भारतीयदर्शनशास्त्रम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

दर्शनस्य स्वरूपम्[सम्पादयतु]

दृष्टिभूतस्य पदार्थजातस्य ज्ञानं दर्शनं भवति । भारतवर्षे मानवसभ्यतायाः आदिमयुगे भारतीयैः मनीषिभिः न केवलं मानवीयसमस्यानाम् अपि तु जडजगतः गूढातिगूढानां रहस्यानां प्रकाशनं स्वकीयया क्रान्तप्रज्ञया कृतम् । ते भारतीया मनीषिणः ऋषयो बभूवुः । ते वेदानामपि साक्षाद् दर्शनं कृतवन्तः । अत एव ‘ऋषयो मन्त्रद्रष्टारः’ इत्युच्यते स्म । मन्त्रद्रष्टृणां पुरतो लोकस्य दृष्टिभूतानां बाह्यपदार्थानां विषये ज्ञानस्य प्राप्तिः कथं भवेत् इति जिज्ञासा वर्तते स्म । तेषामन्तःकरणे भौतिकानाम् आध्यात्मिकानाञ्च तत्त्वानां चिन्तनाय पर्याप्तम् अवसरोऽविद्यत ।

ते मनीषिणो विचारितवन्तः –एषा दृश्यमाणा चराचराणां महती सृष्टिः कथं सञ्जातेति । कोऽस्याः कर्त्ता रचयिता वा ? किं सः जगत्कर्त्ता द्रुष्टं शक्यते इति चेत् कथं सम्भवेत् तदीयः साक्षात्कारः ? कथं प्राणिनो जायन्ते म्रियन्ते च ? सांसारिकः प्राणी सुखदुःखमोहादिभिः ग्रस्तोऽस्ति, अतः कथं स मुक्तो भवेत् ? चिन्तनस्यैषा अजस्रं प्रवहमाना विचारधारा दर्शनस्य क्षेत्रं भारतीयमानवस्य दृष्टिकोणेन सह विकासपथे विस्तृतं कृतवती ।

दर्शनस्य व्युत्पत्तिलभ्यार्थस्य परिज्ञानमात्रावश्यकं प्रतीयते, यतो हि दर्शनस्य उद्भवविषये व्यापकताया विषये चैनं विना किमपि विशेषं विज्ञातुं सम्भवः नास्ति । दृश् धातोः करणार्थे ल्युट्प्रत्ययस्य प्रयोगात् ‘दर्शन’ शब्दो निष्पद्यते । तदवस्थायां ‘दृश्यते अनेन इति दर्शनम्’ इत्याकारकी व्युत्पत्तिः सुसिद्धा भवति अनया व्युत्पत्त्या साधनं चक्षुरतिरिक्तं बुद्ध्यादिकं यदा अवगाहते तदा तत्क्रियान्वयनं दर्शनं भवति ।

यद्यपि दर्शनमिति पदं चक्षुरिन्द्रियेण सम्बद्धम् अस्ति । अर्थात् चक्षुरिन्द्रियेण सम्बद्धं प्राप्तञ्च प्रत्यक्षज्ञानं दर्शनविषयीभूतं भवति । अत्र विचार्यते यत्केवलं दर्शने चक्षुरिन्द्रियमात्रेण साक्षात्कृतं ज्ञानमेव गृह्यते, अथवा ज्ञानेन्द्रियपञ्चकेन गृह्यमाणं ज्ञानसमग्रमेव प्रत्यक्षान्तर्गतं स्वीक्रियते । अत्र प्रत्यक्षवस्तुदर्शनस्य विचारेणैव दर्शनस्य प्रारम्भो भवति । अर्थात् लौकिकपदार्थस्य साक्षात्कारे पदार्थविषयकज्ञानस्य ग्राह्यतायाः सम्बन्धे प्रश्नपूर्विका जिज्ञासैव दर्शनस्य मौलिकं लक्ष्यमुपस्थापयति ।

येन दृश्यते तद् दर्शनमिति चेत् किं वर्तते दर्शनीयम् ? लौकिकं पदार्थजातम् अलौकिकं वा ? यद्यपि दर्शनस्य प्रारम्भो लौकिक-पदार्थ-साक्षात्कारेण भवति, तथापि दर्शनस्य चरमं लक्ष्यन्तु अलौकिकं पदार्थमेव भवति । तद् अलौकिकं पदार्थं जीवात्मा, परमात्मा, ब्रह्म वेति विविधाभिः संज्ञाभिर्विज्ञायते । इदमात्मतत्वं सूक्ष्मतरम् अस्ति । चक्षुषा अस्य दर्शनं न सम्भवति । यतो हि अस्य दर्शनम् अलौकिकप्रत्यक्षेणैव सम्भवति । तत् सूक्ष्मतरं महत्तत्वं येनापि साक्षात्क्रियते, तजॅज्ञानमेव दर्शनमस्तीति दर्शनस्य परिष्कृतं स्वरूपमस्ति ।

