भारतरत्नम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भारतरत्नम्
Bharat Ratna.jpg
प्रशस्तिप्रसङ्गः
प्रकारः Civilian
स्तरः National
विवरणम् An image of the Sun along with the words "Bharat Ratna", inscribed in Devanagari script, on a peepal leaf
प्रारम्भः 1954
अन्तिमप्रशस्तिः 2008
आहत्य प्रशस्तिसंख्या 41
प्रशस्तिप्रदाता Government of India
पट्टिका Bharat Ratna Ribbon.svg
प्रथमप्रशस्तिभाजः Sarvepalli Radhakrishnan, Sir C.V. Raman, C. Rajagopalachari
अन्तिमप्रशस्तिभाजः Bhimsen Joshi
प्रशस्तिस्तरः
None ← भारतरत्नम्Padma Vibhushan

पीठिका[सम्पादयतु]

भारतरत्नप्रशस्तिः भारतवर्षस्य अत्युन्नता प्रशस्तिः । ये देशस्य प्रगतये श्रेष्ठं प्रदानं कुर्वन्ति, तेभ्यः प्रदेशया खलु प्रशस्तिरयम् । स्वार्थम् अगणयित्वा सर्वस्वं समर्पितवन्तः प्रशस्तिम् इमाम् अर्हन्ति । ये महाजनाः साहित्यम् सङ्गीतम्, कला विज्ञानम्, सार्वजनिकसेवा इत्यादिषु क्षेत्रेषु श्रेष्ठतमं कार्यं साधयन्ति तेभ्यः इयं प्रशस्तिः दीयते । अस्य आरम्भः क्रि.श.१९५४तमे वर्षे अभवत् । आरम्भे मरणोत्तरं प्रशतिप्रदानस्य पद्धतिः नासीत् । क्रि.श.१९५५तमवर्षादनन्तरं मरणोत्तरमपि दीयते । अद्यपर्यन्तं सप्तजनेभ्यः मरणोत्तरा प्रशस्तिः समर्पिता । भारतत्नप्रशस्तिभाक् भारतीय़ः एव भवेत् इति नियमः नास्ति चेदपि अधिकतया भारतीयसञ्जातेभ्यः एव दत्ता । अद्य पर्यन्तं केवलं द्वावेव (नेल्सन् मण्डेला क्रि.श.१९९०, अब्दुल् गफर् खान् क्रि.श.१९८८)

प्रशस्तिलक्षणम्[सम्पादयतु]

भारतरत्नप्रशस्तेः पदकम् अश्वत्थपत्रस्य आकारेण भवति । स्वर्णरचितस्य अस्य मुखपुटे रजतवर्णे सूर्यचित्रं रचितं भवति । अपि च देवनागरीलिप्यां भारतरत्न इति उत्कीर्णं शोभते । अपरे पुटे भारतराष्ट्रचिह्नं सिहशीर्षमुद्रा, सत्यमेव जयते इति ध्येयवाक्यं च लिखितं भवति ।


भारतरत्नभूषितानाम् आवली[सम्पादयतु]

