बेळगावीमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
बेळगावीमण्डलम्
—  मण्डलम्  —
बेळगावीमण्डले गोकाकजलपातः
कर्णाटकराज्ये बेळगावीमण्डलम्
Coordinates: 15°51′N 74°33′E / 15.85°N 74.55°E / 15.85; 74.55Coordinates: 15°51′N 74°33′E / 15.85°N 74.55°E / 15.85; 74.55
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
विभागम् बेळगावीविभागम्
केन्द्रम् बेळगावीनगरम्
विस्तीर्णम्[१]
 • Total १३,४१५ Square km (५,१७९.६ Square mile)
जनसङ्ख्या (2011)[१]
 • Total ४७,७८,४३९
भाषाः
 • अधिकृतभाषा कन्नडभाषा
भारतीयकालमानम् (UTC+5:30)
लिङ्गानुपातम् 1.04 पु/स्त्री
साक्षरत्तापरिमाणम् 64.2%
Precipitation ८२३ millimetres (. in)
जालस्थानम् belgaum.nic.in

इतिहासः[सम्पादयतु]

बेळगावीमण्डलम् (Belgaum district) उत्तरकर्णाटकस्य प्रधानं मण्डलम् । कर्णाटकस्य अतिविशालं प्रमुखं च मण्डलम् एतत् । बेलगावीप्रदेशस्य प्रचीनं नाम वेणुग्रामः इति । हलसि इति प्रदेशे प्राप्तस्य ताम्रशासनपत्रानुसारम् एतत् कदम्बवंशीयानां राज्ञां राजधानी आसीत् इति ज्ञायते । षष्ठशतकात् क्रि.श. ७६०पर्यन्तमपि चालुक्यानां प्रशासने आसीत् इति वदन्ति । कालान्तरे राष्ट्रकूटाः शासनं कृतवन्तः । क्रि.श. १५२० तमे वर्षे देवगिरियादवाः अत्र शासनं कुर्वन्ति स्म इति ज्ञायते । कालान्तरे विजयनगरसाम्राज्यम्। क्रि.श.१४७२ तमे वर्षे बहमनिसुल्तान्जनाः बेलगाव्याः उत्तरभागं जितवन्तः । क्रि.श.१४७३ तमे वर्षे बिजापुरसुल्तानः औरङ्गजेबेन पराजितः । अतः अनन्तरं कञ्चित्कालं यावत् बेलगावी मुघलसाम्राज्यस्य अधीने आसीत् । क्रि.श.१८१८ तमे वर्षे ब्रिटीशानां वशं गत्वा धारवाडमण्डलस्य एव भागः अभवत् । क्रि.श.१९४७ तमे वर्षे यदा भारतं स्वतन्त्रम् अभवत् तदा बेलगावी मुम्बयीराज्यस्य भागः अभवत् । क्रि.श. १९५६ तमे वर्षे यदा राज्यानां पुनर्विभागः अभवत् तदा बेलगावी मैसूरुराज्ये अन्तर्गतम् । कालक्रमेण मैसूरु कर्णाटकम् अभवत् । कित्तूरुनगरस्य इतिहासे अस्य मण्डलस्य महत्त्वं स्थानम् अस्ति । कित्तूरु चेन्नम्मा साहसस्य धैर्यस्य प्रतीका अस्ति भारतीयेतिहासे । आङ्ग्लप्रशासनस्य विरुद्धं आक्रमणं कृतवान् अन्यः सङ्गोळ्ळी रायण्णः अपि अस्य मण्डलस्य प्रजा एव । स्वातन्त्र्योत्तरकाले महात्मागान्धिमहोदयस्य आध्यक्षे ३९ तमं भारतीयकाङ्ग्रेस् अधिवेशनं बेळगावीनगरे अभवत् ।

विस्तीर्णता[सम्पादयतु]

१३४१ च.कि.मी


भैगोलिकता[सम्पादयतु]