भगवान् बुद्धः

लक्षणम्[सम्पादयतु]

यद्यपि दर्शनस्य लक्षणानि विविधसम्प्रदायेषु विविधप्रकारेण विहितानि, किन्तु सर्वेषां लक्षणवाक्यानाम् एकस्मिन्नेव लक्ष्ये अभिप्रायो वर्तते । इदमपि स्पष्टमेवास्ति यत् ‘दर्शन’शब्दस्य प्रयोगः प्रायः शास्त्रेण सह भवति । अत एव “दृश्यते यथार्थरूपतया ज्ञायतेऽलौकिकार्थो येन तत् दर्शनशास्त्रम्” इत्युत्पत्त्या अपि सिद्ध्यति यत् अलौकिकतत्त्वानां सम्यग् ज्ञानं येन जायते तद् ज्ञानरूपं साधनमेव दर्शनं भवति ।

‘दर्शन’ शब्देन सह “शास्त्र”शब्दस्य प्रयोगो नूतनो नास्ति । यतो ‘दर्शन’पदस्य यः व्यवहारो विधीयमानोऽस्ति सः एव ‘शास्त्र’पदस्यापि प्रयोगेण उपलभ्यते । यत्र दर्शनं साधनमात्रं विद्यते तत्र शास्त्रं तस्यानुशासकं भवति । शास्त्रपदं ‘शास्’ धोतोर्निष्पद्यते । तदनुसारेण यत् शास्ति उपदिशति आज्ञापयति वा तत् शास्त्रं भवतीत्यर्थो विज्ञायते । शंसुधातोरपि शास्त्रपदस्य निष्पत्तिर्भवति यस्यार्थोऽस्ति प्रकटीकरणमिति । शासनन्तु पुनर्द्विधा कथितं विधिरूपेण निषेधरूपेण च । विधिनिषेधपरकं शासनं धर्मेण सम्बद्धं भवति ।

शासनरूपिणा शास्त्रेण युक्तं दर्शनशास्त्रं दर्शनस्य लक्ष्यं वितनोति । तदा तद् अलौकिकतत्त्वानां ज्ञानस्य साधनमात्रं न भवति, अपि तु लौकिककर्त्तव्याकर्त्तव्ययोर्विधिनिषेधरूपयोः स्रोतसा लौकिकजीवनाचरणयोः परिष्कारस्य साधनमपि जायते । केनोपायेन वयं लौकिकपदार्थविज्ञानस्य जीवनोपयोगं कुर्मः, कथञ्चालौकिक-तत्त्वसाक्षात्कारस्य योग्यतां प्राप्नुमः, कथं वा जीवनमरणयोः बन्धकानां परिहारं विधास्यामः ? एतद्दिशाबोधकं शास्त्रमेव वस्तुतो दर्शनशास्त्रमित्युच्यते ।

यथार्थतस्तु शंस्- शासधात्वोरर्थान्तरत्वमेव दर्शनस्य सान्वर्थताया मुक्तस्याग्रहस्य कारणभूतमस्ति । यतो हि शास् धातोर्निष्पन्नं शास्त्रं क्रियापरकं भवति, किन्तु शंस् धातोर्निष्पन्नं शास्त्रं ज्ञानपरकं भवति । दर्शनस्य मूलभूतं लक्ष्यं पारलौकिकमस्ति । तस्य प्राप्तिः केवलं ज्ञानेनैव न सम्भवति, अपितु क्रियया सह ज्ञानस्य व्यवहारेणैव तत्प्राप्तिर्जायते ।

केषाञ्चन मते सम्यग् दृष्टिरेव दर्शनं भवति । अत्र दृष्टिशब्दे विचारस्य अथवा प्रकारान्तरेण ज्ञानस्यैव पर्यायोऽस्ति । यदा च सम्यग् दृष्टेर्विश्लेषणं विधीयते तदा ‘ज्ञानस्य सम्यक् प्रयोग’ इत्यर्थे भारतीयदर्शनस्य मूलभूतं तत्त्वमेव तत्र परिलक्षितं भवति । पाश्चात्यैः दर्शनस्य कृते ‘फिलासफी’ शब्दः प्रयुज्यते । अयं शब्दो ग्रीकभाषाया यौगिकः शब्दोऽस्ति । अस्यार्थोऽस्ति विद्यानुराग इति । यद्यप्यस्मिन् शब्दे क्रियापक्षो गौणभूतो वर्तते तथापि आधुनिकैरस्य शब्दस्य तात्पर्यार्थ एवं प्रकारेण विनिर्दिष्टः-

