भारतीयजनतापक्षः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
भारतीयजनतापक्षः
अध्यक्षः राजनाथसिंहः
निर्माणम् डिसेम्बर् १९८०
निर्माणस्रोतः भारतीयजनसङ्घः
संवादपत्रिका कमलसन्देशः
महिलाविभागः भा-ज-पा महिला सङ्घः
कृषकविभागः भारतीयकृषकसङ्घः
विचारधारा हिन्दुत्वम्
राजनैतिकस्थितिः दक्षिणपन्थिनः
वर्णः अरूणवर्णः
मैत्रीकूटः राष्ट्रिय-गणतान्त्रिक-मैत्रीकूटः
लोकसभासदस्यसंख्या
२७९ / ५३९
[१]
राज्यसभासदस्यसंख्या
४३ / २४५
निर्वाचनचिह्नम्
BJP party symbol
जालस्थानम्
www.bjp.org

भारतीयजनतापक्षः(BJP) इत्येषः भारतवर्षस्य कश्चन राजननैतिकपक्षः । अधुना (२०१३) अस्य पक्षस्य अध्यक्षः अस्ति राजनाथसिङ्गः। १९८० तमस्य वर्षस्य डिसेम्बर् मासे भारतीयजनतापक्षः संस्थापितः । वर्तमानकाले भारतीयजनतापक्षः भारतवर्षस्य द्वितीयबृहत्तमपक्षः । भारतीय-राजनीतेः पटभूमौ दक्षिणपन्थिरूपेण अस्य ख्यातिः अस्ति।

डा. श्यामाप्रसादमुखर्जी
अटलबिहारीवाजपेयी

इतिहासः[सम्पादयतु]

भारतीयजनसङ्घः(१९५१-१९८०)[सम्पादयतु]

डा. श्यामाप्रसाद मुखर्जी १९५१ तमे वर्षे राष्ट्रवादं समर्थयन् भारतीयजनसङ्घम् अस्थापयत् । भारतीयजनसङ्घः राष्ट्रियकांग्रेसपक्षस्य तुष्टीकरणनीतेः विरोधप्रदर्शनम् अकरोत् । तथा राष्ट्रिय-एकता-अखंडता एवं सांस्कृतिकविषयेषु कांग्रेसपक्षस्य निन्दाम् अकरोत् । १९५३ तमे वर्षे कारागारे डा. श्यामाप्रसाद मुखर्जीमहोदयस्य अकालमृत्युः अभवत् । परवर्तीकाले पण्डितदीनदयाल-उपाध्यायस्य नेतृत्वे भारतीयजनसङ्घस्य आन्दोलनम् अग्रसरम् आसीत् । तस्य नेतृत्वाधीने एव १५ वर्षाणि यावत् सङ्घस्य पुनर्निर्माणम् अभवत्। पण्डितदीनदयाल-उपाध्यायः केषुचनां सक्षमकार्यकर्तृणां कृते विचारधारायाः प्रशिक्षणं दत्तवान्। अटलबिहारीवाजपेयी तथा लालकृष्णाडवाणी तेषु अन्यतमौ। १९६८ तमे वर्षे पं.दीनदयाल-उपाध्यायस्य हननम् अभवत्। तस्य मरणस्य अनन्तरं अटलबिहारीवाजपेयी जनसङ्घस्य अध्यक्षः अभवत्।