क्रमसङ्ख्या नाम जन्म - मरणम् प्रशस्तिप्रापणवर्षम् विषयः राज्यम् / राष्ट्रम्
१. सर्वपल्ली राधाकृष्णन् १८८८-१९७५ १९५४ भारतस्य द्वीतीयः राष्ट्रपतिः, प्रथमः उपराष्ट्रपतिः, तत्त्वज्ञानी । तमिऴनाडुराज्यम्
२. चक्रवर्ती राजगोपालाचार्यः १८७८-१९७२ १९५४ अन्तिमः गवर्नर् जनरल्, स्वातन्त्र्ययोद्धा च । तमिऴनाडुराज्यम्
३. चन्द्रशेखर वेङ्कटरामन् १८८८-१९७० १९५४ भौतशास्त्रज्ञः,नोबेल्पुरस्कारभाक् तमिऴनाडुराज्यम्
४. भगवान् दास् १८६९-१९५८ १९५५ तत्त्वज्ञानी,स्वातन्त्र्ययोद्धा च । उत्तरप्रदेशराज्यम्
५. मोक्षगुण्डं विश्वेश्वरय्यः १८६१-१९६२ १९५५ अभियन्ता । कर्णाटकराज्यम्
६. जवाहरलाल नेह्रू १८८९-१९६४ १९५५ स्वातन्त्र्योत्तरं भारतस्य प्रथमः प्रधानमन्त्री लेखकः च । उत्तरप्रदेशराज्यम्
७. गोविन्दवल्लभः पन्तः १८८७-१९६१ १९५७ स्वातन्त्र्ययोद्धा गृहमन्त्री च । उत्तरप्रदेशराज्यम्
८. धोण्डो केशव कर्वे १८५८-१९६२ १९५८ शिक्षाकोविदः समाजसेवापरः च । महाराष्ट्रराज्यम्
९. बिधाचन्द्रः रायः १८८२-१९६२ १९६१ वैद्यः राजकीयनेता च । पश्चिमबङ्गलराज्यम्
१०. पुरुषोत्तमदासः टण्डन् १८८२-१९६२ १९६१ स्वातन्त्र्ययोद्धा, शिक्षाकोविदः च । उत्तरप्रदेशराज्यम्
११. राजेन्द्रप्रसादः १८८४-१९६३ १९६२ स्वतन्त्रभारतस्य प्रथमः राष्ट्रपतिः, स्वातन्त्र्ययोद्धा, अधुनिकन्यायशास्त्रज्ञः च । बिहारराज्यम्
१२. झाकिर हुसैन १८९७-१९६९ १९६३ भारतस्य भूतपूर्वराष्ट्रपतिः पण्डितः । आन्ध्रप्रदेशराज्यम्
१३. पण्डुरङ्ग वामन काणे १८८०-१९७२ १९६३ इतिहाससंस्कृतिशोधकः, संस्कृतभाषाकोविदः च । महाराष्ट्रराज्यम्
१४. लालबहादुरशास्त्री १९०४-१९०४ १९६६ (प्रशस्तिः मरणोत्तरा)भारतस्य द्वितीयः प्रधानमन्त्री, स्वातन्त्र्ययोद्धा च । उत्तरप्रदेशराज्यम्
१४. इन्दिरा गान्धिः १९१७-१९८४ १९७१ भारतस्य भूतपूर्वप्रधानमन्त्री । उत्तरप्रदेशराज्यम्
१६. वि.वि.गिरिः १८९४-१९८० १९७५ भारतस्य भूतपूर्वराष्ट्रपतिः, कर्मकरनायकः च । आन्ध्रप्रदेशराज्यम्
१७. कुमारस्वामी कामराज् १९०३-१९७५ १९७६ (मरणोत्तरा प्रशस्तिः) स्वातन्त्र्ययोद्धा, तमिळुनाडुराज्यस्य भूतपूर्वमुख्यमन्त्री च । तमिऴनाडुराज्यम्
१८. मदर् तेरेसा १९१०-१९९७ १९८० समाजसेविका, मतप्रचारिका, नोबेल् परितोषिकभूषिता । पश्चिमबङ्गलराज्यम्
१९. विनोबा भावे १८९५-१९८२ १९८३ (मरणोत्तरा प्रशस्तिः)स्वातन्त्र्ययोद्धा, समाजसंस्कारकः च । महाराष्ट्रराज्यम्
२०. खान् अब्दुल् गफार् खान् १८९०-१९८८ १९८७ स्वानत्र्ययोद्धा, भारतरत्नस्य प्रथमः अन्यदेशीयः । पाकिस्तानम्