बेळगावीमण्डलं समुद्रस्तरात् ७६२मी. औन्नत्ये अस्ति । राज्यराजधानीबेङ्गळूरुतः ५०१ कि.मी. दूरे राज्यस्य वायव्यदिशि स्थितम् । इतः मुम्बयी केवलं ५५०कि.मी दूरे, गोवानगरं १५९ कि.मी दूरे अस्ति । सह्याद्रिपर्वतस्य सानुप्रदेशे सिन्धुसागरात् १५० कि.मी. दूरे इदं मण्डलं शोभते । जनजीवनार्थम् अनुकूलकरं वातावरणं, यथेच्छं वर्षा च अस्य मण्डलस्य प्रकृतिगुणः । अस्मिन् मण्डले १२७८ ग्रामाः सन्ति । विस्तीर्णता १३,४१५ km² । २००१ तमवर्षस्य जनगणनानुसारं जनसङ्ख्या ४८लक्षमिता अस्ति (४७,७८,४३९)। प्रकृतं कर्णाटकराज्यस्य मण्डलेषु अत्यन्तं विशालं मण्डलम् एतत् । सह्याद्रिपर्वतश्रेण्याः पादतले एव विराजते एतत् मण्डलम् । अरब्बिसागरः १००कि.मी.दूरे अस्ति । मार्कण्डेयानदी निकटे एव प्रवहति ।

नद्यः[सम्पादयतु]

कृष्णा, घटप्रभा, मलप्रभा, मार्कण्डेया, हिरण्यकेशी, दूधगङ्गा, वेदगङ्गा च अस्य मण्डलस्य प्रमुखाः नद्यः सन्ति । रासकोप्प, हिडकल्, नविलुतीर्थं च विशालाः जलबन्धाः अत्र सन्ति ।

संस्कृतिः[सम्पादयतु]

समग्रभारतम् इव विविधतायाम् एकता बेलगावीमण्डलस्य वैशिष्ट्यम् । अत्र प्रादेशिकदृष्ट्या यद्यपि कन्नडभाषिकाः अधिकाः सन्ति तथापि मराठीभाषिकाः अपि अधिक्येन सन्ति । उत्तरकर्णाटकस्य एव जीवनशैली अत्र दृश्यते ।

वाणिज्योद्यमाः[सम्पादयतु]

अत्र इन्दाल् (भारतीय अल्युमिनियं कम्पनि ) यन्त्रोद्यमः प्रसिद्धः । भारतीयवायुसेनायाः प्रशिक्षणार्थं विमाननिस्थानकम् अपि अस्ति । एतत् उत्तरकर्णाटकस्य प्रधानं वाणिज्यकेन्द्रम् अस्ति । वृक्षकाण्डानां, पीठोपकरणानां, मत्स्यानां, खनिजवस्तूनाम्, अयोमूलानां वाणिज्योद्यमाः सम्यक् प्रचलन्ति । बेङ्गळूरु इव ऐटि उद्यमः सम्यक् चलति । वस्त्रोद्यमः अपि गण्नीयप्रमाणेन अस्ति ।

दर्शनीयानि स्थानानि[सम्पादयतु]

गोकाकजलपातः, तडसल श्रीमहालिङ्गेश्वरदेवालयः, हलेयकल्लिनकोटे, कोटेकेरे, कमलबसदि, स्वामीविवेकानन्दाश्रमः, कपिलेश्वरमन्दिरम्, हिडकल्जलबन्धः, मनवळ्ळी नविलुतीर्थजलबन्धः, मूडल्गि कब्बुमरुकट्टे, सवदत्त्तीरेणुकायल्लम्मदेवालयः, घटप्रभाजलपातः, गोडचिनमल्किजलपातः च प्रवासीस्थानानि सन्ति ।

उपमण्डलानि-१०[सम्पादयतु]

बेळगावी, खानापुरं, बैलहोङ्गल् सवदत्ती रामदुर्गम्, गोकाक, हुक्केरी , चिक्कोडी, रायबाग, अथणी (कर्णाटकम्)

क्षेत्राणि[सम्पादयतु]

१) बेळगावी[सम्पादयतु]