“सामान्यानां वैज्ञानिकानाञ्च सम्प्रत्ययानां विश्लेषणं, परीक्षणम्, अपि च विज्ञानविशेषाणामभिगृहीतानाम् तथ्यानाम् अन्वेषणस्य परिणामानां समन्वयकं, जगतः सामंजस्ये व्यक्तेश्च सम्बद्धानां समस्यानां जिज्ञासाभावनया विवेचकम् शास्त्रं ‘फिलासफी’ इत्युच्यते । अस्मिन् तत्त्वमीमांसा–नीतिशास्त्र–सत्ताशास्त्र–तर्कशास्त्र–मूल्यमीमांसा –प्रभृतीनां समावेशो भवति” । एवं विधस्य व्यापकस्य विश्लेषणस्य पश्चात् पाश्चात्यैः प्रयुक्तोऽयं फिलासफी’ शब्दः बौद्धिकतत्त्वमात्रं नैव स्वीकर्तुं शक्यते । अस्येदं तात्पर्यमस्ति यत् विद्यायाः सम्बन्धो बौद्धिकतत्वमात्रेणैव न भवति, अपि तु जीवनेनापि सिध्यति । अतो जीव-जगत्-ईश्वर–धर्माधर्म–समाजादीनां तत्त्वानाम् अध्ययनस्य विश्लेषणस्य वा समग्रं कार्यजातं दार्शनिकतायाः व्यापकं क्षेत्रं सूचयति ।

यद्यपि कालक्रमेण दर्शनविज्ञानयोः पार्थक्यं सञ्जातम् । अतः दर्शनस्य क्षेत्रं पाश्चात्यानां मतेन सीमितं जातम् । विज्ञानमपि व्यक्तस्य दृष्टिभूतस्य सत्यस्य विश्लेषकं भवति, अतो दर्शनस्य परीधेः बहिर्नास्ति । तथापि सम्प्रत्यपि पाश्चात्यदेशेषु दर्शनाध्ययनस्य क्षेत्रे ईश्वर-सृष्टिप्रभृतिविषयाणां चिन्तनस्य औचित्यं स्वीक्रियते । यतो हि एते विषया अव्यक्तस्य सत्यस्य विश्लेषकाः सन्ति ।

भारतीयदर्शनेऽपि दार्शनिकचिन्तनस्य एषा सरणिः प्रायेण एष्वेव विषयेषु अवलम्बिताऽस्ति । भारतीयदृष्टिकोणेन यत्र विज्ञानं भौतिकजातपर्यन्तम् एव सीमितम् अस्ति तत्र दर्शनं ततोऽप्यधिकम् अलौकिकतत्त्वानां सूक्ष्मविश्लेषणस्य ज्ञानस्य च सशक्तं साधनम् वर्तते । पाश्चात्यानां विचारेण अदृष्टविषयाः सन्दिग्धप्रायाः सन्ति, किन्तु भारतीयानां विचारेण अदृष्टविषयेषु ब्रह्मात्मादिषु सन्देहस्य लेशोऽपि नास्ति ।

भारतवर्षे तु विविधाः दार्शनिकसम्प्रदाया दृश्यन्ते । एकस्यैव सम्प्रदायस्य अनेके विचारकाः वर्तन्ते । तेषां विविधा दार्शनिकचिन्तनस्य ग्रन्था अपि उपलभ्यन्ते । यद्यपि दार्शनिक-सम्प्रदायेषु मतवैभिन्न्यं मतवैविध्यञ्च विद्यते, तथापि सर्वेषां मूलभूतम् उद्देश्यम् एकमेवास्ति । भारतवर्षे दार्शनिकचिन्तकानां चिन्तनमार्गाः विविधाः सन्ति, किन्तु समेषां गन्तव्यम् एकमेवास्ति । तात्पर्यमिदं वर्तते यस्यमेषां भारतीयदार्शनिकानां चिन्तने मोक्षमेव लक्ष्यभूतमस्ति । अतएव केनचिदुक्तम्-

यं शैवा समुपासते शिव इति ब्रह्मेति वेदान्तिनो, ।
बौद्धा बुद्ध इति प्रमाणपटवः कर्त्तेति नैयायिकाः ॥
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसका ।
सोऽयं नो विदधातु वांछितफलं त्रैलोक्यनाथो हरिः॥