  • १९५२ तमे वर्षे प्रथमसाधारणनिर्वाचने जनसङ्घः त्रिषु एव क्षेत्रेषु विजीतवान्। परवर्तीदशवर्षेषु जनसङ्घस्य शक्तिः वर्धमाना आसीत्। १९६२ तमे वर्षे शक्तिशालि विपक्षरूपेण जनसङ्घस्य उद्भवः जातः। बहुत्र उत्तरभारतीयप्रान्तेषु जनसङ्घः कांग्रेसपक्षेण सह प्रतिस्पर्धाम् अकरोत्। सङ्घस्य मुख्यप्रचारविषयाः समनागरिकसंहिता, गोहत्यानिषेधः, जम्मू-कश्मीरसमस्या, हिन्दी भाषायाः प्रचारः इत्यादयः आसन् ।
  • इन्दिरा गान्धीसर्वकारेण घोषिताऽपात्काले सङ्घकार्यकर्तारः प्रबलविरोधं प्रदर्शितवन्तः। सङ्घस्य सहस्राधिकाः कार्यकर्तारः सर्वकारेण कारागारेषु निक्षिप्ताः आसन्। एतदनन्तरं १९७७ तमे वर्षे जनसङ्घः कांग्रेसविरोधीपक्षजनतादलेन सहमैत्रीकुटः कृताऽसीत्। १९७७ तमे वर्षे साधारणनिर्वाचने जनतादलस्य विजयः अभूत्। मोरार्जी देसाई तदानीं प्रधानमन्त्रीपदं प्राप्तवान्। अटलबिहारीवाजपेयी विदेशमन्त्री च अभूत्। परन्तु जनतादलसर्वकारस्य अधपतनं मोरार्जी देसाईमहोदयस्य पदत्यागेन १९७९ तमे वर्षे अभूत्। जनतादलम् अपि अस्तं प्रतिगतम्।

भारतीयजनतापक्षः(१९८०-)[सम्पादयतु]

  • जनतादलस्य कार्यकर्तारः ये जनसङ्घे आसन् ते भारतीयजनतापक्षस्य (भा.ज.पा.) स्थापनां कृतवन्तः। अटलबिहारीवाजपेयी प्रथमः अध्यक्षरूपेण निर्वाचितोऽभूत्। सिखजनानां उपरि अन्यायस्य विरोधः भारतीयजनतापक्षेण कृतः। (सिखनेता-दारासिंहस्य मतेन )वाजपेयीमहोदयेन सिख-हिन्दुजातयोर्मध्ये सौहार्दभावः वर्धितः आसीत्।
  • १९८४ तमे वर्षे साधारणनिर्वाचने भा.ज.पा. आसनद्वयमेव अविजीत। भा.ज.पा रामजन्मभूमौ (अयोध्यायां) बाबरीमस्जिद् स्थले राममन्दिरनिर्माणम् इति विषयः हिन्दुजनानां सन्मुखे समुपास्थितम् अकरोत्। अस्मिन् विषये विश्वहिन्दूपरिषदः राष्ट्रीयस्वयंसेवकसङ्घयोः समर्थनं पूर्णतया भारतीयजनतापक्षेण लब्धम् आसीत् । लालकृष्णाडवाणी आभारतं यात्रां कृत्वा हिन्दुजनानां समर्थनमपि लब्धवान्।
  • १९९२ तमे वर्षे ६ दिसम्बरमासे, बाबरीमस्जिद विद्ध्वंसः जातः। आभारतं परवर्तीसमये हिन्दु-मुस्लिमजनगणयोर्मध्ये हिंसा प्रचलिता आसीत्। फलस्वरूपं सहस्रा़धिकजनानां मृत्युः अभवत्। एतदनन्तरं विश्वहिन्दूपरिषदः उपरि प्रतिबन्धं सर्वकारेण आरोपितासीत्। लालकृष्णाडवाणी तथा केचन भा.ज.पा. कार्यकर्तारः अपि कारागाराबद्धाः आसन्।

सम्पूर्णदेशे हिंसायाः भर्त्सना अभवत्। परन्तु भा.ज.पा. हिन्दुजनानां समर्थनम् अलभत्।

