भगवान् दास्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(भगवान् दासः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भगवान् दासः
जननम् क्रि.श.१८६९तमवर्षस्य जन्वरीमासस्य दादशमदिनम् ।
मुद्देनहळ्ळि चिक्कबळ्ळापुरमण्डलम्, कर्णाटकम्, भारतम्
मरणम् क्रि.श. १९५८तमवर्षस्य सप्टम्बर् मासस्य अष्टादशमदिनम् ।
[[ ]]
राष्ट्रियता भारतीयः
वृत्तिः दार्शनिकः
धर्मः हिन्दुधर्मः
मातपितरौ (माता)
(पिता)

डाक्टर् भगवानदासः (जीवितकालः क्रि.श. १८६९तमवर्षस्य जनवरी १२तः क्रि.श. १९५८तमवर्षस्य सेप्टम्बर् १८) भारतस्य प्रमुखः शिक्षाशास्त्रज्ञः स्वातन्त्र्ययोद्धा दार्शनिकः संस्थानां संस्थापकः । एषः डा. अनिबेसन्ट् इत्यनया सह व्यावसायिकसहयोगं दत्तवान् । एतत् कालन्तरेण सेण्ट्रल् हिन्दु महाविद्यायलयस्य संस्थानस्य प्रमुखं कारणम् अभवत् । अयं हिन्दू महाविद्यालयः काशी हिन्दु विश्वविद्यालयस्य स्थापनायाः हेतुः अभवत् । पश्चात् काशीविद्यापीठस्य संस्थापनं कृत्वा तत्र प्रधानाचार्यः अभवत् । डा.भगवान् दासः हिन्दीभाषाया संस्कृतभाषाया च ३०अधिकान् ग्रन्थान् रचितवान् ।

जीवनपरिचयः[सम्पादयतु]

डा.भगवान्दासस्य जन्म क्रि.श.१८६९तमे वर्षे जनवरिमासे द्वादशे अहनि वाराणस्यां समृद्धे साहपरिवारे अभवत् । क्रि.श. १८८७तमे वर्षे पाश्चात्त्यदर्शनशास्त्रे स्नातकोत्तरपदवीं सम्पादितवान् । क्रि.श. १८९०तः १८९८पर्यन्तम् उत्तरप्रदेशे विभिन्नमण्डलेषु न्यायाधीशरूपेण सर्वकारीयम् उद्योगं कृतवान् । क्रि.श. १८९९तमवर्षतः क्रि.श. १९१४तमवर्षपर्यन्तं सेण्ट्रल् हिन्दु कालेज् इति शिक्षासंस्थायाः संस्थापकसदस्यः वेतनरहितनिदेशकः चाभवत् । क्रि.श. १९१४तमे वर्षे अयमेव महाविद्यालयः काशीहिन्दुविश्वविद्यालयः इति नम्ना परिवर्तितः । डा. भगवान्दासः अस्य विश्वविद्यालयस्य संस्थापकसदस्येषु अन्यतमः । क्रि.श. १९४०तमे वर्षे काशीविद्यापीठस्य स्थापनपर्यन्तम् अस्य विश्वविद्यालयस्य कुलपतिः असीत् । महात्मागान्धेः असहकारान्दोलने भागग्रहणस्य कारणेन क्रि.श. १९२९तमे वर्षे एतं स्थानात् मुक्तम् अकुर्वन् । पश्चात् एकवर्षं यावत् गृहात् बहिः काशीविद्यापीठे एकन्ते वसन् कारावारवासस्य अवधिं पूरितवान् । क्रि.श. १९३४तमे वर्षे उत्तरप्रदेशस्य सप्तनगरेषु भारतस्य केन्द्रियव्यवस्थापिकासभायाः सदस्यत्वस्य त्यागपत्रं दत्तवान् । पश्चात् लोकन्तं त्यक्त्वा एकान्तम् इच्छन् भारतीयविचारधाराचिन्तने मग्नः अभवत् । भारतस्य राष्ट्रपतिः क्रि.श.१९५५तमे वर्षे भारतरत्नप्रशस्त्या सम्मानितः अभवत् ।[१]