२१. एम्.जि.रामचन्द्रन् १९१७-१९८७ १९८८ (मरणोत्तरा प्रशस्तिः), तमिळुनाडुराज्यस्य मुख्यमन्त्री, चलच्चित्राभिनेता च । तमिऴनाडुराज्यम्
२२. भीमराव् रामजी अम्बेड्कर् १८९१-१९५६ १९९० (मरणोत्तरा प्रशस्तिः), भारतस्य संविधानरचनगणस्य नायकः । महाराष्ट्रराज्यम्
२३. नेल्सन् मण्डेल १९१८-२०१३ १९९० वर्णभेदनीतिं विरुध्य अन्दोलनकर्ता, भारतरत्नस्य द्वितीयः विदेशियः च । दक्षिण-आफ्रिका
२४. राजीवगान्धिः १९४४-१९९१ १९९१ (मरणोत्तरा प्रशस्तिः), भारतस्य भूतपूर्वप्रधानमन्त्री । नवदेहली
२५. सरदार् वल्लभभायी पटेलः १८७५-१९५० १९९१ (मरणोत्तरा प्रशस्तिः) स्वातन्त्रसेनानी, स्वतन्त्रभारतसर्वकारस्य प्रथमः गृहमन्त्री च । गुजरातराज्यम्
२६. मोरारजी देसायी १८९६-१९९५ १९९१ भारतस्य भूतपूर्वप्रधानमन्त्री, स्वातन्त्र्ययोद्धा च । गुजरातराज्यम्
२७. मौलाना अबुल् कलाम् आजाद् १८८८-१९५८ १९९२ (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा । पश्चिमबङ्गलराज्यम्
२८. जे.आर्.डि.टाटा १९०४-१९९३ १९९२ भारतीययन्त्रोद्यमस्य पितामहः, समाजसेवकः च महाराष्ट्रराज्यम्
२९. सत्यजित राय १९२२-१९९२ १९९२ भारतीयचलच्चित्रनिदेशकः । पश्चिमबङ्गलराज्यम्
३०. ए.पी.जे.अब्दुल् कलामः १९३१- १९९७ भारतस्य भूतपूर्वराष्ट्रपतिः, व्योमविज्ञानी च । तमिऴनाडुराज्यम्
३१. गुल्जारीलालनन्दा १८९८-१९९८ १९९७ स्वातन्त्र्ययोद्धा, भारतस्य भूतपूर्वप्रधानमन्त्री च । पञ्जाब्
३२. अरुणा असफ् अलि १९०८-१९९६ १९९७ (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा । पश्चिमबङ्गलराज्यम्
३३. एम् एस् सुब्बालक्षमी १९१६-२००४ १९९८ कर्णाटकशास्त्रीयसङ्गीतज्ञा । तमिऴनाडुराज्यम्
३४. सि.सुब्रह्मण्यम् १९१०-२००० १९९८ स्वातन्त्रयोद्धा, भारतकृषिमन्त्री, कृषिक्षेत्रे परिवर्तनस्य प्रणेता च । तमिऴनाडुराज्यम्
३५. जयप्रकाशनारायणः १९०२-१९७९ १९९८ (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्यसेनानी समाजपरिवर्तकः च । उत्तरप्रदेशराज्यम्
३६. पण्डित रविशङ्करः १९२०- २०१२ १९९९ सितार्वादकः उत्तरप्रदेशराज्यम्
३७. अमर्त्यसेनः १९३३- १९९९ नोबेल् पुरस्कृतः, अर्थशास्त्रज्ञः च । पश्चिमबङ्गलराज्यम्
३८. गोपिनाथ बोर्डोलोयि १८९०-१९५० १९९९ (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा । असमराज्यम्
३९. लता मङ्गेशकरः १९२९ २००१ चलच्चित्रनेपथ्यगायिका । महाराष्ट्रराज्यम्
४०. बिस्मिल्ला खानः १९१६-२००६ २००१ शेहनायीवादकः उत्तरप्रदेशराज्यम्
४१. भीमसेन जोशी १९२२-२०११ २००८ हिद्नुस्तानीशास्त्रीयसङ्गीतज्ञः । कर्णाटकराज्यम्

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=भारतरत्नम्&oldid=283631" इत्यस्माद् पुनः प्राप्तिः