भारतस्य राष्ट्रध्वजः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भारतीयत्रिरङ्गः
Flag of India.svg
नाम त्रिरङ्गा; तिरङ्गा
व्यवहारः राष्ट्रियध्वजः राष्ट्रियध्वजः IFIS Normal.svg
अनुपातः २:३
गृहीतः २२/७/१९४७
विन्यासः तिर्यक् त्रिरङ्गध्वजः (केसररङ्गः, श्वेतरङ्गः, हरितरङ्गः च । मध्ये चतुर्विंशतिः अरात्मकं, नीलवर्णीयम् अशोकचक्रं विद्यते ।
विन्यासकर्ता पिङ्गलि वेङ्कय्य[१]

भारतस्य राष्ट्रध्वजः (हिन्दी: राष्ट्रध्वज, आङ्ग्ल: Flag of India) त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेण सुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । राष्ट्रध्वजस्य परिकल्पना पिङ्गलि वेङ्कय्य-नामकेन देशभक्तेन कृता आसीत् । भारतस्वतन्त्रतादिनात् पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य द्वाविंशतितमे (२२/७/१९४७) दिनाङ्के भारतीयसंविधानसभा एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत् ।

राष्ट्रध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् अशोकचक्रं विद्यते । तस्य चक्रस्य चतुर्विंशतिः अराः (spokes) सन्ति । तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति । महात्मना प्रचारितेन [[खादिवस्त्रम्|खादि]-वस्त्रेण निर्मितः राष्ट्रध्वजः एव सांविधानिकरीत्या मान्यः । कोऽपि रेशम-वस्त्रेण निर्मितस्य राष्ट्रध्वजस्य यदि उपयोगं कर्तुम् इच्छति, तर्हि कर्तुं शक्नोति ।

अन्तर्विषयाः

इतिहासः[सम्पादयतु]

ध्वजस्य इतिहासः.jpg

भारतस्वतन्त्रताविप्लवे भारतीयक्रान्तिकारिणः ध्वजस्य अवलम्बनं कृत्वा सभाः, आन्दोलनानि, विरोधप्रदर्शनानि च अकुर्वन् । अधुना यः ध्वजः अस्ति, तथैव पुरा अपि अन्ये ध्वजाः आसन् । कालक्रमे भारतीयजनानां मान्यतानुगुणं ध्वजानां रङ्ग-आकार-चिह्नादिषु परिवर्तनम् अभवत् । अतः भिन्नजनाः स्वपरिकल्पनानुगुणं ध्वजनिर्माणम् अकुर्वन् । परन्तु सर्वेषाम् एकमेव लक्ष्यमासीत् यत्, “राष्ट्रध्वजः राष्ट्रस्य भावनायाः, दर्शनस्य प्रतीकः भवेदेव” इति ।

प्रथमध्वजः[सम्पादयतु]

भारतस्य आधिपत्यम् उपभोक्तारः आङ्गाधिकारिणः यदा भारतीयध्वजनिर्माणस्य प्रस्तावम् अकुर्वन्, तदा बाल गङ्गाधर तिळक-काली-अरविन्द घोष-बङ्किम चन्द्र चट्टोपाध्याय-आदिदेशभक्तैः गोः ध्वजचिह्नत्वेन परिकल्पना सूचिता आसीत् । यतो हि भारतस्वतन्त्रतायाः क्रान्तिः गोः रक्षणं कर्तुं प्रारब्धा आसीत् । बाल गङ्गाधर तिळक गणेशस्य चित्रमपि भवतु इति प्रस्तावम् अकरोत् । परन्तु मुस्लिमजनाः विरोधं कुर्वन्तः सन्ति इति कारणं दत्वा विभाजनकारिणः आङ्ग्लाः तस्य ध्वजस्य प्रस्तावं निराकुर्वन् ।

द्वितीयध्वजः[सम्पादयतु]

१९०५ तमे वर्षे यदा आङ्गसर्वकारेण बङ्गालप्रदेशस्य विभाजनं कृतं, तदा विभाजनस्य विरोधार्थं स्वदेशी-आन्दोलनस्य आरम्भः अभवत् । स्वदेशी-आन्दोलनस्य भागस्वरूपम् एकस्य ध्वजस्य रचना अभवत् । तस्य ध्वजस्य नाम “वन्दे मातरम्” इति आसीत् । “वन्दे मातरम्” इत्यस्मिन् ध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः आसन् । तासु पट्टिकासु सर्वोपरि हरितवर्णीया, मध्ये पीतवर्णीया, अन्तिमे रक्तवर्णीया पट्टिका च आसीत् । हरितपट्टिकायाम् अष्टानि कमलचिह्नानि आसन् । पीतपट्टिकायाः मध्यभागे “वन्दे मातरम्” इति लिखितम् आसीत् । रक्तपट्टिकायां दक्षिणभागे सूर्यस्य, वामभागे चन्द्रस्य च चिह्नमासीत् । स्वदेशी-आन्दोलने उपयुक्ते “वन्दे मातरम्” इत्यस्मिन् मूलध्वजे तु चिह्नानि नासन् । परन्तु ततः १९०७ तमे वर्षे मेडम भीखाजी कामा-द्वारा चिह्नानि स्थापयित्वा नवस्वरूपदानस्य प्रयासः अभवत् । १९०६ तमे वर्षे स्वामी विवेकानन्दस्य शिष्यया निवेदिताभगिन्या एकस्य ध्वजस्य परिकल्पना कृता आसीत् । सः अपि “वन्दे मातरम्” ध्वजः आसीत् । तस्मिन् ध्वजे अष्टाधिकशतं (१०८) दीपकाः आसन् ।