भारतीयदर्शनशास्त्रस्य प्रवृत्तेर्मूलकारणं मोक्षोऽस्ति । मोक्षरूपिणो लक्षस्य प्राप्तये दार्शनिकैर्विविधाः सिद्धान्ता उपस्थापिताः । सिद्धान्तभेदेऽपि साध्यभेदो नास्ति । इदमेव भारतीयचिन्तने निगूढं रहस्यम् अस्ति । भारतवर्षस्य भौगोलिकस्थितेः प्राकृतिकसम्प्रदायाश्च महनीययोगदानेन भारतीयमनीषिणां प्रज्ञाजीवनस्य कठोरसंघर्षेभ्यो मुक्ता सति अध्यात्मोन्मुखी सञ्जाता । लौकिकजीवनस्य भौतिकसुखसाधनानाञ्च अनित्यताया बोधेन अत्रत्या ऋषयोऽन्तर्मुखिनो भूत्वा ब्रह्मण्डस्याधारभूतां नित्यां शक्तिं साक्षात्कृतवन्तः । अत एवोच्यते “साक्षात्कृतधर्माणः ऋषयो बभूवुः” इति ।

भारतीयचिन्तकैरनुभूतं यत् दृश्यमाणस्य जगतोऽस्तित्वमूले काचित् नित्या शक्तिरवश्यमेवास्ति । ब्रह्माण्डे नियतरूपेण दृश्यमाणानां परिणामानां तस्या उपरि प्रभावो न निपतति । सा एका अपि शक्तिर्विविधप्रकारेण प्रतिपादिता । श्रुतिरपि बोधयति – “एकं सद्विप्रा बहुधा वदन्ति, अग्निं यमं मातरिश्वानमाहुः” प्राचीनैर्भारतीयैर्मनीषिभिः स्वकीयेन चिन्तनेन इदमपि सिद्धं यत् ब्रह्माण्डमिव प्राणिशरीरमपि तस्याः नित्यायाः शक्तेरायतनभूतम् अस्ति । अर्थात् यथा परमात्मा ब्रह्माण्डे व्याप्तोऽस्ति तथैव प्राणिशरीरेऽपि । कालान्तरेऽस्य विचारस्य प्रभावादेव ‘यथा पिण्डे तथा ब्रह्मण्डे’ इत्यस्य सिद्धान्तस्य प्रवर्तनम् अभवत् । अस्य सिद्धान्तस्यानुसारेणा वक्तुं शक्यते यत् यथा बहुषु पात्रेषु एकस्यैव कूपस्य जलं पात्रानुरूपाम् आकृतिं गृहीत्वा पृथक् भासते, किन्तु तस्य स्वरूपभेदेऽपि एकत्वविषये सन्देहो न भवति तथैव सर्वेषु प्राणीशरीरेषु एकस्यैवात्मनः शरीरानुरूपव्यवहारात् पार्थक्यं प्रतियते, तथापि यथार्थतः तदीये एकत्वविषयेऽपि सन्देहो नैव करणीयः । यतोहि सर्वेषु प्राणिशरीरेषु विद्यमानं चैतन्यं मूलतः एकमेवास्ति ।

भारतीयदर्शने आत्मचैतन्यस्य सम्पर्केणैव जीवानां जीवनं सम्भवमिति विचारणे जीवात्मनोः ऐक्यं स्वीकृतम् अस्ति । तदनुसारेण जीवशरीरस्थ आत्मा परमात्मनो भिन्नो नास्ति । जीवात्मा-परमात्मनोर्भेदस्तु केवलम् उपाधिगतमस्ति । एवं जीवब्रह्मणोरैक्यं भारतीयदर्शनस्य अद्भुतं सोपानमस्ति । यत्र वैदिकैः ऋषिभिः “सत्यं ज्ञानमनन्तं ब्रह्म” इत्युक्त्वा ब्रह्मणो नित्यत्वं विभुत्वं च प्रतिपादितं, तत्रैव जीवात्मनो रूपेण तस्य शरीरे विद्यमानताऽपि प्रतिपादिता ।

यथार्थतस्तु शरीरे आत्मरूपेण निहितं तत्त्वमेव ब्रह्मास्ति । अत्र विचार्यते यत् यदा आत्मरूपेण ब्रह्मैव शरीरे तिष्ठति तदा तस्य साक्षात्कारः कथं न भवति ? अस्य प्रश्नस्य जिज्ञासारूपेण उदय एव भारतीयदार्शनिकचिन्तनस्य मूलमिति वक्तुं शक्यते । शरीरे आत्मनो विद्यमानताया विषयेऽपि कश्चित सन्देहो नास्ति, यतो हि प्राणिनां सर्वाः क्रियाः आत्मकेन्द्रिता भवन्ति, किन्तु तासां सर्वासां क्रियाणां यः कश्चित् केन्द्रबिन्दुर्वर्तते स एव ब्रह्म । तस्यैव प्राधान्यम् अत एवोक्तम् –

