भवानीदेवी (सीताकुण्डम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भवानीदेवी (सीताकुण्डम्) एतत् शक्तिपीठं बाङ्ग्लादेशस्य चित्तगाङ्गमण्डलस्य सीतकुण्डरेलनिस्थानकस्य समीपे अस्ति । अत्रत्य चन्द्रनाथपर्वते चन्द्रनाथदेवालयः अस्ति ।

सम्पर्कः[सम्पादयतु]

चित्तगाङ्गतः ३३ की.मी.दूरे अस्ति एतत् स्थानम् ।

वैशिष्ट्यम्[सम्पादयतु]

ऐतिह्यानुसारम् अत्र सतीदेव्याः दक्षिणबाहुः पतितः अस्ति इति विश्वासः । अत्रत्या देवी भवानीदेवीनाम्ना पूज्यते । अत्रत्यशिवः चन्द्रशेखरनाम्ना पूज्यते । स्थानीय-ऐतिह्यानुसारं "कलियुगे प्रतिदिनम् अत्र आगच्छामि” इति शिवः भक्तेभ्यःआश्वासनं दत्तवान् आसीत् । केचन एतत् स्थानं कुमारीकुण्डम् इत्यपि वदन्ति ।