ब्रह्मसूत्राणि

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भारतीयार्षपरम्परायाम् ऋषीणां योगदानम् अत्यद्भुतम् । ते च साक्षात्कृतधर्माणः ऋषयः ऋतम्भरया प्रज्ञया महतः ज्ञानराशेः आविष्कारं चक्रुः । सा एव च ज्ञानराशिः ’अपौरुषेयं वाक्यं’ इति लक्षणेन लक्षितवेदशब्देन अभिधानं भेजे ।’अनन्ता वै वेदाः’ इति श्रौतेनैव वाक्येन ज्ञायते यत् ते च वेदाः ऋग्-यजु-साम-अथर्वात्मना अपौरुषेयाः सन्तः ब्रह्माण्डे व्याप्ताः विद्यन्ते । यद्यप्येक एव वेदः तथापि वेदस्वरूपानुगुण्येन ऋग्वेदादि नामभिः अभिहितः । मोक्षाख्यस्य चरमपुरुषार्थस्य विषये तात्पर्येण बोधयति इति कृत्वा वेदस्य परमप्रामाण्यं प्राप्तम् । एतदवल्बिताः काश्चन स्मृतीः (मन्वादयः), तासां का गतिः? इत्याकाङ्क्षायां वेदोपबृंहणद्वारा प्रामाण्यं स्थापितम् ।’इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ इति मनोः वाक्येन इदं वेदसहकारित्वं स्पष्ठं भवति स्मृतीनाम् ।

संस्कृतवाङ्मयं च अतिविस्तृतं, तत्र प्रथमं वेदाः, षडङ्गानि, इतिहास-पुराणानि, धर्मशास्त्रमिति । तदनन्तरत्वे च षडास्तिकदर्शनानि नास्तिकदर्शनानीति प्रसिद्धम् । आस्तिकदर्शनान्तर्गतत्वे यत् वैयासिकदर्शनम् उत्तरमीमांसादर्शनं तत्र ’प्रस्थानत्रयम्’ इति अत्यन्तं प्रसिद्धम् । श्रुतिप्रस्थानम्, स्मृतिप्रस्थानम्, न्यायप्रस्थानमिति अवयवत्रयम् । तत्र तृतीयप्रस्थानन्तर्गतं भवति इदं ब्रह्मसूत्रम् ।’प्रस्थानम्’ इति शब्दस्य मार्गः इत्यर्थः । ब्रह्मावगतौ मार्गः इत्यर्थः । एवञ्च ब्रह्मसूत्रं नाम ब्रह्मसम्बद्धं सूत्रमित्यर्थः सिद्धो भवति । अस्य च कर्ता बादरायणः । ग्रन्थस्यास्य अन्यदपि नाम अस्ति यत् वैयासिकसूत्राणि इति । शारीरकमीमांसा इत्यपि व्यवह्रियते । शारीरस्य जीवस्य अद्वैतब्रह्ममार्गः प्रदर्श्यते इति हेतोः ।

दर्शनेषु काश्चन क्रमः आदृतः वर्तते यत् प्रथमं सूत्राणि, अनन्तरं भाष्यम्, वार्तिकम्, व्याख्यानम् इति शास्त्रविचाराणाम् उपस्थापनक्रमः येन च मन्दमतीनां सुलभेन प्रतिपत्तिः भवति । तथैव च ग्रन्थस्यास्य सूत्रकारः श्रीबादरायणः, भाष्यकारः श्रीः आद्यः शङ्करः, वार्तिककारः श्रीसुरेश्वराचार्यः, व्याख्यानकारास्तु अनेके सञ्जाताः श्रीगोविन्दानन्दः, श्रीवाचस्पतिमिश्रः, श्रीमदानन्दगिरिः, श्रीः अमलानन्दः, श्रीमदप्पय्यदीक्षितः इत्यादयः । इतोऽपि अनेके स्युः किन्तु, एते व्याख्यानकारास्तु प्रसिद्धाः प्रधानभूताः शास्त्रप्रपञ्चे । इति ब्रह्मसूत्रग्रन्थस्य आपाततः परिचयः ।

प्राक्कथनम्[सम्पादयतु]

बादरायणविरते ब्रह्मसूत्रग्रन्थे तावत् चत्वारः अध्यायाः सन्ति । प्रत्येकम् अध्यायस्य एकैकं नाम दत्तं तैः । तानि च समन्वय-अविरोध-साधन-फलानि इति । पुना प्रत्येकम् अध्याये अपि चत्वारः पादाः भवन्ति । संहत्य च १६ पादाः विद्यन्ते । तथैव च ५५५ सूत्राणि, १९१ अधिकरणानि, समग्रे ब्रह्मसूत्रे विराजन्ते । अध्यायान्तर्गतत्वे पादः, पादान्तर्गतत्वे च अधिकरणम्, अधिकरणान्तर्गतत्वे च सूत्राणीति व्यवस्था । ब्रह्मसूत्रस्थः सर्वोऽपि विचारः अधिकरणस्वरूपेण बद्धो भवति । एवं पूर्वमीमांसायामपि अधिकरणक्रमः आदृतः सूत्राणाम् अर्थकथनार्थम् । तच्च अधिकरणं पञ्चावयवात्मकं भवति । ते च एकया कारिकया प्रदर्शिताः -

