भरतपुरमण्डलम्
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
भरतपुर्मण्डलम् राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति भरतपुरम् । एतत् पूर्व भरतपुरमहाराजानां कदम्बानां मृगया स्थानमासीत् । पक्षिणां जीवनाध्ययनं कुर्वताम् इदम् अपूर्वस्थानमस्ति । इदानीं ३२८ विविधाः पक्षिणः अत्र निवासं कुर्वन्त्ति । ११७ प्रकारकाः पक्षिणः विदेशात् आगच्छन्ति । भरतपुरपक्षिधाम्नि ८० प्रकारकाः कदम्बाः दृश्यन्ते । अस्य विस्तारः १२ हेक्टर्मितः । पक्षिधाम्नः केवलदेवराष्ट्रिय-उद्यानम् इत्यपि नाम अस्ति । भरतपुरनगरस्य नगरस्थापकः एकं दुर्गं निर्मितवान् । गोपुरयोः फतेहबुरुज्, जवाहरबुरुज् इति च नामनी स्तः । राजा सूरजमल् आङ्गलान् मोगलबादशाहान् च जित्वा स्मरणार्थं एतन्निर्मितवान् ।
मार्गः [सम्पादयतु]
भरतपुरतः ३५ कि.मी । आग्रातः ५५ कि.मी । जयपुरतः १५० कि.मी ।