मनोविज्ञानव्याख्यनम्[सम्पादयतु]

लोकः डा.भागवान्दासं मनोविज्ञाने रागद्वेशादीनां वर्गीकरणार्थं स्मरणं करोति । सुखवस्तुविषये आकर्षणं दुःखदवस्तूनां विषये विकर्णं यदा चेतनं प्राणिनां सम्बन्धविषे प्रयोजयति तादा एषः एव रागः अथवा द्वेषस्य रूपमाप्नोति । आलम्बनविषये महत्त्वम्, समानथा अथवा हीनतायाः भावानुसारं रागः अथवा प्रेम क्रमशः श्रद्धा स्नेहः तथा दया इति परिणमते । एवं द्वेषः आलम्बनभेदात् भयस्य क्रोधस्य घृणायाः च रूपेण परिवर्तते । अस्मत् ज्येष्ठानां विषये श्रद्धा अथवा भयं भवति । समानेषु स्नेहः क्रोधः वा भवति । कनीयसि अनुकम्पः दया वा अथवा घृणा भवति । एवमेव अरिषड्वर्गस्य अतिरञ्जनेन अथवा अनुपयुक्तविषये संलग्नं भवति चेत् तेन मोनोविकारः भवति । अन्तिमपरिणामे अनेकप्रकरकाः उन्मादाः सम्भावन्ति ।

धर्मविज्ञानम्[सम्पादयतु]

डा.भगवान्दासः तटास्थरूपेण सनातन्धर्मस्य वैज्ञानिकविश्लेषणं करोति । तस्य चिन्तनानुगुणं सर्वमतधर्माणां लक्ष्यम् एकम् एव । सर्वेषु एवं विश्वस्तं यत् परमात्मा सर्वेषां हृदये आत्मनः रूपेण उपस्थितः अस्ति । सर्वप्राणिषु सः उपविष्टः अस्ति । सर्वेषां पुरतः पृष्ठतः सः एव अस्ति । सर्वमतधर्मेषु ज्ञानं भक्तिः कर्म इति त्रीणि अङ्गानि सन्ति । ज्ञानकण्डं वास्तविकाता च सर्वमतधर्मेषु समानम् एव । भक्तिकाण्डस्य रीति अपि एका एव । सर्वमतेषु देवः अस्त्येव सः एकः एव । एतत् सर्वे अङ्गीकुर्वन्ति अपि । पुण्यस्य फलं सुखं पापस्य फलं दुःखम् इति विषये सर्वेषाम् एकमतम् । व्रतम् उपवासः तीर्थयत्रा दानम् एतत्सर्वं सर्वमतधर्मेषु अस्ति एव । सर्वमतधमेषु चत्वारि मूलानि मन्येन्ते । त्रुटिः स्मृतिः सदाचारः हृदयाभ्यनुज्ञा इति । भगवान् निराकारः निर्गुणः सर्वान्तर्यामी इति वदन्तः एव जनाः तस्य मन्दिराणि मस्जिदानि चर्च इति रचयन्ति । डा. भागवान्दासः सर्वमतधर्माणाम् अनुयायी आसीत् । अमाकं मतं सर्वश्रेष्टम् । अत्र सर्वे बलात्कारेण वा आनेतव्या इति अहङ्कराः सर्वमतेषु सन्ति ।

डा. भगवान्‌दास ने सभी धर्मो के अनुयायियों की नासमझी में भी समता दिखाई है। मेरा मजहब सबसे अच्छा है, दूसरे मजहबवालों को जबरदस्ती से अपने मजहब में लाना चाहिए, यह अहंकार सबमें देखा जाता है। यह नहीं समझते कि खास तरीके खास खास देशकाल अवस्था के लिए बताए गए हैं। अंत में डा. भगवान्दास ने इस बात पर बल दिया है कि आदमी की रूह इन सबों में बड़ी है। आदमियों ने ही मजहब की शक्ल समय-समय पर बदल डाली है।

  1. "Bharat Ratna Awardees". Retrieved 10 सितम्बर 2014. 
"http://sa.wikipedia.org/w/index.php?title=भगवान्_दास्&oldid=282069" इत्यस्माद् पुनः प्राप्तिः