बीकानेर
राजस्थानप्रदेशस्य प्रमुखं नगरम् अस्ति।
| बीकानेर बिकाणो |
|||
|---|---|---|---|
| — नगरम् — | |||
| लक्ष्मीनिवासराजगृहम्, बीकानेर | |||
| Coordinates: 28°01′00″N 73°18′43″E / 28.0166667°N 73.31194°ECoordinates: 28°01′00″N 73°18′43″E / 28.0166667°N 73.31194°E | |||
| देशः | भारतम् | ||
| राज्यम् | राजस्थानम् | ||
| मण्डलम् | बीकानेर | ||
| संस्थापकः | Rao Bikaji | ||
| विस्तीर्णम् | |||
| • Total | २७० Square km (१०४.२ Square mile) | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2008) | |||
| • Total | ७,२३,९८२ | ||
| Languages | |||
| • Official | हिन्दी | ||
| IST (UTC+5:30) | |||
| PIN | 3340XX | ||
| Telephone code | +91 151 | ||
| वाहनपञ्जीकरणम् | RJ-07 | ||
| जालस्थानम् | bikaner.nic.in | ||
राजस्थानराज्ये उत्तरभागे मरुभूमिप्रदेशे स्थितम् एतत् नगरम् राजगृहैः दुर्गैः शिल्पैः च प्रसिद्धम् अस्ति रावबिकाजी महोदयः क्रिस्ताब्दे १४८८ तमे वर्षे एतत् नगरं निर्मितवान् । नगरं परितः उन्नताः भित्तयः सन्ति । नगरस्य मुख्यम् आकर्षणं जुनागडदुर्गमस्ति । राजा रायसिङ्गः क्रिस्ताब्दे १५८८ तः १५९३ तमवर्षावधौ एतत् दुर्गं निर्मितवान् । दुर्गं ९८६ मीटरदीर्घं, ३७ वीक्षकस्थानैः युक्तं च अस्ति । द्वारद्वयमस्ति । एक सूरजपोल् इति प्रसिद्धम् अस्ति । दुर्गे चन्द्रमहल्, फूलमहल्, कर्णमहल्, रङ्गमहल् विजयमहल् इत्यादीनि सन्ति । राजगृहाणि सुन्दराणि सन्ति । एतेषु आयुधसङ्ग्रहः सभाङ्गणं राज्ञाम् आस्थानम् इत्यादिकानि सन्ति । दुर्गानिवास, गङ्गानिवास इति द्वे सभाङ्गणे विशिष्टौ स्तः । एतेषां पुरतः रक्तवालुकमये प्रदेशे शिल्पानि सन्ति । रक्तदुर्गे राजानः सपरिवारं वसन्ति स्म । रक्तवालुकाशिलाभिः निर्मिते रक्तदुर्गे छायाचित्राणां प्रदर्शनालयः आयोजितः अस्ति ।
वाहनमार्गः [सम्पादयतु]
जयपुरतः ३७९ कि.मी । बिकानेरसमीपे ३३. कि.मी दूरे देशनोक् इति मूषकाणां मन्दिरम् अस्ति । एतत् कार्नीदेवीमन्दिरमिति प्रसिद्धम् अस्ति ।