लालकृष्णः आडवाणी
  • १९९३ तमे वर्षे दिल्ली निर्वाचने भारतीयजनतापक्षः विजयी अभूत्। तथा १९९५ तमे वर्षे गुजरात-महाराष्ट्रः उभयत्राऽपि निर्वाचने भा.ज.प. विजयं अलभत्। १९९५ तमे वर्षे नवम्बर् मासे भा.ज.पा-महाअधिवेशने लालकृष्णाडवाणीमहोदयेन उत्घोषितासीत् यत् - परवर्तीनिर्वाचने भारतीयजनतापक्षः विजयं प्राप्ष्यति चेत् अटलबिहारीवाजपेयी प्रधानमन्त्री भविष्यति इति। १९९६ तमे वर्षे सामान्यनिर्वाचने भा.ज.प. विजयी अभूत्। अटलबिहारीवाजपेयी प्रथमवारं प्रधानमन्त्री अभूत्। परन्तु संख्यागरिष्ठताऽभावात् १३ दिनानि अनन्तरम् एव तेषां सर्वकारस्य पतनम् अभवत्।
  • १९९८ तमे वर्षे लोकसभानिर्वाचने भारतीयजनतापक्षः इतरक्षेत्रीयपक्षैः सह मैत्रीकुटः (राष्ट्रियजनतान्त्रिकमैत्रीकुटः) अकरोत्। निर्वाचने मैत्रीकुटस्य विजयः अभूत्। पुनः अटलबिहारीवाजपेयी प्रधानमन्त्रीपदवीं लब्धवान् । परन्तु १९९९ तमे वर्षे मैत्रीकुटान्तर्वर्ती एकस्य पक्षस्य समर्थनप्रत्याहारकारणात् सर्वकारस्य पतनम् अभवत्।
  • १९९९ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीकुटं सम्पूर्णजनसमर्थनम् अलभत्। अटलबिहारीवाजपेयी प्रधानमन्त्री तृतीयवारम् अभवत् तथा च लालकृष्णाडवाणी उपप्रधानमन्त्री अभूत्। मैत्रीकुटः सर्वम् आहत्य ३०३ तथा भा.ज.प. १८३ स्थलेषु विजीता आसन्। इदनीम् अटलबिहारीवाजपेयी-नेतृत्वाधीनसर्वकारः पञ्चवर्षकार्यकालं सम्यकतया चालितासीत्।
  • २००४ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीकुटस्य अनपेक्षितपराजयः अभूत्।
  • मई २००८ तमे वर्षे भा.ज.पक्षेण दक्षिणभारतीयराज्येषु तथा कर्नाटकविधानसभा प्रथमवारं विजीतः।
  • २००९ तमे वर्षे सामान्यनिर्वाचने भा.ज.पक्षस्य पुनः पराजयः अभवत्। तथा पक्षस्य ११६ स्थलेषु एव विजयः अभूत् ।

लोकसभानिर्वाचने भारतीयजनतापक्षः[सम्पादयतु]

वर्षः लोकसभानिर्वाचनम् विजीत-स्थलानि परिवर्तनम्  % मतदानानि मतदाने परिवर्तनम्
भारतीयलोकसभानिर्वाचनम्,१९८० सप्तमलोकसभानिर्वाचनम्
भारतीयलोकसभानिर्वाचनम्, १९८४ अष्टमलोकसभानिर्वाचनम् +२ ७.७४% +७.७४%
भारतीयलोकसभानिर्वाचनम्, १९८९ नवमलोकसभानिर्वाचनम् ८५ +८३ ११.३६% +३.६२%
भारतीयलोकसभानिर्वाचनम्, १९९१ दशमलोकसभानिर्वाचनम् १२० +३७ २०.११% +८.७५%
भारतीयलोकसभानिर्वाचनम्, १९९६ एकादशलोकसभानिर्वाचनम् १६१ +४१ २०.२९% +०.१८%
भारतीयलोकसभानिर्वाचनम्, १९९८ द्वादशलोकसभानिर्वाचनम् १८२ +२१ २५.५९% +५.३०%
भारतीयलोकसभानिर्वाचनम्, १९९९ त्रयोदशलोकसभानिर्वाचनम् १८२ २३.७५% –१.८४%
भारतीयलोकसभानिर्वाचनम्,२००४ चतुर्दशलोकसभानिर्वाचनम् १३८ -४४ २२.१६% -१.६९%
भारतीयलोकसभानिर्वाचनम्,२००९ पञ्चदशलोकसभानिर्वाचनम् ११६ -२२ १८.८०% -३.३६%
भारतीयलोकसभानिर्वाचनम्, २०१४ षोडशलोकसभानिर्वाचनम् २८३ +१६७

भारतीयजनतापक्षस्य विचारधारा एवं राजनैतिकपरिप्रेक्षः[सम्पादयतु]

सर्वभारतीयराजनैतिकपक्षरूपेण भारतीयजनतापक्षस्य निर्दिष्टविचारधारा अस्ति । मनुष्यत्ववादः, हिन्दुत्ववादः इत्यादयः विचाराः संस्कृतिं तथा राष्ट्रवादं समर्थयन् राष्ट्रिय-ऐक्यतां सूचयति । अस्य पक्षस्य विचारधारा शक्तिशालिरक्षणनीतेः परिपोषका ।

नरेन्द्र मोदी

हिन्दुत्ववादः[सम्पादयतु]

भारतीयजनतापक्षः हिन्दुत्ववादं पुर्णतया समर्थयति । नन्वत्र "हिन्दुत्व" नाम हिन्दुजातित्वम् इति न । विनायक-दामोदर-सावरकरमहोदयस्य विचारधारैव "हिन्दुत्ववादः" इति ख्यातः । अस्य वादानुसारेण सांस्कृतिक-आत्मीयतावादः(जातीयतावादः) एव हिन्दुत्ववादः । अयं वादः पाश्चात्यायनस्य (Westernisation) विरुद्धे भारतीयसभ्यता-ऐतिह्य-संस्कृतिं समर्थयति । विरोधीपक्षाः आरोपं कुर्वन्ति यत् - हिन्दुत्ववादः संख्यालघुजनविरोधीवादः इति । परन्तु समग्रभारतीयजनाः एकत्र सांस्कृतिक-आत्मीयतावादे (जातीयतावादे) अन्तर्भवन्ति । मुस्लिम्-क्रिस्तीयप्रभृतयः संख्यालघुजनाः अपि तत्रैव अन्तर्भवन्ति इति भारतीयजनतापक्षस्य मतम् ।
अटलबिहारीवाजपेयी-महोदयेन धर्मनिरपेक्षता विषये युरोपीयसिद्धन्तः न मनुते । भारतीयजनतापक्षः अस्मिन् विषये महात्मा गान्धीमहोदयस्य "सर्वधर्मसमभावः" इति वादं स्वीकरोति।

एकात्मतावादः[सम्पादयतु]

एकात्मताचिन्तनं सर्वदा भारतीयजनतापक्षस्य मुख्यविषयं भवति । पक्षोऽयं दक्षिणपन्थि-चिन्तन्प्रभावात् सामाजिकसंरक्षणशीलता, प्रगतिशीलता इत्यादि विषये प्रभाविता अस्ति । वस्तुतस्तु भारतीयजनतापक्षस्य विचारधारा भारतीय-ऐतिह्य- मुल्यबोधात् संग्रहिता । भारतीयजनतापक्षः स्व-संहितायां आलोचयति- पक्षस्य स्थापना आधुनिकभारतवर्षस्य प्रगति-उन्नति- शक्तिवर्धनार्थं जातः । तथा विश्वशक्तिरूपेण भारतस्य पुनर्निर्माणम् अस्य पक्षस्य मुख्य-उद्देश्यम् इति । भारतीयजनानां स्वजातिबोधः एव एकात्मतावादः । अनेन आत्मीयतासूत्रेण रचयामः जनस्रजः इति ।

आर्थिकनीतिः[सम्पादयतु]