तृतीयध्वजः[सम्पादयतु]

१९१६ तमे वर्षे कोङ्ग्रेस-पक्षस्य समित्याः सम्मुखं पिङ्गलि वेङ्कय्य त्रिंशत् भिन्नानां ध्वजपरिकल्पनानाम् आवलिम् उपास्थापयत् । तस्मिन् एव वर्षे होम रूल-आन्दोलनस्य भागरूपस्य एकस्य ध्वजस्य निर्माणं बाल गङ्गाधर तिळक, एनी बेसेण्ट् अकुरुताम् ।

चतुर्थध्वजः[सम्पादयतु]

१९२१ तमे वर्षे लाला हंसराज-महात्मनोः प्रयोसेन नवीनध्वजस्य परिकल्पना देशस्य सम्मुखम् आगता । तस्मिन् ध्वजे रङ्गत्रयम् आसीत् । मध्ये तन्तुकरणयन्त्रस्य चित्रम् आसीत् । त्रिरङ्गाः क्रमेण श्वेतः, हरितः, रक्तश्च ।

पञ्चमध्वजः[सम्पादयतु]

१९२३ तमस्य वर्षस्य 'अप्रैल'-मासस्य त्रयोदशे (१३/४/१९२३) दिनाङ्के पिङ्गलि वेङ्कय्य स्वराजध्वजस्य परिक्लपनाम् अकरोत् । नागपुर-नगरे जलियावाला-हत्याकाण्डस्य विरोधार्थं सभायाः आयोजनं कोङ्ग्रेस-पक्षेण कृतमासीत् । तस्यां सभायां स्वराजध्वजं नीत्वा क्रान्तिकारिणः विरोधप्रदर्शनं कुर्वन्तः आसन् । परन्तु ध्वजस्य विषये आङ्ग्ल-आरक्षकैः सह विरोधकर्तॄणां विवादः अभवत् । आङ्ग्लाः षड्जनान् कारागारम् प्रैषयन् । अतः ‘मई’-मासस्य प्रथमे दिनाङ्के जमनालाल बजाज ध्वजसत्याग्रहस्य घोषणाम् अकरोत् । ‘मई’-मासस्य प्रथमे दिनाङ्के यदा ध्वजसत्याग्रहाय जनाः गच्छन्तः आसन्, तदा जमनालाल बजाज-सहितं सार्धसहस्रं जनान् आङ्ग्लसर्वकारः कारागारं प्रैषयत् । ततः लोहपुरुषेण आन्दोलनस्य नेतृत्वं कृतम् । सः अपि ध्वजं नीत्वा आङ्ग्लविरोधीं पदयात्राम् अकरोत् । बहु सङ्घर्षपश्चात् आङ्ग्लसर्वकारेण कारागारात् स्वतन्त्रताक्रान्तिकारिणः विमुक्ताः ।

स्वराजध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः आसन् । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च आसीत् । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे तन्तुकरणयन्त्रम् आसीत् ।

ततः १९३१ तमे वर्षे इण्डियन् नेशनल् कोङ्ग्रेस्-द्वारा स्वराजध्वजः औपचारिकतया स्वीकृतः । मुस्लिम-नेतारः अपि अस्य ध्वजस्य समर्थनम् अकुर्वन् । समये सति स्वराजध्वजः भारतस्वतन्त्रतायाः प्रतीकः अभवत् । ततः स्वराजध्वजस्य उपयोग-मापन-निर्माणादिविषये इङ्ग्लैण्ड-देशस्य संसदि चर्चा आरब्धा । चर्चानन्तरम् इङ्ग्लैण्ड-देशात् आदेशप्राप्त्यनन्तरं भारतीयाङ्ग्लाः ध्वजस्य स्वीकारम् अकूर्वन् ।

षष्ठमध्वजः[सम्पादयतु]