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्च ।

आत्मनः श्रेष्ठताऽनेन उपनिषदवाक्येन उपलक्षिता भवति । एतदनुसारेण तस्यात्मनो दर्शनं करणीयम् अर्थात् तदीयः साक्षात्कारो विधेयः, तस्यात्मनः मननं करणीयम् अर्थात् तस्य किंस्वरुपं, कथं च तत्साक्षात्कारो भवितुं शक्यते इत्यादि विज्ञातुं ज्येष्ठैरनुभविभिः सह पर्याप्तं विचारविमर्शः कार्यः । तेषां तद्विषयकसिद्धान्तानां च श्रवणमपि कार्यम् । तस्यात्मनः मननं करणीयम् अर्थात् स्वाध्यायेन स्वकीयमपि उन्मुक्तं चिन्तनम् आत्मसाक्षात्काराय आवश्यकम् अस्ति । यतो हि लोकपरलोकयोः आत्मनोऽपेक्षया श्रेयोऽन्यत् तत्त्वं नास्ति । इदम् आत्मतत्त्वं चिरन्तनं वर्तते । उपनिषदोऽस्य गीतं गायन्ति । श्रीमदभगवदगीतायामपि आत्मनो व्यापकं चिन्तनं प्रस्तुतमस्ति । तद् दृष्टवा तु इदमेव वक्तुं शक्यते यत् भारतीयमानवस्य जीवनचर्येव आत्मानं केन्द्रीकृत्य प्रवर्तिताऽस्ति । आत्मना सम्बद्धानां चतुर्ण्णां पुरुषार्थानां प्रतिपादनं भारतीयानां जीवनचर्याविषये मनीषिभिः पूर्वमेव विहितम् । तदनुसारेणात्र धर्मार्थकाममोक्षाश्चेति जीवनस्य चत्वारो पुरुषार्था नियताः सन्ति । चतुर्षु प्रुरुषार्थेषु यत्र धर्मस्य आद्यं स्थानम् अस्ति तत्र मोक्षस्य स्थानम् अन्तिमं वर्तते । धर्ममोक्षयोर्मध्ये अर्थकामौ तिष्ठतः, एतावपि धर्ममोक्षयोः सम्पूरकौ स्तः । यतो हि उभयोरनयोरभावे धर्ममौक्षौ सम्पन्नौ न भवतः । प्रवृत्तिं विना निवृत्तिं विना निवृत्तिः सम्भवा नास्ति ।

को नाम धर्मः ? किं च तस्य लक्षणम् । कथमयमावश्यकः ? इत्यादयः प्रश्नाः धर्मविषये जिज्ञासामुदभावयन्ति । एवमेव सर्वानर्थमूलोऽप्यर्थः कस्मात् पुरुषार्थरुपः सञ्जातः ? शास्त्रनिषिद्धोऽपि कामः कथं पुरुषार्थविशेषः परिगणीतः ? साधनायामपि एष विध्नरुप एव कथितः । एवं शास्त्रपद्धत्यैव ‘वदतो व्याघात’ दोषो विद्यते । न कश्चित् कामप्रवृत्तो मोक्षविषये श्रोतुमिच्छेत् । एवं पुरुषार्थचतुष्टयविषये नाना विप्रतिपत्तयः सन्ति । तथापि पुरुषार्थचतुष्टयमेव भारतीयजीवनस्य केन्द्रबिन्दुरस्ति । चरमपुरुषार्थरुपो मोक्षः सर्वोत्कृष्टो वर्तते । अस्य दिव्यता वस्तुतः अलौकिकी अस्ति । देवा अपि मोक्षस्यानन्दमनुभवितुम् आत्मानं वञ्चिताः अवगच्छन्ति । भारतीयैर्मनिषिभिः मोक्षम् अन्तिम –पुरुषार्थरुपेण उपस्थाप्य भारतीय –जीवन-पद्धतेः परिपूर्णतायाः एव संकेतो विहितः । यद्यपि मोक्षावस्थायाम आत्मसाक्षात्कारस्थोल्लेखः शास्त्रेषु कृतः, तथापि आत्मसाक्षात्कारो भवति, न वा इत्यस्य किं प्रमाणम् ? लोके चैतन्यमात्रमात्मा, स च शक्तिरुपः क्रियारुपो वा व्यवहारे तस्यानुभवो जायते । कथं च चक्षुषा तद्दर्शनमित्यपि दर्शनस्य समस्याऽस्ति । आसां समस्यानां समाधानमेव दर्शनशास्त्रस्य लक्ष्यम वर्तते ।

