भामहः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Christian prayers in tamil on palm leaves.jpg

संस्कृतस्य अलङ्कारशास्त्रे भामहः (Bhamaha) एव प्रथमः । भामहस्य विषये अधिकविचाराः न उपलभ्यन्ते । परन्तु सः स्वयं तस्य ग्रन्थे कुत्रचित् अहं रक्रिलगोमिः इत्यस्य पुत्रः इति उल्लिखितवान् । रक्रिलः इति नाम बौद्धानां नाम इव विद्यते इति कारणतः एषः अपि बौद्धः स्यात् इति ऊहः क्रियते । अभिनवगुप्तस्य लोचनग्रन्थे भामहस्य प्रस्तापः कृतः । आनन्दवर्धनस्य ध्वन्यालोके अपि भामहस्य वाक्यम् उद्धृतम् । बौद्धात् धर्मकीर्तेः सकाशात् अहम् उपकृतः इति स्वयम् एकत्र उक्तवान् इत्यतः ज्ञायते यत् एषः क्रि.शक स्पतमे शतमाने आसीत् इति । एतेन

इति ग्रन्थः लिखितः ।

विशेषाः[सम्पादयतु]

भामहः शब्दार्थसहितौ काव्यम् इति काव्यस्य लक्षणं भणितवान् । भरतस्तु दशगुणाम् प्रतिपादितवान् परम् एषः गुणत्रयमेव प्रतिपादितवान् । अनुप्रासादयः शब्दालङ्काराः, उपमादि अर्थालङ्काराः मिलित्वा ३८ अर्थालङ्कारान् निरूपितवान् । हेतुः, सूक्ष्मलेशः इत्यादीनाम् अलङ्कारत्वं निषेधितवान् । अलङ्कारशास्त्रे वक्रोतिसम्प्रदायस्य प्रवर्तकः भामहः इत्युच्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

[‎

"http://sa.wikipedia.org/w/index.php?title=भामहः&oldid=254198" इत्यस्माद् पुनः प्राप्तिः