१९४७ तमस्य वर्षस्य 'जून'-मासस्य त्रयोविंशतितमे (२३/६/१९४७) दिनाङ्के राष्ट्रध्वजस्य निर्णयार्थम् एकस्याः समित्याः रचना अभवत् । डॉ. राजेन्द्र प्रसाद(प्रप्रथम-राष्ट्रपतिः) तस्याः समित्याः अध्यक्षः आसीत् । मोलाना आजाद, सरोजिनी नायडू, राजगोपालाचार्य, के एम् मुन्शी, भीम राव् आम्बेडकर, डॉ. सर्वपल्ले राधाकृष्णन्(द्वितीय-राष्ट्रपतिः) च तस्याः समित्याः सदस्याः आसन् । तस्यां समित्यां निर्णयः अभवत् यत्, “कानिचन परिवर्तनानि कृत्वा नेशनल् कोङ्ग्रेस्-पक्षस्य ध्वजः स्वतन्त्रभारतस्य राष्ट्रध्वजत्वेन स्वीकर्तुं शक्यते” इति । ततः अशोकस्तम्भस्य सिंहचतुमुखात् अशोकचक्रं तन्तुकरणयन्त्रस्य स्थाने स्वीकृतम् । डॉ. सर्वपल्ले राधाकृष्णन् इत्यस्य महानुभागस्य कथनम् आसीत् यत्, "अशोकचक्रं धर्मस्य, न्यायस्य प्रतीकत्वात् तस्य स्वीकारः कृतः" इति । महात्मा अनेन परिवर्तनेन सह सन्तुष्टः नासीत् । परन्तु सर्वैः राष्ट्रध्वजः स्वीकृतः चेत्, अहमपि स्वीकरोमि इति तस्य मनसि आसीत् ।

ध्वजस्य नियमाः संसदि चर्चिताः संसदसदस्यैः । ततः भारतगणराज्यस्य राष्ट्रध्वजः भारतीयलोकतन्त्रस्य प्रतीकः अभवत् ।

परिकल्पना, मापनं च[सम्पादयतु]

१९५० तमे वर्षे यदा भारतगणतन्त्रस्य घोषणा अभवत्, तदा भारतीयमानकविभागेन (Flag code of India) ध्वजसम्बद्धानि कानिचन मार्गदर्शनानि जनहिताय उद्घोषितानि आसन् । ततः क्रमेण १९६४, १९६८, २००८ तमे वर्षे तस्यां मार्गदर्शिकायां संशोधनानि अभवन् । भारतीयमानकविभागः|भारतीयमानकविभागेन]] ध्वजसम्बद्धानि यानि मार्गदर्शनानि जनहिताय उद्घोषितानि, तानि सङ्क्षेपेण अत्रोल्लिख्यन्ते ।

१ ध्वजस्य आकारः :- ध्वजस्य त्रिस्रः पट्टिकाः समानदैर्घ्यं, समानविस्तारं च धरेरन् ।
अशोकचक्रस्य आकार-विस्तार-परिधि-आदिभ्यः किमपि मार्गदर्शनम् एतावता नास्ति । परन्तु अशोकचक्रे समान-अन्तरे चतुर्विंशतिः अराः भवेयुः इति मार्गदर्शिकायां कुत्रचित् उल्लेखः अस्ति ।
३ राष्ट्रध्वजः वस्त्रस्य अग्रभागे-पृष्ठभागे समानतया मुद्रितः स्यात् । अशोकचक्रस्य मुद्रणे दोषः न भवेत् इति द्रष्टव्यम् ।

"IS1: Manufacturing standards for the Indian Flag" द्वारा नवधा ध्वजस्य आकारः भवेत् इति उद्घोषितम् अस्ति । ये प्रकाराः उद्घोषिताः, तेषां प्रकारानुगुणं ध्वजस्य दीर्घतायाः, विस्तारस्य च निर्णयः अभवत् । तत् सर्वं सारणीमाध्यमेन अधः उल्लिखितम् अस्ति ।

राष्ट्रध्वजस्य भिन्नाकाराः
ध्वजस्य आकारः[२] दैर्घ्यं, विस्तारश्च (mm) अशोकचक्रस्य दैर्घ्यं, विस्तारश्च (mm)
६३०० × ४२०० १२९५
३६०० × २४०० ७४०
२७०० × १८०० ५५५
१८०० × १२०० ३७०
१३५० × ९०० २८०
९०० × ६०० १८५
४५० × ३०० ९०[३]
२२५ × १५० ४०
१५० × १०० २५[३]

राष्ट्रध्वजस्य रङ्गः[सम्पादयतु]