शरीररुपिणि पिण्ड एव नित्यतत्त्वम् आत्माऽस्ति, किन्तु शरीरे तस्य सावधिकी उपस्थितिः नित्यत्वविषये शङ्कामुत्पादयति । मरणोपरान्तं शरीरस्य चैतन्यशून्यताऽपि आत्मनोऽस्तित्वं शङ्कास्पदं विदधाति । अतः आत्मनो नित्यता व्यापकता च सन्दिग्घा जायते । नित्यत्वेऽपि कथमात्मा शरीरं परित्यजति अथवा व्यापकत्वेऽपि देहत्यागदशायां मृतपिण्डे तदीया व्याप्तिः कथं स्वीकर्त्तुं शक्या । व्यापकेन आत्मतत्त्वेन ब्रह्माण्डस्य कोऽपि पदार्थोऽस्पृष्टो न भवेत् । इदमात्मतत्त्वस्य सन्दर्भे भौतिकं विश्लेषणमस्ति । यथा बहुषु पात्रेषु पयसि दृश्यमाणश्चन्द्र एकोऽपि अनेकासु आकृतिषु प्रतिबिम्बितो भवति, तत्रापि च अनेकासाम् आकृतीनां याथार्थ्यं नास्ति, यतो हि ताः तावदेव प्रतिबिम्बिता भवन्ति यावत् तेषु पात्रेषु जलं भवति, तथैव अनेकेषु प्राणिशरीरेषु अनुभूयमानं चैतन्यमेकस्यैव आत्मनः प्रतिबिम्बमस्ति तत् तावदेव भासते यावत् शरीरे प्राणाः तिष्ठन्ति । एवं चेत् प्राणानाम् आत्मना सह तादात्म्यं विद्यते ।

उक्तोदाहरणेन सिद्ध्यति यत् युक्तिश्रुतिम्यां साध्यमिदम् आत्मतत्त्वं यद्यपि लौकिकप्रत्यक्षस्य विषयो नास्ति तथापि अलौकिकं प्रत्यक्षं तस्य स्वीक्रियते । तदीयं साक्षात्कार एव जीवं जन्ममृत्योः बन्धनात् मुक्तं विधायामरत्वं प्रददाति । तदेव मोक्षरुपः तुरीयः पुरुषार्थो वर्तते । कथञ्चात्मसाक्षात्कारो मुक्तिसाधनमित्यस्मिन् वर्तते । अस्य तात्पर्यम् अस्ति-आत्मज्ञानी जनः आत्मसाक्षात्कारे सति आत्मन्येव सति आत्मन्येव अवस्थितो भवति । तदा सर्वेभ्यः काम्यनिषिद्ध कर्मभ्यो मुक्तो भूत्वा जीवः स्वबन्धनराहित्यमनुभवति अथवा च ज्ञानबलेन अविद्याया आवरणं विच्छिद्य जीव आत्मना सह ऐक्यमनुभूय आनन्दं लभते । एव्ं चेत् यथार्थतस्तु भेदबुद्धेर्विनाश एव आत्मसाक्षात्कारस्य साधनमस्ति ।

आत्मसाक्षात्कारस्य मोक्षरुपतायां सिद्धायां मोक्षस्य वास्तविकं स्वरुपं आत्मन्यवस्थानमात्रं सिदध्यति अतएवोक्तुं कैश्चित –“आत्मनः स्वरुपेणावस्थितिरेव मोक्षः” इति । यदा जीवशरीरस्थ आत्मा आत्मनो मूलस्वरुपेऽवस्थितो भवति तदा स येन प्राणिशरीरेण सम्बद्धो भवति तेन सञ्चितानि कर्माणि दग्घुं प्रभवति, अतः तस्य मुक्त्तात्मनः प्राणिनः सञ्चितानि कर्माणि फलोपभोगाय स्वपरिणामान् जनयितुं न क्षमन्ते । अत्र दर्शनस्य भूमिका किमस्तीति विचारणीयोऽयं विषयः । तथा चेत् आत्मतत्त्वस्य लक्षणस्वरुपे एव दर्शनशात्रस्य प्रतिपाद्यभूते स्तः ।

