बुद्धपूर्णिमा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


बौद्धमतानुयायिनां कञ्चित् प्रधानं पर्व एतत् । बुद्धजयन्ती प्रतिवर्षं वैशाखपूर्णिमायाम् आचर्यते । क्रि.पू.५६३तमे वर्षे अस्मिन् एव दिने भगवतः बुद्धस्य अवतारः अभवत् इति बौद्धानां विश्वासः । क्रि.पू.४८३तमे वर्षे ८०वर्षीयः भगवान् गौतमबुद्धः अस्मिन् एव पूर्णिमायाः दिने एव काश्मीरनगरे बुद्धः निर्वाणः अभवत् । भगवतः बुद्धस्य जन्म ज्ञानप्राप्तिः महानिर्वाणः त्रयः अपि अस्यां वैशाखपूर्णिमायाम् एव अभवत् इति विशेषः । एतावता कालेन कस्यचिदपि अन्यमहापुरुषस्य विषये एवं नाभवत् । अस्मिन् युगे बौद्धमतावलम्बिनः ५०कोटिजनाः अस्मिन् विश्वे सन्ति । अयं बौद्धपूर्णिमा उत्सवः भारतम्, नेपाल, सिंगापुर, वियतनाम्, थैलैण्ड, काम्बोडिया, मलेशिया, श्रीलङ्का, म्यान्मार, इण्डोनेशिया पाकिस्तान् देशेषु जनाः श्रद्धया आचरन्ति ।

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बुद्धपूर्णिमा&oldid=395628" इत्यस्माद् प्रतिप्राप्तम्