राष्ट्रध्वजस्य आकारादिविषये मार्गदर्शने पूर्णे सति रङ्गस्य चयनं कथं कर्तव्यम् इत्यस्यापि मार्गदर्शनं मार्गदर्शिकायां प्राप्यते । मुद्रणसमये आवश्यकाः केचन रङ्गसम्बद्धाः अङ्काः अत्र C.Y.M.K इत्यत्र प्रदत्ताः । सङ्गणक-जगति अधुना मुद्रणादि-प्रक्रिया सरला अभवत् । अतः कोऽपि साक्षात् सङ्गणकात् राष्ट्रध्वजस्य मुद्रणं कारयेत् चेत्, HTML इत्यस्य कः अङ्कः योग्यं रङ्गं प्रदर्शयति इत्यस्यापि उल्लेखः कृतः प्राप्यते ।

योजना HTML Code C.M.Y.K वस्त्ररङ्गः पैन्टोन (Painton)
केसरीरङ्गः # FF9933 ०-५०-९०-० केसरीरङ्गः १४९५c
श्वेतरङ्गः # FFFFFF ०-०-०-० श्वेतरङ्गः १c
हरितरङ्गः # 138808 १००-०-७०-३० हरितरङ्गः ३६०c
नीलरङ्गः # 000080 १००-९८-२६-४८ नीलरङ्गः २७५५c

प्रतीकार्थः[सम्पादयतु]

भारतीयराष्ट्रध्वजस्य रङ्गचयनस्य, चिह्नचयनस्य च पृष्ठे राष्ट्रभावना विद्यते । सा भावना भिन्नजनानां मनसि भिन्नशब्दैः गुम्फिता स्यात्, परन्तु अन्ततो गत्वा राष्ट्रस्य एकतायाः, सिद्धान्तस्य, दर्शनस्य च बोधः भवेत् इत्येव सर्वेषां भावनानां सारः भवति । १९२१ तमे वर्षे मछलीपट्टम्-नगरवासिना पिङ्गलि वेङ्कय्य-महानुभावेन परिकल्पितः ध्वजः महात्मना देशस्य सम्मुखम् उपस्थापितः । ध्वजस्य इतिहासे षष्ठमः ध्वजः सः ।

भारतस्य राष्ट्रध्वजे तन्तुकरणयन्त्रं विहाय सर्वं षष्ठमध्वजवदेव अस्ति । परन्तु ध्वजनिर्माणकाले रङ्गचयनस्य भावना भिन्ना आसीत्, कालान्तरे रङ्गस्य भावनायां परिवर्तिनम् अभवत् । श्वेतरङ्गः सर्वधर्मस्य, हरितरङ्गः मुस्लिमधर्मस्य, केसररङ्गः हिन्दुधर्मस्य च प्रतीकः इति महात्मना पुरा कल्पितम् आसीत् । परन्तु १९२९ तमे वर्षे महात्मनः विचाराः ‘सेक्यूलर्’ अभवन् । अतः तेन ध्वजरङ्गस्य भावना परिवर्तिता । ततः श्वेतरङ्गः स्वच्छतायाः, हरितरङ्गः आशायाः (hope), केसरीरङ्गः त्यागस्य, वीरतायाः च प्रतीकः अभवत् । अशोकचक्रस्य परिकल्पना तु महात्मना न कृता आसीत् । अतः ध्वजनिर्धारणसमित्याः सदस्यः डॉ. सर्वपल्ले राधाकृष्णन् (द्वितीयः-राष्ट्रपतिः) अशोकच्रकं धर्मस्य, न्यायस्य प्रतीकत्वेन अकल्पयत् ।

डॉ. सर्वपल्ले राधाकृष्णन्-महानुभावेन सम्पूर्णध्वजस्यापि भावना देशस्य सम्मुखम् उपस्थापिता । यथा –

Bhagwa or the saffron colour denotes renunciation or disinterestedness. Our leaders must be indifferent to material gains and dedicate themselves to their work. The white in the centre is light, the path of truth to guide our conduct. The green shows our relation to (the) soil, our relation to the plant life here, on which all other life depends. The "Ashoka Chakra" in the centre of the white is the wheel of the law of dharma. Truth or satya, dharma or virtue ought to be the controlling principle of those who work under this flag. Again, the wheel denotes motion. There is death in stagnation. There is life in movement. India should no more resist change, it must move and go forward. The wheel represents the dynamism of a peaceful change.[२]

ध्वजस्य आचारसंहिता[सम्पादयतु]

भारतीयध्वजसंहितानुसारं राष्ट्रध्वजारोहणं सर्वेषां नागरिकाणाम् अधिकारः अस्ति । परन्तु राष्ट्रध्वजस्य आरोहणं भारतीयसंविधानस्य ५१-ए अनुच्छेदानुसारं भवेत् चेदेव, राष्ट्रध्वजारोहणस्य अनुमतिः अस्ति । कोऽपि नियमानाम् उल्लङ्घनं कृत्वा यदि राष्ट्रध्वजस्य अपमानं करोति, तर्हि सः अपानकर्त्रे भारतीयसंविधाने दण्डस्य प्रावधानम् अस्ति ।