आर्थिकनीतयः कस्यचित् राजनैतिकपक्षस्य मुख्यांशः भवति । भारतीयजनतापक्षः मार्क्सवादी आर्थिकनीतयः नाङ्गीकुर्वति । अयं पक्षः समाजतान्त्रिक अर्थनीतेः अपि विरोधं करोति । भारतीयजनतापक्षः "स्वदेशी"-भावं वर्धयति । पक्षोऽयं देशीय (भारतीय) शिल्पोद्योगः एवं स्वदेशीसामग्रीवितरण-विकासविषये चिन्तयति । यद्यपि आर्थिकक्षेत्रेषु वैदेशिकशिल्पविकासः एते नेच्छन्ति । तथापि अटलबिहारीवाजपेयीसर्वकारः स्वतन्त्रवाणिज्यिकनीतेः अनुसरणं कृतवान् ।

रक्षणनीतिः[सम्पादयतु]

भारतीयजनतापक्षः शक्तिशालिजातीयरक्षणनीतेः समर्थनं करोति । तन्निमित्तं भारतीयसेनायाः आधुनिकीकरणं तथा पारमाणविकरक्षणम् एते समर्थयन्ति । जम्मु-कश्मीरप्रदेशस्य पूर्णस्वाधीनतां तथा भारतीयसंविधाने विशेषराज्यरूपेण अनुमोदनम् इच्छन्ति । अटलबिहारीवाजपेयीसर्वकारः पोखराणे पारमाणविकपरीक्षणं १९९८ तमे वर्षे कृतवान् । अनुप्रवेशकारीणां (पाकिस्थानस्य) विरुद्धे "कर्गीलयुद्धम्" अपि जीतवान् ।

विविधराज्येषु राष्ट्रियजनतान्त्रिकमैत्रीकुटः (एन्. डि. ए)[सम्पादयतु]

राष्ट्रियजनतान्त्रिकमैत्रीकुटः (एन्. डि. ए) पिङ्गलवर्णे

भारतीयजनतापक्षेण चालितराज्यानि[सम्पादयतु]

इतरमैत्रीकुटेन चालितराज्यानि[सम्पादयतु]

वर्तमाने राष्ट्रिय-जनतान्त्रिक-मैत्रीकुटस्य (एन्. डि. ए) मुख्यमन्त्रीगणः[सम्पादयतु]

पक्षाऽध्यक्षाणां नामानि[सम्पादयतु]

वर्षः नाम वारम्
१९८०-१९८६ Ab vajpayee.jpg अटलबिहारीवाजपेयी
१९८६-१९९१ Lkadvani.jpg लालकृष्णाडवाणी प्रथमवारम्
१९९१-१९९३ Murli Manohar Joshi 2.jpg मुरलीमनोहरजोशी
१९९३–१९९८ Lkadvani.jpg लालकृष्णाडवाणी द्वितीयवारम्
१९९८–२००० कुशाभाव ठाकरे
२०००–२००१ बङ्गारु लक्ष्मणः
२००१–२००२ Jana1.JPG जना कृष्णमूर्तिः
२००२–२००४ Venkaiah Naidu.jpg वेङ्कैया नाइडु
२००४–२००६ Lkadvani.jpg लालकृष्णाडवाणी तृतीयवारम्
२००६–२००९ Rajnath singh.png राजनाथसिंहः प्रथमवारम्
२००९–२०१३ Nitin Gadkari.jpg नितीनगडकरी प्रथमवारम्
२०१३ – २०१४ Rajnath singh.png राजनाथसिंहः द्वितीयवारम्
२०१४- वर्तमानः अमित शाह प्रथमवारम्‌

टिप्पणी[सम्पादयतु]

बाह्यसम्बन्धाः[सम्पादयतु]

भारतीयजनतापक्षस्य आधिकारिकजालस्थानम्

"http://sa.wikipedia.org/w/index.php?title=भारतीयजनतापक्षः&oldid=281892" इत्यस्माद् पुनः प्राप्तिः