भाक्राजलबन्धः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भाक्राजलबन्धः

भारतसर्वकारस्य बृहत् रचनाकार्येषु विविधोद्देशयोजनासु एषः जलबन्धः अपि अन्यतमः अस्ति । सत्लज्नद्याः मार्गे एषः जलबन्धः अतीवव्ययेन निर्मितः अस्ति । पञ्जाबराज्ये जलसेचनकार्यार्थं ७४० पादोन्नतः जलबन्धः निर्मितः अस्ति । अनेन कृषिकार्ये महानुपकारः अभवत् । रात्रौ अत्र दीपालङ्कारं कुर्वन्ति । सायङ्काले वर्णमयदीपप्रकाशे अत्र अतीवसुन्दरं दृश्यं भवति ।

विमानमार्गः[सम्पादयतु]

देहलीश्रीनगरचण्डीगढनगरेभ्यः विमानसम्पर्कः अस्ति । विमाननिस्थानं २५ कि.मी दूरे अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

काल्का-शिम्लान्यारोगेज् धूमशकटमार्गे (९६ कि.मी) विशेषधूमशकटयानं गच्छति । प्रवासकालः अतीवमन्दः ,तन्नाम षट् घण्टात्मकः अस्ति । प्रवाससमये उभयतः अपि दृश्याणि अतीव सुन्दराणि सन्ति ।

वाहनमार्गः[सम्पादयतु]

चण्डीगढतः ११७ कि.मी । मनालीतः २८० कि.मी, देहलीतः ३८० कि.मी । वसत्यर्थम् आहारवसतिगृहाणि सन्ति ।

कालः[सम्पादयतु]

एप्रिल् मासतः अक्टोबरमासपर्यन्तम् अत्र आगमनाय उत्तमः कालः भवति । शीतकाले अतीव शैत्यं भवति ।

"http://sa.wikipedia.org/w/index.php?title=भाक्राजलबन्धः&oldid=270268" इत्यस्माद् पुनः प्राप्तिः