२००२ तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे (२६/१/२००२) दिनाङ्के भारतीयध्वजसंहितायां संशोधनम् अभवत् । भारतस्य सामान्याः नागरिकाः अपि स्वस्य गृह-कार्यालय-यन्त्रशाला-विद्यालयादिषु ध्वजारोहणं कर्तुं शक्नुवन्ति इति तस्य संशोधनस्य फलम् अस्ति । तस्मिन् संशोधने जनसामान्येभ्यः मार्गदर्शनम्, आचारसंहिता च अस्ति । संशोधनने लिखितानां नियमानां दृढतया पालनं कर्तव्यमेव, अन्यथा धनदण्डस्य, कारावासस्य, उभयोः च दण्डत्वेव प्रावधानं भारतीयसंविधाने उल्लिखितम् ।

• केचन सामान्यनियमाः .......

किं कर्तव्यम्......

१ राष्ट्रभक्तेः प्रतीकत्वेन सर्वाः शैक्षणिकसंस्थाः (विद्यालय-महाविद्यालय-क्रीडापरिसर-‘स्काउट्’-शिबिरेषु) ध्वजारोहणं कर्तुं शक्नुवन्ति ।
२ शैक्षणिकसंस्थायाः सदस्यः, अन्यजनः वा सर्वेषु दिनेषु, निर्धारितसमये च सम्मानपूर्वकं राष्ट्रध्वजारोहणं कर्तुं शक्नोति ।
३ राष्ट्रध्वजस्य आरोहणकाले शरीरं दृढं, मनश्च राष्ट्रध्वजे केन्द्रितं भवेत् । राष्ट्रध्वजस्य आरोहणानन्तरं सावधानं भूत्वा नमस्कारं कर्तव्यम् ।

ध्वजगीतस्य गायनं लयेन, आदरेण च कर्तव्यम् । गीतस्य गानकाले शरीरस्य शैथिल्यं, चलनं च अनादरस्य प्रतीकत्वेन दृश्यते ।

किं न कर्तव्यम्......

१ राष्ट्रध्वजः भूमिस्पृष्टः, जलस्पृष्टश्च न भवेत् ।
२ राष्ट्रध्वजस्य उपयोगः वस्तोः आच्छादनार्थं, किमपि निगूढितुम्, आधाराशीलायाः उपरि स्थापयितुं च न शक्यते ।
३ राष्ट्रध्वजः कस्मिञ्चित् द्रव्यपदार्थे निमज्जितुं न शक्यते ।
४ राष्ट्रध्वजस्य उपरि पुष्पं विहाय अन्यत् किमपि वस्तु, पदार्थः, सामग्री च स्थापयितुं न शक्यते ।
५ संस्थायाः, व्यक्तेः, स्थानस्य च सूचना अन्यलेखनं वा राष्ट्रध्वजस्योपरि लेखितुं न शक्यते ।
६ गणवेशत्वेन, अन्यपरिवेशत्वेन अस्य उपयोगं कर्तुं शक्यते । परन्तु अन्तर्वस्त्रत्वेन, ‘लुङ्गी’-वस्त्रत्वेन, अधोवस्त्रत्वेन च राष्ट्रध्वजस्य उपयोगं कर्तुं न शक्यते । राष्ट्रध्वजः उपधान(cushion)त्वेन, करवस्त्रत्वेन च उपयोक्तुं न शक्यते ।
७ साम्प्रदायिकलाभं प्राप्तुम् अस्य ध्वजस्य उपयोगं कर्तुं न शक्यते ।
८ अन्यध्वजः राष्ट्रध्वजात् उच्चस्थाने आरोहितुं न शक्यते ।

राष्ट्रध्वजस्य उपयोगविधिः[सम्पादयतु]

राष्ट्रध्वजस्य सम्मानम्[सम्पादयतु]

राष्ट्रध्वजः सर्वदा निष्ठा-सम्मान-पूज्यभावैः द्रष्टव्यः इति भारतीयसंविधानम् । आचारसंहितानुगुणं राष्ट्रध्वजस्य उपयोगः भवेत् । कोऽपि जनः ज्ञात्वा-अज्ञात्वा वा राष्ट्रध्वजस्य अपमानं करोति चेत्, सः जनः दण्डार्हः एव । अतः स्वयं राष्ट्रध्वजस्य सम्मानं तु कर्तव्यं, परन्तु अन्ये राष्ट्रध्वजस्य सम्मानं कुर्युः तथा प्रयासाः करणीयाः । अधीकं न भवेत् चेत्, अन्यः राष्ट्रध्वजस्य अपमानं तु न कुर्यात् इत्यस्य ध्यानं सर्वेषां नागरिकाणां कर्तव्यम्/अधिकारः । कोऽपि जनः राष्ट्रध्वजस्य अपमानं कुर्वन् अस्ति इति ज्ञानं भवति चेत्, प्रमाणैः सह आरक्षकाय सूचना दातव्या ।