“आत्मैव सर्वश्रेष्ठं तत्त्वमस्ति” इत्यस्य तथ्यस्य प्रतिपादनमेव दर्शनशास्त्रस्य प्रधानं लक्ष्यमस्ति । आत्मसाक्षात्काराय ज्ञानमेव साध्यं विद्यते । यदा आत्मनः स्वरुपसाक्षात्कारयोः विधिपूर्वकं ज्ञानग्रहणं विना साध्यसिद्धिः सम्भवा नास्ति । अतएव शास्त्रोपदेशोऽस्ति-“आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्च” एवं भारतीयदर्शनम् अधिकांशतः आध्यात्मिकम् अस्ति । अत्र भौतिकपदार्थवादस्य चिन्तनं तदपेक्षया न्यूनं प्रतिभाति । पाश्चात्यदर्शनादस्येदं पार्थकयमस्ति यत् पाश्चात्यार्शने भौतिकपदार्थवादस्य चिन्तनं प्रधानभूतं वर्तते, किन्तु आध्यात्मिकं चिन्तनं न्यूनमस्ति । पाश्चात्यविचारधारानुसारेण दर्शनशास्त्रं वैज्ञानिकविधानानां विश्लेषणमात्रम् अस्ति, किन्तु भारतीयदृष्टिकोणेन दर्शनं यथार्थपरिज्ञानाय पल्लवितायाः जिज्ञासायाः सुपरिणामोऽस्ति । तदेव च शाश्वतसत्यस्य समुचितम् अन्वेषणं विद्यते ।

येन दृश्यते विचार्यते साक्षात् ज्ञानं प्राप्यते तदेव दर्शनमस्तीति विचारेण साक्षात् ज्ञानमेव तत्त्वज्ञानमस्ति । तेनैव अभ्युदयनिः श्रेयसोः सिद्धिर्भवति । इदं तत्वज्ञानं भारतीयै मन्त्रदृष्टभिः महर्षिभिः स्वकीयया नवनवोन्मेषशालिन्या प्रज्ञया साक्षात् अनुभूतम् । तेषां जिज्ञासायाः परिणामस्वरुपमेव सम्प्रति दर्शनशास्त्रस्य विस्तृतो न्यासो विद्यमानोऽस्ति । समग्रस्य भारतीयचिन्तनस्य आधारभूतानि षड् वैदिकदर्शनानि सन्ति । अवदिकदर्शनेषु यानि भारतवर्षे पल्लवितानि तानि अपि तत्त्वान्वेषणपूर्वकं ज्ञानोपलब्धिं प्रति अग्रेसराणि दृश्यन्ते । भारतवर्षे दार्शनिकचिन्तनस्य प्रारम्भो यथार्थतस्तु उपनिषत्कालात्सञ्जातः । इतः पूर्व्ं वैदिककाले दार्शनिकता तु विद्यमाना आसीत् किन्तु तस्या एतावान् विकासो नासीत् । तत्र तर्कपूर्णस्य अन्वेषणस्य प्रवृत्तिः नावर्तत । उपनिषत्सु मानवजिज्ञासाया विस्तारेण सह तर्कस्य ज्ञानाधाररुपता स्वीकृता, किन्तु क्वचिद् गूढज्ञानस्य विषये “ नैषा तर्केण मतिरापनेया” इत्यादि उपनिषद्वाक्यान्यपि प्राप्यन्ते ।

उपनिषदां दार्शनिकं चिन्तनं परतत्त्वसम्बन्धिन्या जिज्ञासया सम्भवति तत्पर्यवसानं चात्मजिज्ञासया जायते कालान्तरे उपनिषदां चिन्तनस्य पृष्ठभूमावेव भारतीयदर्शनस्य विविधाः शाखाः प्रादुर्भूताः । भारतीय दर्शनस्य तासु शाखासु जायमानं सकलं चिन्तनं क्रमेण विकासं प्राप्नुवत् मोक्षरुपिणः पुरुषार्थस्य साधकम् अभवत् । सांख्यशास्त्रे प्रकृतिं मूलकारणं प्रतिपाद्य भोक्तुः पुरुषस्य विवेकमेव तत्त्वज्ञानं प्रतिपादितम् । न्यायशास्त्रे षोडशपदार्शानां तत्त्वज्ञानात् निः श्रेयसः प्राप्तिः निर्दिष्टा । वैशेषिकशास्त्रे विशेषाभिधस्य पदार्थस्य ज्ञानमेव तत्त्वज्ञानमित्यभिमतम् । वेदान्ते तु जीवब्रह्मणोरेक्यानुभव एव परमं ज्ञानमस्ति । मीमांसायां पुनर्जन्मबंधनान्मुकत्यर्थं यज्ञादौ प्रवृत्तेरेव तत्त्वसाक्षात्कारस्य उपायरुपता प्रतिपादिता एवं स्पष्टीभवति यद भारतीयदर्शनानां लक्ष्यमेकमेवास्ति ।