बेळगावीप्रदेशः "बेळुवलनाडु" इति प्रसिद्धम् आसीत् । अस्य वेणुग्रामः इति चारित्रिकं नाम आसीत् । अत्र दुर्गाणि, मन्दिराणि, जलपाताः, नदीसङ्गमादि दर्शनीयानि स्थानानि सन्ति । पूर्वकाले वेदाध्ययनशीलाः विप्राः अत्र वसन्ति स्म । स्वामी स्वामी विवेकानन्दः अत्र नवदिनानि यावत् स्थितवान् । बेळगावी नगरे सुन्दरः आकर्षकः रामकृष्णाश्रमः अस्ति । द्वादशशतके निर्मितस्य दुर्गस्य पार्श्वे कमलबसदि इति सुन्दरः षोडशस्तम्भाधीरतः शिल्पविशेषः अस्ति । एतत् शिलाबसदि इत्यपि कथयन्ति । एतत् परितः २०८ जैनप्रतिमाः सन्ति । नगरमध्ये प्रसिद्धः हनुमान् देवालयः अस्ति । एषः नगररक्षकः इति विख्यातः अस्ति । सेनाप्रदेशे मिलिटरी महादेवः इति ख्यातः शिवमन्दिरः राराजते । शहपुरमार्गे पार्श्वे कपिलेश्वरनामकः स्वयम्भूः द्विशतवर्षप्राचीनः लिङ्गविशेषः अस्ति । एतम् कपिलप्प इति च कथयन्ति । दक्षिणकाशी इति क्षेत्रस्य नाम अस्ति । श्रावणमासे शिवरात्रिपर्वणि च अत्र विशेषपूजादिकं भवति । बेळगावी समीपे ८. कि.मी दूरे कणबग्रामे रामतीर्थम् अस्ति । अत्र रामशिवयोः मन्दिरे स्तः । हलसीग्रामे कदम्बवास्तुशिल्परुपः श्री लक्ष्मीनरसिंहस्य देवालयः अस्ति । सुन्दरं गोपुरम् (५पादपरिमितम्), ४ - पादपरिमितोन्नता श्रीलक्ष्मीनारायणमूर्तिः सर्वालङ्कारविशिष्टा अङ्कस्थापितलक्ष्मीयुक्ता अस्ति । नृसिंहस्य १.५ पादपरिमितोन्नता मूर्तिः मानवदेहसिंहशिरविशिष्टा अस्ति । पुरतः योगी नारायणस्य शिलामन्दिरमपि अस्ति । मुगुटखानहुब्बळ्ळीप्रदेशे मलप्रभानदीतीरे सञ्चरन् श्री च्यवनमहर्षिः श्री रुद्रदेवम् अत्र प्रतिष्ठापितवान् यज्ञं च कृतवान् । श्रीनरसिंहं महाशिलायाम् आराध्य यज्ञान्ते विसृष्टवान् । श्रीयादवार्यः मूर्तिम् अन्विष्य अश्वत्थवृक्षस्याधः स्थापितवान् । विजयनगरप्रभुः अच्युतनरायः विशालम प्राङ्गणं निर्माय पूजादिव्यस्थां कृतवान् ।

२) सवदत्ती[सम्पादयतु]

सवदत्ती दुर्गः

द्विसहस्रवर्षप्राचीनं श्री रेणुकादेव्याः जागृतं स्थानम् एतत् क्षेत्रम् । रेणुकादेवीम् एल्लम्मा देवी इति च कथयन्ति । महर्षिजमदग्निः अत्र तपः कृतवान् । अत्र सप्त ह्रदानि सुन्दराणि सन्ति । मङ्गलवासरे शुक्रवासरे श्रावणमासे पूर्णिमातिथौ च अत्र बहुजनाः आगच्छन्ति । इष्टार्थदायकं पवित्रं क्षेत्रम् एतत् । अत्र बनदहुण्णिमे(माघमासस्य पौर्णिमा)पर्यन्तं यात्रोत्सवः प्रचलति । एतं ‘एल्लम्मादेवी जात्रे’ इति कथयन्ति ।

मार्गः[सम्पादयतु]

३) जैनमन्दिरम्[सम्पादयतु]

बैलहोङ्गलसमीपे देगांवग्रामे द्वादशशतकीयः कल्लुबसदिः (कमलबस्ति इत्यपि ख्यातम्) जैनमन्दिरम् अस्ति । अत्र महाकाळी- महासरस्वती- लक्ष्मीनारायणमन्दिराणि सन्ति ।

मार्गः[सम्पादयतु]

  • बेळगावी ५० कि.मी

४)सोगल[सम्पादयतु]

अस्मिन् क्षेत्रे सोमेश्वरमन्दिरं सुन्दरजलपातः उद्यानं च आकर्षणीयानि सन्ति । राष्ट्रकूटानां शिल्पम् एतत् कलात्मकम् अस्ति । पार्वत्याः तपोभूमिः एषा । शिवलिङ्गरूपी श्रीनरसिंहशिल्पं विशिष्टतया रचितम् अस्ति ।

मार्गः[सम्पादयतु]

  • सवदत्तितः ३० कि.मी ।
  • बेळगावी ५८ कि.मी ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


  1. १.० १.१ "2001 Census". Official Website of Belgaum District. Retrieved 4 January 2011. 
"http://sa.wikipedia.org/w/index.php?title=बेळगावीमण्डलम्&oldid=240406" इत्यस्माद् पुनः प्राप्तिः