राष्ट्रध्वजस्य मानरक्षणम्[सम्पादयतु]

India-flag-horiz-vert.svg

ध्वजस्य आरोहणाय, संरक्षणाय च अनेकाः पारम्परिकनियमाः सन्ति । राष्ट्रध्वजारोहणं यदि क्षेत्रेषु (Ground) भवति, तर्हि सूर्योदयकाले एव ध्वजारोहणं करणीयं, सूर्यास्तकाले च सम्मानेन सह राष्ट्रध्वजस्य अवतरणं करणीयम् । एतत् सर्वं कर्तुं वातावरणस्य विषये चिन्ता न कर्तव्या । अर्थात् ग्रीष्मकाले, वर्षाकाले, शीतकाले च समानतया नियमस्य आचरणं करणीयम् । काश्चन परिस्थितयः भारतीयसंविधाने उल्लिखितानि, तेषु परिस्थितिषु रात्रौ अपि आरोहितः ध्वजः स्थापितुं शक्नोति । परन्तु तासु परिस्थितिषु केवलं सर्वकारसम्बद्धेषु भवनेषु एव रात्रौ आरोहितः ध्वजः भवितुं शक्नोति । एनं ध्वजं विपरिततया आरोहितुं न शक्यते । यथा एतस्मिन् चित्रे दृश्यते । उपरिस्तनभागः अधः, अधस्तनभागः उपरि च कर्तुं न शक्यते । ९० अंशे राष्ट्रध्वजं स्थापयितुं न शक्यते । मलिनध्वजस्य उपयोगः अपि वर्ज्यः ।

भित्तिषु राष्ट्रध्वजस्य उपयोगः[सम्पादयतु]

IndiaFlagTwoNations.png

भित्तौ यदि राष्ट्रध्वजस्य उपयोगः भवेत् चेत् राष्ट्रध्वजस्य केसर-रङ्गः उपरि एव भवेत् । राष्ट्रध्वजः यथाकथञ्चित् स्थापयितुं न शक्यते । योग्यं, शुद्धं स्थानं दृष्ट्वैव ध्वजस्य प्रयोगः भवेत् ।

राष्ट्रध्वजस्य उपयोगाय केषाञ्चन नियमानां पालनम् अनिवार्यं भवति । सभाखण्डस्य भित्तौ अन्यस्य ध्वजस्य समीपं राष्ट्रध्वजः उपस्थाप्यते चेत्, चित्रे यथा प्रदर्शितं, तथा द्वयोः ध्वजयोः स्थापना कर्तव्या । अन्यध्वजेन सह राष्ट्रध्वजः भवेत्, परन्तु विपरितदिशायां भवेत् । यथा एतस्मिन् चित्रे प्रदर्शितम् ।

अन्यदेशानां ध्वजैः सह उपयोगः[सम्पादयतु]

अन्यदेशानां राष्ट्रध्वजेन सह यदा भारतस्य राष्ट्रध्वजः स्थाप्यते, तदा निम्ननियमाः ध्यातव्याः ।

१ भारतस्य राष्ट्रध्वजः दक्षिणहस्ते भवेत् (प्रेक्षकेभ्यः वामहस्ते) ।
२ अन्यदेशस्य राष्ट्रध्वजैः सह भारतीयराष्ट्रध्वजः व्यवस्थितरीत्या स्थापितः स्यात् ।
३ सर्वेषां देशानां ध्वजाः समानाः एव स्युः । कस्यापि देशस्य राष्ट्रध्वजः भारतीयराष्ट्रध्वजात् बृहत् न स्यात् ।
४ सर्वेषां देशानां ध्वजाः भिन्नेषु दण्डेषु आरोहिताः स्युः । एकस्मिनैव दण्डे ध्वजद्वयं तस्मात् अधिकाः राष्ट्रध्वजाः वा न भवेयुः ।
५ भारतस्य राष्ट्रध्वजः सर्वप्रथमम् आरोहणीयः, ततः अवरोहणकाले भारतीयराष्ट्रध्वजः अन्ते अवरोहणीयः ।

अन्यध्वजैः सह राष्ट्रध्वजस्य उपयोगः[सम्पादयतु]

यदि अन्यध्वजेन सह अर्थात् संस्थायाः, विज्ञापनस्य, दलस्य च ध्वजेन सह राष्ट्रध्वजस्य उपयोगः करणीयश्चेत् निम्ननियमानुसारं ध्वजारोहणं भवेत् ।

१ भारतीयराष्ट्रध्वजस्य स्थानं सर्वेषु ध्वजेषु मध्ये दक्षिणहस्ते वा भवेत् ।

२ सर्वेषां ध्वजानां मानं समानं भवेत् । राष्ट्रध्वजात् कोऽपि ध्वजः बृहत् न भवेत् ।

