भद्रावती

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भद्रावती नगरस्य चित्रम्

भद्रावती यन्त्रागाराणां पट्टणम् । एतत् भारतदेशे कर्णाटकराज्ये, शिवमोग्गजिल्हायां अस्ति । एत् शिवमोग्गजिल्हायाः एकं तालूकु केन्द्रम् अस्ति । एतत् बेङगलूरुतः २५५ कि.मी दूरे अस्ति । शिवमोग्गतः १८ कि.मी दूरे अस्ति । भद्रावती पट्टणस्य ६७ च कि.मी क्षेत्रफलमस्ति । २००१ जनगणति प्रकारेण १६०६६२ जनसङ्ख्या अस्ति ।

चरित्रम्[सम्पादयतु]

भद्रानदीकारणतः भद्रावतीति नाम आगतम् । भद्रायाः तीरे एतत् अस्ति । पूर्वं ’ बेङ्गीपुरम्, वेङ्कीपुरम् ’ इति अह्वयन्ति स्म । एषु दिनेषु अत्र बहूनि यन्त्रागाराणि स्थापितानि । १९१८ तमे वर्षे मैसूरु कब्बिण यन्त्रागारं स्थापितम् । अन्न्तरम् एतस्य नाम विश्वेश्वरय्य कब्बिण मत्तु उक्किन कार्खाने इति नाम स्थापितम् । अद्य देशे एतत् अयसठ्ठः श्वेतायसश्च मुख्यं निर्माणकेन्द्रम् अस्ति । मैसूरु कागदयन्त्रागारम् १९३६ तमे वर्षे आरब्धम् । तस्य नाम मैसूरु कागद कार्खाने इति । तदा आरभ्य यन्त्रागाराणां नगरमिति विख्यातम् ।

भौगोलिकम्[सम्पादयतु]

भद्रावती कर्णाटकस्य मध्यभागे शिवमोग्गजिल्हायाः दक्षिणपूर्वान्तिमभागे अस्ति । भद्रावती १३ डिग्रि ५० मिनट्स् उत्तर - अक्षांशे, ७५ डिग्रि ४२ मिनट्स् पू. रेखांशे अस्ति । भद्रावतीतालूकस्य पश्र्चिमदिशि होन्नाळी तालूकु, पूर्वदिशि चन्नगिरितालूकु, दक्षिणदिशि नरीकेटे तालूक् च सन्ति । भद्रावती समुद्रस्तरतः ५८० मीटर् उन्नतस्थाने अस्ति ।

भद्रावतीं प्रति गमनस्य मार्गसूची[सम्पादयतु]

मार्गः[सम्पादयतु]

बेङगलूरुतः तुमकूरु, तिपटूरु, अर्सीकेरे, कडूरु, बीरुरु, तरिकेरे - द्वारा बेङ्गलूर-होन्नावर एन्.एच् २०६ महामार्गेण ( बि-एच् मार्गेण ) भद्रावतीं प्राप्तुं शक्नुमः । बेङगलूरुतः यानि शिवमोग्गं प्रति बस् यानानि गच्छन्ति तानि भद्रावतीमध्ये स्थगयन्ति । प्रयाणार्थम् एतेन मार्गेण ६.०० घण्टाः पर्याप्ताः । भद्रावतीं प्रति साक्षात् मार्गसम्पर्कः चित्रदुर्गतः, दावणगेरेतः, उडपितः, चिक्कमङ्गलूरुतः अस्ति । राज्यस्य भिन्ननगरतः शिवमोग्गम् आगत्य आगमनं सुकरम् । सर्वकारस्य यानानि स्वायत्तयानानि च अटन्ति भद्रावतीं प्रति ।

रैलयानम्[सम्पादयतु]

शिवमोग्गमार्गः भद्रावतीद्वारैव गच्छति । प्रतिदिनं यानि बेङगलूरुतः ट्रेनयानानि शिवमोग्गं गच्छन्ति तानि भद्रावत्यां स्थगयन्ति । बेङगलूरुतः बीरुरु जंक्शन् आगत्य ततः बस् यानेन भद्रावतीं गन्तुं शक्यते । बीरुरुतः भद्रावतीं प्रति एकधण्टा आवश्यकी । बेङगलूरु शिवमोग्ग इण्टरसिटि यानेनापि भद्रावतीं प्राप्तुं शक्नुमः ।

भद्राजलबन्धः

प्रवासिस्थानानि[सम्पादयतु]

लक्ष्मीनरसिंहदेवालयः एषः देवालयः १३ शतके होय्सळशैल्या रचितः । भद्रावत्याः प्राचीनभागे अस्ति । सुन्दरशिल्पानि, भग्नशिल्पानि च अत्र सन्ति । इदानीं कर्णाटकप्राच्यवस्तु शाखायाः अधिकारे अस्ति ।

भद्रा-अभयारण्यम् - १९५१ तमे वर्षे जगरकणिवे अभयारण्यम् इति स्थापितमासीत् । परितविद्यमानं लक्कवल्लीवनमपि योजयित्वा १९७२ तमे वर्षे भद्रा-अभयारण्यम् इति कृतम् । इदानीमेतत् ४९२ च.कि.मी अस्ति । अत्र मुत्तोडी, लक्कवल्ली इति विभागद्वयम् अस्ति । अत्र व्याघ्रः, चित्रकः, वनकुक्कुरः, श्रृगालः, गजः, भल्लूकः, साम्बारः, हरिणः, लङगूरः, दोड्ड्माल्बारचिक्रोडः इत्यादि प्राणिनः सन्ति । बुल् बुल्, मरकुटुक, कपोताः इत्यादि पक्षिणः सन्ति । केन्द्रसर्वकारस्य टैगरप्रोजेक्ट् अपि अभयारण्ये अस्ति । अक्टोबरतः फेब्रवरीपर्यन्तं सन्दर्शनार्थम् अत्र उत्तमः कालः । अत्र अरण्यविभागस्य रेसार्ट अस्ति । पूर्वमेव आरक्षणं कृत्वा वासं कर्तुं शक्यते रात्रौ ।

भद्रानद्याः सुरक्षितप्रदेशः

भद्रानदी योजना[सम्पादयतु]

( बि.आर् प्रोजेक्ट् ) एतत् भद्रावतीतः २० कि.मी दूरे लक्कवल्लीमध्ये अस्ति । सर्.एं.विश्वेश्वरय्येन रुपितः जलबन्धः एषः । भद्रावती, तरीकेरे तालूकु प्रदेशेभ्यः जलव्यवस्थ एतेन भवति । लघु विद्युदुत्पादकघटकः अपि अस्ति । पिक्निक् निमित्तम् उत्तमस्थानम् । कूडिल – भद्रातुङ्गयोः नद्योः सङ्गमस्थानम् । भद्रावतीतः होळेहोन्नूरु दिशि १५ कि.मी दूरे अस्ति । गोन्दी - देवस्थानम्, गुहा, चेक्ड्याम् च अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=भद्रावती&oldid=263772" इत्यस्माद् पुनः प्राप्तिः