप्राप्तये अत्र आगच्छन्ति स्म इति विदेशीयानां यात्रिकाणाम् उल्लेखेन ज्ञातुं शक्यते । चीनीचात्रिकः ह्यु येन् त्साङ्गः अस्य स्थानस्य स्पष्टतया उल्लेखं कृतवान् अस्ति । अस्मिन् विश्वविद्यालये बौद्धशास्त्रं, वेदाः, तर्कशास्त्रं, शब्दविद्या (व्याकरणम्) । मेडिसिन् (चिकित्साविद्या) इत्यादीनां शिक्षणं भवति स्म । सप्तमे शतके साम्राट् हर्षवर्धनः, पालवंशीयाः राजानः च एतं विश्वविद्यालयं सगौरवं पोषितवन्तः । कुमारगुप्तः एतस्य विश्वविद्यालयस्य आरम्भम् कृतवान् इति इतिहासद्वारा ज्ञायते । नलन्दाविश्वविद्यालयः ५० चतुरस्रकि.मी प्रदेशे व्याप्तः आसीत् । प्रथमः महम्मदः भक्तियारखिल्जीद्वारा अत्र अग्निदाहं कारितवान् । तदा प्रज्ज्वालितः अग्निः षण्मासान् यावत् ज्वलन्नासीत् इति वदन्ति । रत्नोदधिः, रत्नसागरः, रत्नरञ्जकः इत्येते ग्रन्थालयाः भस्मीकृताः अभवन् । अनन्तरम् अत्र भूकम्पः अभवत् । तदा सर्व नष्टम् भवत् । बौद्धसंन्यासिनः टिबेट्देशं गतवन्तः केचन मारिताः च । नलन्दाप्रदेशे पूर्वम् आम्रवाटिकाः आसन् । गौतमबुद्धः अत्र किञ्चित्कालं स्थितवान् । सारिपुत्रः तथा महामोग्गालयन् इत्येतयोः बुद्धस्य शिष्ययोः जन्मस्थानम् एतत् । तयोः गृहम् इदानीमपि अस्ति । किन्तु देवालयरुपेण परिवर्तितम् अस्ति । अशोकचक्रवर्ती अत्र चैत्यं निर्मितवान् । अलेग्झाण्डर्र कन्निङ्गह्यां महोदयः क्रिस्ताब्दे १८६१ तमे वर्षे उत्खननद्वारा संशोधनं कृतवान् । क्रिस्ताब्दे १९१५ तमवर्षतः आर्कियालजीविभागेन १४ हेक्टरप्रदेशे उत्खननं कृत्वा स्मारकाणां भवनानां विषये ज्ञानसङ्ग्रहणं कृतम् अस्ति । अत्र १०८ विशालभवनानि (The Great Stupa) आसन् । सुभद्रायाम् आधारभूमौ निर्मितानि एतानि भवनानि अपूर्वाणि आसन् इति पञ्चमशतके आगतः चीनी यात्रिकः ह्यु येन् त्साङ्गमहोदयः उल्लिखितवान् अस्ति । आरम्भे एषः छात्रः आसीत् अनन्तर प्राध्यापकः । हर्षवर्धनस्य काले एषः सर्वधर्मसम्मेलनाध्यक्षः आसीत् । अत्र विश्वविद्यालये प्रवेशार्थं प्रवेशपरीक्षा आसीत् इति तु विशेषः अस्ति । इदानी चीना-जापान-दक्षिणैशियादेशेभ्यः जनाः दर्शनार्थम् अत्र आगच्छन्ति । एकः वस्तुसङ्ग्रहालयः अपि अत्र स्थापितः अस्ति ।

वसतिः[सम्पादयतु]

बर्मी-जापानी-जैनविश्रान्तिगृहाणि सन्ति ।

मार्गः[सम्पादयतु]

गयातः ६५ कि.मी । राजगिरतः १९ कि.मी । पाटनातः ९० कि.मी ।

पाटना[सम्पादयतु]

बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य पाटलीपुत्रम् इति नाम आसीत् गङ्गानद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति । गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे १७७० तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् २५ मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पाटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पाटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् (६ कि.मी) दूरे स्तः । कुम्राहार अशेकचक्रवर्तेः राजधानी आसीत् । क्रिस्तपूर्वतॄतीयशतके चन्द्रगुप्तमौर्यस्य बिन्दुसारस्य च राजधानी अत्र आसीत् । अत्र एकं सभाभवनमासीत् । इदानीं केवलं स्तम्भाः सन्ति । आनन्दविहारनामकं बौद्धमठम् अत्र आसीत् । पाटनासमीपे दर्शनीयानि स्थानानि वैशाली राजगिर नळन्दा इत्यादीनि ।

धूमशकटमार्गः[सम्पादयतु]

पूर्वविभागे देहली-पाटना, कोलकाता-पाटना धूमशकटमार्गौ स्तः । पाटना बृहन्निस्थानमस्ति ।

विमानमार्गः[सम्पादयतु]

देहलीवाराणसी- इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति । पाटना टूर्स् एण्ड् ट्रावल्स् प्रवासव्यवस्थां करोति ।

सासाराम मान्युमेण्ट्[सम्पादयतु]

सासारामनगरं बिहारराज्ये भोजपुरमण्डलस्य लघुपत्तनम् अस्ति । अत्र देहलीं शास्तवताम् सूरवंशीयानां वंशजः चक्रवर्ती शेरषाहः स्वस्य निमित्तं समाधिमन्दिरमेकं निर्मितवान् आसीत् । एतत् स्थानं चारित्रिकं अभूतपूर्वं च अस्ति । एषः क्रिस्ताब्दस्य १५४० तः १५४५ पर्यन्तं हुमायूनं जित्वा प्रशासनं कृतवान् । एतस्य वंशस्य नाम फरीद इति । एषः शूरः आसीत् । अस्य पिता हसन् । शेरषाहसूरी एकदा मृगयार्थं गत्वा व्याघ्रेण साक युद्धं कृतवान् । अतः एव अस्यनाम शेरषाह इत्यभवत् । समाधिमन्दिर एतत् कृतकसरोवरे १४०० चतुरस्रपादमिते जले निर्मितमस्ति । षड्भुजाकृतियुक्तं ४६ मीटरोन्नत्तवक्रभित्तियुतं जालन्ध्रयुतं गोलच्छदयुक्तं (Tomb) चैतत् रक्तवालुका शिलाभिः निर्मितम् अस्ति । अस्य प्रतिबिम्बं सरोवरजले सुन्दरतया प्रकाशते । जले प्लवते एव एषा रचना दृष्टिगोचरा भवति । अतः एव Island Tomb इति एतत् स्थानं कथयन्ति । पथानशैली रचना एषा भारते एव अत्युतमास्ति ।

वाहनमार्गः[सम्पादयतु]

ग्राण्ट् ट्रङ्क मार्गस्य पार्श्वेऽस्ति । गया-वाराणसी-पाटना- इत्यादिनगरेभ्यः वाहनानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

गयानिस्थानतः २०३ कि.मी ।

बौद्धपरिक्रम-एक्सप्रेस् विशेषधूमशकटयानम्[सम्पादयतु]

बौद्धपरिक्रम-एक्सप्रेस् एतत् विशेषधूमशकटयानं गौतमबुद्धस्य सम्बद्धानि स्थानानि सर्वाणि प्रदर्श्य आगच्छति ।

मार्गः[सम्पादयतु]

उत्तरप्रदेशबिहारपश्चिमबङ्गालराज्येषु सञ्चरति । कोलकातातः–गोरखपुरम्-कुशिनगरम्वाराणसी– सारनाथः-राजगिर-नलन्दा-बुद्धगया स्थानानि दर्शयति ।

विवरणम्[सम्पादयतु]

वैस् प्रेसिडेण्ट्, अशोकट्रावेल्स् अण्ड टूर्स् (I.T.D.C) नवादेहली ।

राजगिर[सम्पादयतु]

बौद्धमतस्य मुख्यस्थानेषु एतदपि अन्यतमम् अस्ति । प्रथमा बौद्धमहासभा राजगिरप्रदेशे अभवत् । गौतमबुद्धः अत्र निर्वाणात्पूर्व १२ वर्षाणि यावत् वासं कृतवान् ।

मार्गः[सम्पादयतु]

नलन्दातः १९ कि.मी

वैशाली[सम्पादयतु]

भगवतः महावीरस्य जन्मस्थलमेतत् । प्राचीनकाले राजधानी आसीत् । २००० वर्षेभ्यः पूर्वम् अत्र प्रजाप्रभुत्वराज्यमासीत् ।