३ प्रदर्शनेषु, पदयात्रासु च राष्ट्रध्वजस्य उपयोगः अन्यध्वजैः सह कर्तव्यश्चेत्, राष्ट्रध्वजः अग्रे एव भवेत् । तस्य पृष्ठे एव अन्ये ध्वजाः भवेयुः ।

गृहे राष्ट्रध्वजः[सम्पादयतु]

राष्ट्रध्वजस्य उपयोगः यदा नैजोपयोगार्थं, खण्डेषु, लघुप्रकोष्ठेषु करणीयश्चेत् राष्ट्रध्वजः सर्वदा दक्षिणहस्ते (दर्शकानां वामहस्ते) एव भवेत् । यदि वक्तुः समीपे ध्वजस्य प्रदर्शनं करणीयं, तर्हि वक्तुः वामहस्ते एव राष्ट्रध्वजस्य प्रदर्शनं भवेत् ।

सैन्ययात्रायां राष्ट्रध्वजः[सम्पादयतु]

सैन्ययात्रायां राष्ट्रध्वजः अन्यध्वजैः सह भवेत् इति सामान्यम् । अतः अन्यध्वजैः सह राष्ट्रध्वजस्य उपयोगं कर्तुं ये नियमाः सन्ति, ते प्रयोक्तव्याः एव । परन्तु अत्र राष्ट्रगीतस्य गानयम् अपि भवति । राष्ट्रगीतस्य गायनसमये राष्ट्रध्वजाय नमस्कारः अनिवार्यः एव ।

योनेषु राष्ट्रध्वजस्य उपयोगः[सम्पादयतु]

योनेषु राष्ट्रध्वजस्य उपयोगं कर्तुं विशेषाधिकारः आवश्यकः । येषां जनानां पार्श्वे विशेषाधिकारः अस्ति, तेषाम् आवलिः भारतीयसंविधाने वर्तते । सा आवलिः अधः अस्ति –

  1. भारतगणराज्यस्य राष्ट्रपतिः
  2. भारतगणराज्यस्य उपराष्ट्रपतिः
  3. भारतीयसर्वोच्चन्यायालयस्य न्याययाधीशाः
  4. भारतीयोच्चन्यायालयानां न्यायाधीशाः
  1. जलसेनाधिकारिणः
  2. वायुसेनाधिकारिणः
  3. स्थलसेनाधिकारिणः
  4. राज्यपालः
  1. उपराज्यापालः
  2. मुख्यमन्त्री
  3. मन्त्रिमण्डलसदस्याः
  4. भारतीयसंसदः कनिष्ठमन्त्रिमण्डलस्य सदस्याः
  1. राज्यविधानसभानां सदस्याः
  2. लोकसभायाः सदस्याः
  3. राज्यसभा-लोकसभयोः अध्यक्षः
  4. राज्यानां विधानपरिषदः सदस्याः

राष्ट्रध्वजस्य उपयोगः यदि कार-याने भवति, तर्हि यानस्य अग्रभागस्य मध्यभागे दक्षिणहस्ते वा ध्वजस्य स्थानं भवेत् । यदि याने कोऽपि विदेशिजनः (भारतगणराज्यस्य अतिथिः) स्थितः चेत्, भारतस्य राष्ट्रध्वजः वामहस्ते, तस्य विदेशिजनस्य राष्ट्रध्वजः दक्षिणहस्ते च भवेत् ।

भारतगणराज्यस्य राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च विदेशयात्रायै विमानयानेन गच्छिति चेत्, विमानयाने अपि भारतस्य राष्ट्रध्वजः अनिवार्यत्वेन भवेदेव । विमानयानस्य दक्षिणहस्ते भारतस्य राष्ट्रध्वजः भवेत्, यं देशं गच्छति, तस्य देशस्य राष्ट्रध्वजः वामहस्ते भवेच्च । एकस्य देशस्य यात्रायां मार्गे अन्यदेशे विश्रान्त्यर्थे अवतरणीयं भवेत् चेत्, तस्य देशस्य ध्वजमपि वामहस्ते स्थापयितुं शक्यते । येन तस्य देशस्य सम्मानस्य रक्षणं भवेत् । एतत् सद्भावनायाः, शिष्टाचारस्य प्रतीकत्वेन परिगण्यते ।

भारतगणराज्यस्य राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च विदेशे रेलयानेन यदि यात्रां करोति, तर्हि रेलयानस्य चालकस्य bogie इत्यत्र राष्ट्रध्वजः भवेत् । परन्तु रेलयानं यदा स्थिरमस्ति, तदैव राष्ट्रध्वजः स्थापनीयः । रेलयानं यदा यात्रां प्रारभेत, तदा राष्ट्रध्वजः सम्मानेन सह अवरोहणीयः ।

