भट्टिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

परिचायकम्[सम्पादयतु]

वैय्याकरणः कविः न भवेत् प्रायः । किन्तु कविः वैय्याकरणोऽपि भवेदेव । आलङ्कारिकः कविः भवेदेव इति नास्ति । अपि तु कविः आलङ्कारिकश्च भवेत् । भट्टिः एकः एतादॄशः संस्कृतकविः वर्तते । महावैय्याकरणः आलङ्कारिकः कविश्च भट्टिः । वलभीपुरम् एतस्य जन्मस्थानम् । वलभ्याः राज्ञः श्रीधरसेनस्य आश्रये आसीदिति तस्य काव्यान्ते विद्यमानात् इति वलभीवास्तव्यस्य श्रीस्वामिसूनोर्भट्टमहाब्राह्मणस्य महावैय्याकरणस्य कृतौ... इति वाक्यात् अपि च -

काव्यमिदं विहितं मया वलभ्याम्, श्रीधरसेननरेन्द्रपालितायाम् ।
कीर्तिरतो भवतात् नृपस्य तस्य, प्रेमकरः क्षितिपो यतः प्रजानाम् ॥

इति श्लोकात् अवगम्यते । अस्य भट्टिस्वामिन् ,भर्तृ इति नामान्तराणि सन्ति । एतस्य पितुः नाम श्रीस्वामिन् इति । श्रीधरः स्वामी यस्य इति बहुव्रीह्यर्थे एतम् "श्रीधरस्वामिन्" इत्यपि केचन आह्वयन्ति ।

कालः[सम्पादयतु]

क्रि.श.६४१तः ६५१ वर्षपर्यन्तम् वलभ्याम् चतुर्थः श्रीधरसेनो नाम राजा "महाराजाधिराजः" इति बिरुदाङ्कितः बभूव इति "Prof. Macdonal" महाशयः स्वस्य History of sanskrit literature इति ग्रन्थे लिखितवान् । तथा च संस्कृतचरित्रविमर्शकाः प्रो.यम्. कृष्णमाचार्याः, प्रो.तरणीचरण चौधुरी महोदयाश्च भट्टिकविना स्वकाव्यम् ''रावणवधम्'' अर्थात् भट्टिकाव्यम् विरचितमिति उद्गिरन्ति । एतेन ज्ञायते यत्- एषः क्रिस्तशके ६४० तः ६५० तमे वर्षाभ्यन्तरे कालांशे एतत् काव्यम् रचितवान् आसीत् इति ।

कृतिः वस्तु च[सम्पादयतु]

यद्यपि एतेन स्वस्य काव्यस्य रावणवधम् इति नामकरणम् कृतमासीत । किन्तु काव्यस्य अनन्यतायाः कारणेन स्वेनैव कविनाम्ना एतत्काव्यम् प्रख्यातम् भट्टिकाव्यम् इति । भट्टिकाव्यमित्युक्ते यथा अवगच्छन्ति सहूदयाः तथा न रावणवधम् । भट्टिना नान्यत् किमपि काव्यम् कृतम् समुपलभ्यते । किन्त्विदमेकमपि अनेककाव्याध्ययनस्य प्रयोजनमात्रम् अवश्यं जनयति । एतत्र काव्ये कविः रामायणस्य कथाभगम् स्वीकृत्य रावणस्य वधोद्देशेन रामावतारम् आरभ्य दीर्घम् कथावस्तु चिनोति । द्वाविंशतिसर्गात्मकम् व्याकरणकाव्यशास्त्रयोः दर्पणायितम् इदम् काव्यम् कविना "रावणवधम्" इत्यभिहितम् । अत्र रामस्य जननादारभ्य सीतापहरणपर्यन्तम् प्रकीर्णकाण्डान्तर्गताः पञ्चसर्गाः वर्तन्ते । सुग्रीवपट्टाभिषेकात् मारुतिसंयमपर्यन्तम् त्रयः सर्गाः अधिकारकाण्डान्तर्गताः । सीताभिज्ञानदर्शनात् आसेतुबन्धं त्रयः सर्गाः प्रसन्नकाण्डे अन्तर्भवन्ति । सेतुबन्धम् आरभ्य अयोध्यां प्रत्यागमनपर्यन्तम् नवसर्गाः तिङन्तकाण्डे अन्तर्भवन्ति ।

भट्टिकाव्यस्य वैशिष्ट्यम्[सम्पादयतु]

व्याकरणलक्ष्यलक्षणोदाहरणैः समन्वितम् काव्यमिदम् यथा पण्डितमान्यम् तथा काव्यमर्यादायामपि अद्वितीयम् सत् काव्यरसिकानां हृदयेऽपि स्मरणीयम् स्थानमलभत । काव्ये व्याकरणे च कवेः प्रौढिंमा अनन्यसदृशा । शैली च रसमयी । कविताधोरणिः रसभूयिष्ठा, कविताव्यसनिनां आधारग्रन्थः, वैय्याकराणानाम् मुखदर्पणम्, नवरसाणां भाण्डागारं च केवलम् भट्टिकाव्यम् । प्रसन्नकाण्डे शब्दालङ्कारस्य अर्थालङ्कारस्य माधुर्यस्य भाषासमावेशस्य च निरूपणानि लभ्यन्ते । अद्वितीयेन काव्येन भट्टौ वय्याकरणता आलङ्कारिकता च सिद्धे अभूताम् इत्यत्र न संशयः । अस्मिन् कव्ये यथा पण्डिताः मान्यन्ते तथा वर्णनाः सर्वाः काव्यव्याकरणशास्त्रयोः सम्प्रदायान् अनतिक्रम्य ग्रथिताः सन्ति ।

निदर्शनश्लोकाः[सम्पादयतु]

हिण्मयी साललतेव जङ्गमा, च्युता दिवः स्थास्नुरिवाचिरप्रभा ।
शशाङ्ककान्तेरधिदेवताकृतिः, सुता ददे तस्य सुताय मैथिली ॥
दूरं समारुह्य दिवःपतन्तम्, भृगोरिवेन्दुं विहितोपकारम् ।
बद्धाऽनुरागोऽनुपपात तूर्णम्, तारागणः सम्भृतशुभ्रकीर्तिः ॥
शशाङ्कनाथापगमेन धूम्राम्, मूर्छापरीतामिव निर्विवेकाम् ।
ततः सखीव प्रथितानुरागा, प्राबोधयद् द्यां मधुरारुणा श्रीः ॥
"http://sa.wikipedia.org/w/index.php?title=भट्टिः&oldid=254194" इत्यस्माद् पुनः प्राप्तिः