मार्गः[सम्पादयतु]

पाटनातः ४४ कि.मी

विश्वविद्यालयाः[सम्पादयतु]

चिकित्साकेन्द्राणि[सम्पादयतु]

  • पटना मेडिकल कॉलेज और अस्पताल पटना
  • इंदिरागाँधी आयुर्विज्ञान संस्थानम् पटना
  • नालंदा मेडिकल कॉलेज और अस्पताल पटना
  • बुद्धा दंत चिकित्सा संस्थानम् अस्पताल पटना
  • श्रीकृष्ण मेडिकल कॉलेज, अस्पताल मुजफ्फरपुर
  • अनुग्रह नारायण मगध मेडिकल कॉलेज, अस्पताल गया
  • दरभंगा मेडिकल कॉलेज अस्पताल लहेरियासराय
  • कटिहार मेडिकल कॉलेज अस्पताल कटिहार

अन्यानि प्रमुखशैक्षणिकसंस्थानानि[सम्पादयतु]

  • चाणक्य विधि विश्वविद्यालयः पटना
  • अनुग्रह नारायण सामाजिक परिवर्तन संस्थानम्, पटना
  • ललितनारायण मिश्रा सामाजिक परिवर्तन संस्थानम्, पटना
  • केंद्रीय प्लास्टिक इंजिनियरिंग रिसर्च इंस्टीच्युट (सिपेट), हाजीपुर
  • केंद्रीय औषधीय शिक्षा एवं शोध संस्थानम् (नाइपर), हाजीपुर
  • होटल प्रबंधन, खानपान एवं पोषाहार संस्थानम्, हाजीपुर
  • प्राकृत जैनशास्त्र एवं अहिंसा संस्थानम्, वैशाली

दर्शनीयानि स्थानानि[सम्पादयतु]

पट्नां परितः[सम्पादयतु]

राज्यस्य राजधानी पटना ऐतिहासिकं स्थलं वर्तते । पूर्वम् इदं धर्मज्ञानयोः केन्द्रमासीत् । तत्रत्यानि दार्शनिकस्थलानि एतानि -

  • प्राचीनानि मध्यकालीनानि भवनानि- कुम्रहार परिसरः, अगमकुआँ, महेन्द्रघाट्
  • ब्रिटिशकालीनं भवनम्- जालानम्यूजियम, गोलघर, पाटना सङ्ग्रहालयः, विधानसभाभवनम्, हैकोर्टभवनम्, सदाकत-आश्रमः
  • धार्मिकस्थलानि:-हरमन्दिरम्, बडीपटनादेवी, छोटीपटनादेवी, महावीरमन्दिरं, पादरी की हवेली, शेरशाह की मस्जिद, बेगू ह्जाम की मस्जिद, पत्थर की मस्जिद, जामा मस्जिद, फुलवारीशरीफ में बड़ी खानकाह, मनेरशरीफ - सूफी संत हज़रत याहया खाँ मनेरी स्मारकम्
  • ज्ञान-विज्ञानसम्बद्धानि केन्द्राणि- पाटना विश्वविद्यालयः, सच्चिदानन्दसिन्हा लैब्ररी, सञ्जयगान्धिजैविक-उद्यानम्, श्रीकृष्णसिन्हाविज्ञानकेन्द्रम्, इन्दिरागान्धिताराघर, खुदाबक़्शग्रन्थालयः, विज्ञानपरिसरः

वैशालीं परितः[सम्पादयतु]

षष्ठशतकात् पूर्वं वज्जिसङ्घद्वारा स्थापितः विश्वस्य प्रथमगणराज्यस्य अवशेषः, अशोकस्तम्भः, बसोकुण्डे भगवतः महावीरस्य जन्मस्थली, अभिषेकपुष्करणी, विश्वशान्तिस्तूपः, राजा विशाल का गढ, चौमुखीमहादेवमन्दिरम्, भगवतः महावीरस्य जन्मदिने आयोज्यमानः वैशालीमहोत्सवः च प्रसिद्धाः सन्ति ।

टिप्पणी[सम्पादयतु]

वीथिका[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

सम्‍बद्धाः विषया:[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=बिहारराज्यम्&oldid=271298" इत्यस्माद् पुनः प्राप्तिः