अर्धप्रवाहितः राष्ट्रध्वजः[सम्पादयतु]

शोकस्य समये राष्ट्रपतेः निर्देशानुसारं राष्ट्रध्वजः अर्धप्रवाहितः कर्तव्यः । यदा अर्धध्वजारोहणस्य आदेशः भवति, तदा पूर्णध्वजारोहणानन्तरम् दण्डस्य मध्ये ध्वजः स्थापनीयः । ततः सूर्यास्तकाले ध्वजम् उपरि आरुह्य ध्वजावरोहणं करणीयम् । केवलं भारतीयराष्ट्रध्वजः अर्धप्रवाहितः भवति । अन्ये सर्वे ध्वजाः सामान्यरीत्या प्रवाहिताः भवन्ति ।

भारतगणराज्यस्य राष्ट्रपतेः, उपराष्ट्रपतेः, प्रधानमन्त्रेः, लोकसभाध्यक्षस्य, सर्वोच्चन्यायलयस्य मुख्यन्यायाधीशस्य मृत्युः राष्ट्रियशोकस्य कारणत्वेन परिगण्यते । राष्ट्रियशोकस्य स्थितौ देहली-महानगरे, राज्यानां राजधानीषु, केन्द्रियमन्त्रमण्डलस्य गोष्ठीसमये च राष्ट्रध्वजः अर्धप्रवाहितः भवति । राज्यमन्त्रिणः मृत्यौ सति देहली-महानगरे एव राष्ट्रध्वजः अर्धप्रवाहितः भवति । राज्यस्य राज्यपाल-उपराज्यपाल-मुख्यमन्त्र्यादीनां मृत्यौ तस्मिन् राज्ये राष्ट्रध्वजः अर्धप्रवाहितः भवति ।

गणतन्त्रदिवसः, स्वातन्त्र्यदिवसः, महात्मा जयन्ती, राष्ट्रियसप्ताहः ('अप्रैल'-मासस्य ६ तः १३ पर्यन्तं) च अवसरे उक्तजनेषु कस्यापि निधनं भवति चेत्, मृतकस्य गृहे एव अर्धप्रवाहितः राष्ट्रध्वजः भवति । तद्विहाय सर्वत्र सामान्यरीत्या ध्वजारोहणं भवति । राज्यानां, सेनानां, केन्द्रियानाम् अधिकारिणां निधने सति तेषां शवस्य उपरि राष्ट्रध्वजः सम्मानार्थं स्थायनीयः । भारतीयसैनिकानां शवस्योपरि अपि सम्मानार्थं राष्ट्रध्वजः स्थापनीयः । परन्तु शवस्य दहनावसरे, ‘कबर’-इत्यस्मिन् स्थापनावसरे च राष्ट्रध्वजः स्मानपूर्वकं अवरोहणीयः । अर्थात् राष्ट्रध्वजस्य शवेन सह दहनं, ‘कबर’-मध्ये स्थापनं च असांविधानिकम् ।

जीर्णध्वजस्य किम् ?[सम्पादयतु]

राष्ट्रध्वजः यदि जीर्णः भवति, तर्हि सम्मानपूर्वकं तस्य जीर्णराष्ट्रध्वजस्य विसर्जनविधिः आचरणीया । राष्ट्रध्वजस्य प्रधानविसर्जनविधिषु राष्ट्रध्वजस्य दहनं, भूमौ निखननं(Bury), गङ्गायाः प्रवाहे स्थापनं च मुख्यविधयः सन्ति । जीर्णध्वजस्य आरोहणं राष्ट्रध्वजस्य अपमानत्वेनैव परिगण्यते । शवस्योपरि जीर्णराष्ट्रध्वजः स्थापयितुं न शक्यते । अतः कदापि, कुत्रापि जीर्णराष्ट्रध्वजस्य उपयोगः न करणीयः ।

सम्बद्धाः लेखाः[सम्पादयतु]

भारतीयसंविधानम्

सर्वोच्चन्यायालयः

उच्चन्यायालयः

सन्दर्भः[सम्पादयतु]

  1. भारतीयराष्ट्रध्वजस्य परिकल्पना वेङ्कय्य-रचितस्य ध्वजस्य प्रतिकृतित्वात् सः एव एतस्य ध्वजस्य परिकल्पकः इति मन्यते ।
  2. २.० २.१ "Flag Code of India". Ministry of Home Affairs, Government of India. 25 January 2006. Archived from the original on 10 January 2006. Retrieved 11 October 2006. 
  3. ३.० ३.१ Bureau of Indian Standards (1979). "IS 1 : 1968 Specification for the national flag of India (cotton khadi), Amendment 2". Government of India. 

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=भारतस्य_राष्ट्रध्वजः&oldid=278180" इत्यस्माद् पुनः प्राप्तिः