विशयो विषयौव पूर्वपक्षः तथोत्तरम् ।
सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥

क्वचित् प्रयोजनमपि अवयत्वेन परिगण्यते । किन्तु, सः पक्षः गौणः । इदानीम् एकैकोऽपि अवयवः सङ्क्षेपेण विव्रियते । तत्रैते अधिकरणानि -

विशयः[सम्पादयतु]

विशयः नाम संशयः इत्यर्थः । विशयस्तु विषयसम्बद्धः भवति । विषयवाक्यं तु उपनिषद्भ्यः उद्ध्रियते । विषयवाक्यगतपदेषु संशयः उद्भवति । उदाहरणार्थं वक्ष्यमाणे अव्यक्तम् इति पदं कठोपनिषत्तः उद्धृतम् । तत्र संशयः नाम किं सा”ोक्तं त्रिगुणात्मकं जडं प्रधानं ग्राह्यम् ? उत परमात्मा ग्राह्यः? इति । पुना संशयः कदाचित् पञ्चकोटिकः, चतुष्कोटिकः अपि भवति प्रकरणबलात् ।

विषयः[सम्पादयतु]

अवयवोऽयम् अधिकरणेषु सर्वत्र अत्यन्तप्रधानं स्थानमावहति । एतत् केन्द्रीकृत्यैव सर्वे अवयवाः विशयादयः परिभ्रमन्ति । कस्याश्चन उपनिषदः संशयघटितवाक्यम् अथवा पदं विषयत्वेन परिगण्यते अधिकरणेषु ।

पूर्वपक्षः[सम्पादयतु]

पूर्वपक्षस्य अपरं नाम आक्षेपः इति । सामान्येन साङ्ख्यादिदर्शनसम्बद्धाः भवन्ति आक्षेपाः । कदाचित् पूर्वपक्षत्वेन सम्भाव्य उत्थाप्य च ते निराक्रियन्ते । पुर्वपक्षः सयुक्ति सप्रामणमेव निरूप्यते अधिकरणेषु ।

सिद्धान्तः (उत्तरम्)[सम्पादयतु]

आक्षेपस्य समाधानमेव उत्तरपक्षः अथवा सिद्धान्तपदेन व्यवह्रियते । सिद्धान्तः नाम सिद्धः निर्णयः इत्यर्थः । सिद्धः अन्तः (निर्णयः) यस्मिन् विषये सः सिद्धान्तः इति कथ्यते । सिद्धान्तः पूर्वपक्षम् अनुसृत्यैव सप्रमाणं सयुक्ति उपस्थाप्यते । पुना अयम् अधिकरणस्य सारभूतः भागः ।

सङ्गतिः[सम्पादयतु]

सङ्गतिः नाम सम्बन्धः इत्यर्थः । सङ्गतिरियं त्रिषु अध्याय-पाद-अधिकरणादिषु स्थानेषु सम्भवति । सम्बन्धस्य द्विनिष्ठत्वात् अध्यायादिक्रमेण उत्तरोत्तरस्य पूर्वपूर्वांशेन सङ्गतिः अनिवार्या भवति ब्रह्मसूत्रग्रन्थे ।

एवं ब्रह्मसूत्रं प्रस्थानत्रयान्तर्गतं सत् प्रधानस्थानं भेजे शास्त्रप्रपञ्चे ।ब्रह्मसूत्राणाम् इदं मुख्यं प्रयोजनम् अस्ति यत् दशसु उपनिषत्सु संशयस्थानं चित्वा सयुक्ति पूर्वपक्षान् अवश्यकस्थलेषु स्वयमुद्भाव्य, स्वयम् उद्भूतस्य च निराकरणेच्छया सिद्धान्तदृढीकरणलाभाय कृतम् इत्यत्र नास्त्यसंशयः | प्रत्येकं ग्रन्थेऽपि उपोद्घातः मङ्गलं च आरम्भे उच्यते ।किन्तु, ब्रह्मसूत्रग्रन्थे उपोद्घातस्य आदिमं वाक्यमेव मङ्गलबोधकं इत्ययमेव विशेषः ।उपोद्घातः तु उपोद्घातः, अध्यासभाष्यम्, सम्भावनाभाष्यम्, प्रमाणभाष्यमिति चतुर्धा विभक्तः ।तत्र तावत् अनिर्वचनीयख्यादीनाम् अध्यासस्य निरूपणं कृत्वा, निष्कृष्ठलक्षणं च प्रदर्शितम् ।एतत्सहकृतत्वेन केचन विचाराः अध्याससम्बद्धाः सम्भावनाप्रमाणभाष्ययोः निरूपितः ।

अध्यायाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=ब्रह्मसूत्राणि&oldid=295523" इत्यस्माद् पुनः प्राप्तिः