बेकल् दुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बेकल् कोटे- केरळराज्ये कन्नडध्वजः (०४९९)

बेकल् दुर्गम्

एतत् उत्तरकेरळप्रदेशे स्थितम् अरब्बीसागरतीरे प्रसिद्धं प्रवासिधाम अस्ति । अत्र बिदनूरुशिवप्पनायकेन बलिष्ठशिलाभिः निर्मितं दुर्गमस्ति । एतत् क्रिस्ताब्दे १६४५ तः १७०० वर्षसमये निर्मितमस्ति । अत्र प्राकृतिकं सौन्दर्यम् अपूर्वमस्ति । अत्र वर्णमयनौकाभिः दुर्गदर्शनम् अविस्मरणीययात्रा भवति । शिलापर्वतारोहणं कृत्वा अपि दुर्गदर्शनं कर्तुं शक्यते । एतत् साहासिकमनोभाववताम् एव शक्यम् अस्ति । प्रवेशद्वारं १००० पादपरिमित्तोन्नतं, ३० पादपरिमितविस्तारवत् च अस्ति । गजानां सुलभतया प्रवेशः शक्यः अस्ति । अतः अस्य महाद्वारस्य गजद्वारमिति नाम आगतमस्ति । पदातीनाम् अन्यत् द्वारमस्ति । अन्तर्भागे सैनिकानां स्थानानि, विविधानि दर्शनीयस्थानानि राजकुलदैवस्य हनुमतः मन्दिरं च सन्त्ति । अत्र मन्दिरे भक्तेभ्यः मधुरं जलं पृथुकान् च यच्छन्ति । एतत् अतीव शुध्दम् उन्नतप्रदेशे स्थितं दुर्गमस्ति । एतत् दुर्गं विंशतिहेक्टर्र् विस्तृतम् अस्ति । गोलाकारेण निर्मितं दुर्गगोपुरं २००पादपरिमितोन्नते स्थाने अस्ति । अत्र सुरङ्गमार्गः शिलामण्डपाः च दर्शनीयानि सन्ति । अत्र सूर्योदयस्यस्य सूर्यास्तस्य च दृश्यवैभवं विश्वप्रसिध्दम् अस्ति । पर्वतशिखरेषु सूर्योदयः, सागरे च सूर्यास्तः अत्यन्तं रमणीयं भवन्ति । नौकायानेन दुर्गदर्शनव्यवस्था अस्ति । बेकल् बीच्, अपि प्रवासिजनानाम् आकर्षकस्थानम् अस्ति । एतत् स्थलं कर्णाटककेरळराज्ययोः सङ्गमक्षेत्रमिव अद्यापि प्रसिद्धम् अस्ति । अनेकानि वसतिगृहाणि अत्र सन्त्ति ।

मार्गः[सम्पादयतु]

मङ्गळूरुतः ५० कि.मी । कासरगोडुतः १४ कि.मी. । पाळ्ळिकेरे समीपे सागरतीरे बेकलदुर्गम् अस्ति । राष्ट्रियराजमार्गात् (सं -१७ ) १६. कि.मी दूरेऽस्ति । कण्णानूर् तः ५५ कि.मी । दक्षिणकोटिकुलम् धूमशकटनिस्थानतः समीपे अस्ति

"https://sa.wikipedia.org/w/index.php?title=बेकल्_दुर्गम्&oldid=370670" इत्यस्माद् प्रतिप्राप्तम्