बेळगावी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

कर्णाटकराज्यस्य प्रमुखं नगरं तथा मण्डलकेन्द्रम्।बेळगावीप्रदेशः बेळुवलनाडु इति प्रसिद्धम् आसीत्। अस्य वेणुग्रामः इति चारित्रिकं नाम आसीत् । अत्र दुर्गाणि, मन्दिराणि, जलपाताः, नदीसङ्गमादि दर्शनीयानि स्थानानि सन्ति । पूर्वकाले वेदाध्ययनशीलाः विप्राः अत्र वसन्ति स्म । स्वामी विवेकानन्दः अत्र नवदिनानि यावत् स्थितवान् । बेळगावी नगरे सुन्दरः आकर्षकः रामकृष्णाश्रमः अस्ति। द्वादशशतके निर्मितस्य दुर्गस्य पार्श्वे कमलबसदि इति सुन्दरः षोडशस्तम्भाधीरतः शिल्पाविशेषः अस्ति । एतत् शिलाबसदि इत्यपि कथयन्ति । एतत् परितः २०८ जैनप्रतिमाः सन्ति । नगरमध्ये प्रसिद्धः हनुमान् देवालयः अस्ति । एषः नगररक्षकः इति विख्यातः अस्ति । सेनाप्रदेशे मिलिटरी महादेवः इति ख्यातः शिवः मन्दिरे राराजते । शहपुरमार्गे पार्श्वे कपिलेश्वरनामकः स्वयम्भूः द्विशतवर्षप्राचीनः लिङ्गविशेषः अस्ति। । एतम् कपिलप्प इति च कथयन्ति । दक्षिणकाशी इति क्षेत्रस्य नाम अस्ति । श्रावणमासे शिवरात्रिपर्वणि च अत्र विशेषपूजादिकं भवति । बेळगावी समीपे ८. कि.मी दूरे कणबग्रामे रामतीर्थम् अस्ति । अत्र रामशिवयोः मन्दिरे स्तः । हलीसग्रामे कदम्बवास्तुशिल्परुपः श्री लक्ष्मीनरसिंहस्य देवालयः अस्ति । सुन्दरं गोपुरम् (५पादपरिमितम्), ४ - पादपरिमितोन्नता श्रीलक्ष्मीनारायणमूर्तिः सर्वालङ्कारविशिष्टा अङ्कस्थापितलक्ष्मीयुक्ता अस्ति । नृसिंहस्य १.५ पादपरिमितोन्नता मूर्तिः मानवदेहसिंहशिरविशिष्टा अस्ति । पुरतः योगी नारायणस्य शिलामन्दिरमपि अस्ति । मुगुटखानहुब्बळ्ळीप्रदेशे मलप्रभानदीतीरे सञ्चरन् श्री च्यवनमहर्षिः श्री रुद्रदेवम् अत्र प्रतिष्ठापितवान् यज्ञं च कृतवान् । श्रीनरसिंहं महाशिलायाम् आराध्य यज्ञान्ते विसृष्टवान् । श्रीयादवार्यः मूर्तिम् अन्विष्य अश्वत्थवृक्षस्याधः स्थापितवान् । विजयनगरप्रभुः अच्युतनरायः विशालम प्राङ्गणं निर्माय पूजादिव्यस्थां कृतवान् ।

"http://sa.wikipedia.org/w/index.php?title=बेळगावी&oldid=180012" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु