भक्तियोगः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भारतीयविचारानुसारेणा आत्मोन्नतिं साधयितुं चत्वारो मार्गाः उपदिष्टाः सन्ति- ज्ञानमार्गः, भक्तिमार्गः, कर्ममार्गः योगमार्गश्च । स्वनामधन्यैः श्रीरमणमहर्षिभिः अत्यन्तसरलरीत्या एतेषां चतुर्णां मार्गाणां विवेचनं कृतम् उपलभ्यते ।

हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

भक्तियोगमार्गः[सम्पादयतु]

  1. देवालये देवताप्रसादग्रहणसमये अहं भक्तः इत्येव भावना मनसि वर्तते । अहं प्राध्यापकः , यन्त्रकलाविशारदः इत्येवंविधा सांसारिकी भावना मनसि नैव तिष्ठति । परन्तु मन्दिराद् बहिर्गमनाद् ऊर्ध्वं व्यावहारिकजीवनविषयकाः सम्बन्धाः स्मृतिपथम् आयान्ति । व्यवसाये यथा लाभहानिविचारः अस्माभिः क्रियते स उद्योगपतिरुपेण एव अस्माभिः क्रियते । तदनुसारमेव वयं सुखदुःखम् अनुभवामः । सुखदुःखप्राप्तिसमये यदि अहं प्रथमम् ईश्वरभक्तः तदनन्तरम् उद्योगपतिः इत्येवंविधं स्मरणं वयं कुर्मः, तर्हि व्यवसाये समुत्पन्नां लाभहानिम् ईश्वरस्य प्रसादरुपेण ग्रहीतुं वयं शक्ष्यामः ।
  2. सागरे अनेकाः वीचयः सन्ति । प्रत्येकवीचिः अपरया सार्धं क्षणमात्रमेव संपर्कम् आयाति । परन्तु तस्याः मूलसंबन्धः तु समुद्रेण सार्धमेव । तद्वदेव जीवस्य मूलसंबंधः ईश्वरेण साकम् अस्ति । इत्यस्मिन् विषये अज्ञानमेव अस्माकं सर्वेषां दुःखानां कारणम् ।
  3. अल्पकालमेव यदि अस्मासु भक्तबुध्दिः अवतिष्ठते तर्हि वयं शान्तिम् आनन्दं च अनुभवामः । अतः यदि मूलतः एव अस्मासु भक्तबुध्देः जागरणं स्यात् तर्हि अस्माकं सर्वाणि दुःखानि सर्वकालमेव् विलयं यायुः ।
  4. शरीरं वाक् एवं मनः इत्येतेषां साहाय्येन अनुष्ठितानि कर्माणि क्रमशः पूजनं जपः चिन्तनम् इति नामभिः निर्दिष्टानि अनुक्रमेण उत्तरोत्तरं श्रेष्ठानि सन्ति । एताः क्रियाः न भक्तिस्वरुपाणि प्रत्युत भक्तिसाधनानि इति रीत्या द्रष्टव्यानि पूजायामेव प्रमुखतः शरीरस्य, किंतु अल्पप्रमाणेन वाक् एवं मनः इत्येतयोरपि सहभागः अस्त्येव । तद्वदेव जपे वाणी एवं मनः इत्येनयोः, तथा चिन्तने मनसः एव केवलं सहयोगः वर्तते । पूजायां त्रीणी अवलम्बनानि सन्ति । अतः सा सुलभा वर्तते । चिन्तने केवलं मनसः एव आलम्बनं विद्यते । अतः तत् दुःखाध्यं तिष्ठति । उदाहरणार्थं त्रिचक्रयुक्तं द्विचक्रयुक्तम् एकचक्रयुक्तं च वाहनम् उत्तरोत्तरं कठिनमेव अस्ति ।
  5. भक्तिसाधनायाः एतानि त्रीणि सोपानानि सन्ति । अधः स्थितं सोपानम् उपरिस्थित्ं सोपानं प्रति गमनस्य साधनम् अस्ति । मूलतः एव उपरिस्थितस्य सोपानस्य साधनाविषये दुराग्रहः अष्टरोटिकाभक्षणेन यदि क्षुधा शाम्यति तर्हि अष्टमीं रोटिकाम् एव अहं प्रथमं भक्षयामि इति चिन्तनवत् हास्यास्पदं स्यात् ।
  6. एकस्यैव शब्दस्य उच्चारणं यदि पुनः पुनः क्रियते तर्हि एकाग्रता सुलभा भवति इत्यस्ति ‘जप’ प्रक्रियायाः सिध्दान्तः । कस्यापि शब्दस्य जपेन एकाग्रता तु प्रसिध्येत् किंतु तेन चित्तशुध्दिरपि स्यात् इति न मन्तव्यम् । ईश्वरस्य नामस्मरणेन् एकाग्रतया साकमेव चित्तशुध्दिरपि भवति । अतएव आध्यात्मिक साधनायां भगवतः नामस्मरणस्य माहात्म्यं वर्तते ।
  7. कापि वीचिः यदि आकारम् अभिलक्ष्य समुद्रस्य चिन्तनं कुर्यात् तर्हि तद् भेदबुध्दिग्रहणादेव संभवेत् । किंतु यदि स्वस्य तथा समुद्रस्य जलस्वरुपं मनसि कृत्वा जलबुध्द्या ध्यानं क्रियेत् तर्हि सः (समुद्रः) अहमेव इति बुध्दिः जागृयात् । इयम् अभेदभावना निश्चितमेव भेदबुध्दिम् अतिशेते । इदं शुध्दज्ञानम् अवाप्य वीचिः सर्वाभ्यः परिच्छिन्नताभ्यः मुक्ता भवेत् ।
  8. जीवः यदा ईश्वरस्य सगुणरुपं ध्यायति तदा भेदबुध्दिपूर्वकम् एव तत् करोति । किन्तु जीवः तथा ईश्वरः इत्यनयोः चैतन्यस्वरुपम् अभिलक्ष्य अभेदः एव सन्तिष्ठते । स ईश्वरः अहमेव इत्यनयोः अभेदबुध्द्या कृतं ध्यानं भेदबुध्द्या कृतात् ध्यानात् निश्चितमेव श्रेष्ठम् इति भवति वेदान्तशास्त्रस्य सिध्दान्तः ।
  9. भक्तेः स्वरुपं नित्यम् अस्ति । अतः तत् सत्स्वरुपम् इति निगद्यते । परन्तु तत् वृत्तिशून्यं नाम सर्वैः विकारैः मुक्तं तिष्ठति । वृत्तयः बुध्द्याम् उत्पद्यन्ते । अभेदभावनायाम् ‘अहं सत्स्वरुपः’ इति वृत्तिः प्रयत्नान् अपेक्षते । अस्या दीर्घकालिकेन अभ्यासेन ध्यातुः सत्स्वरुपे उपस्थितिः प्रजायते । तेन वृत्तिः अपि शान्ता भवति ।


यदा कश्चन स्वपिति तदा ‘अहं स्वपिमि’ इति वृत्तिः मनसि तिष्ठति । इयं वृत्तिः मनसि स्थिताः अन्याः वृत्तीः शान्ताः विधाय किंचित्कालानन्तरं स्वयमपि शान्ता भवति । एवं केवलं निद्रावस्था एव अवशिष्यते । तद्वदेव ‘अहं सत्स्वरुपः’ इति वृत्तिरपि शान्ता भवति । एवं केवलं सत्स्वरुपमेव अव-शिष्यते । इदमेव परस्याः भक्तेः स्वरुपम् । इयमेव उत्तमा भक्तिः ।‎

"http://sa.wikipedia.org/w/index.php?title=भक्तियोगः&oldid=282096" इत्यस्माद् पुनः प्राप्तिः