भारतीयसंस्कृतौ दार्शनिकविचाराणां पर्याप्तं महत्त्वमस्ति । तथा हि, भारतीया संस्कृतिः धर्मप्राणा संस्कृतिरस्ति, यस्याः मूल आधार आध्यात्मिकज्ञानस्य विकासो वर्तते । पुरा भारतवर्षस्य आध्यात्मिकं ज्ञानं चरमोत्कर्षं प्राप्तमासीत्, तद्धि तत्कालीनानां निर्मलचेतसां महर्षीणामनुभूतस्य सत्यस्य प्रतिष्ठापकम् अवर्तत । भारतीयसंस्कृतेः मूलभूतानि स्रोतांसि वेद-स्मृति-उपनिषदपुराणादीनि सन्ति । एषामनवरतम अनुशीलनं कुर्वद्भिः विशुद्धमन्तः करणैः महर्षिभिः तपसा स्वाध्यायेन च लब्धया प्रज्ञ्या आत्मतत्त्वस्यान्वेषणं विधाय न केवलं प्रकृतेः रहस्यानामुदघाटनं कृतम्, अपितु सततचिन्तनेन स्व्जीवनस्मपि सफलीकृतम् । एवं भारतीयं दर्शनम् अत्रत्यमनीषिणां जीवनानुभवजनिताया आद्यात्मिकप्रतिभायाः सुपरिणामो वर्तते ।

स्पष्टमस्ति यत् वेदोपनिषत्सु आधारितानां विविध-दार्शनिक-सिद्धान्तानां शास्त्रीयपद्ध्त्या विवेचकानां येषामपि ग्रन्थानां विकासः उपनिषदां परवर्तिनि काले सञ्जातः तेषां गणना दर्शनशास्त्रस्य परिधौ विधीयते । वेदोत्तरकालस्य दार्शनिकविचारधारा मूलतः द्वयोः स्वरुपयोः वर्गीकृताऽस्ति –आस्तिकं दर्शनं नास्तिकं दर्शनञ्चेति । यानि दर्शनानि वेदोक्तसिद्धान्तान् प्रामाणिकान् स्वीकुर्वन्ति, तानि नास्तिकानीति कथ्यन्ते । उक्तञ्च –

नास्ति वेदोदितो लोक इति येषां मतिः स्थिरा ।
नास्तिकास्ते तथाऽस्तीति मतिर्येषां त आस्तिकाः ॥
अवैदिकप्रमाणानां सिद्धान्तानां निदर्शकाः ।
'चार्वाकप्रभृतयश्च त्रयो लोकेषु नास्तिकाः ॥
वेदप्रमाणकानीह प्रोचुर्ये दर्शनानि षट् ।
न्यायवैशेषिकादीनि स्मृतास्ते आस्तिकाभिधाः ॥

उक्तोल्लेखानुसारेण षट् आस्तिकदर्शनानि सन्ति –(१) सांख्यदर्शनम् (२) योगदर्शनम् (३) न्यायदर्शनम् (४) वैशेषिकदर्शनम् (५) मीमांसादर्शनम् (६) वेदान्तदर्शनम् च । नास्तिकदर्शनानि मुख्यतः त्रीणि वर्तन्ते –(१) चार्वाकदर्शनं (२) जैनदर्शनं (३) बौद्धदर्शनं च । एतानि प्राचीनदर्शनानि सन्ति । आधुनिककालेऽपि भारतीय –दार्शनिक-चिन्तनस्य धारा सततं प्रवहमाना दृश्यते । वर्तमाने गान्धिदर्शनं अरविन्ददर्शनम् चापि उल्लेखनीयमस्ति । एतेषां समेषां नास्तिक-आस्तिक- दर्शनानां विवेचनमग्रे विस्तरेण विधास्यते ।

दर्शनम्[सम्पादयतु]

दृश्यते अवबुध्यते वस्तुतत्त्वम् अनेन इति दर्शनम् । परमं वस्तुतत्त्वम् एकं चेदपि दृष्टिकोणस्य भेदमनुसृत्य दर्शनानां भेदः सञ्जातः । एतेषु चार्वाक-बौद्ध-जैनदर्शनानि नास्तिकदर्शनानि, अन्यानि आस्तिकदर्शनानि इति गण्यन्ते । ये वेदप्रामाण्यं न अङ्गीकुर्वन्ति ते नास्तिकाः । आस्तिकानां तु परमं प्रमाणं वेदाः भवन्ति । दर्शनस्य उदयकालः वेदकाले एव । संहितायामुदितं दर्शनम् उपनिषदि पल्लवितम् इति श्रूयते च । श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । मत्वा च सततं ध्येयः इति दर्शनहेतवः ॥ अद्यत्वे सर्वं वैज्ञानिकदृष्ट्या विविच्यते । प्रपञ्चे जीवस्य चेष्टाः दृश्यन्ते । भोजनं, स्वापः, अन्यान्यक्रियाः प्रापञ्चिकाः भवन्ति । एतत् इन्द्रियग्राह्यं वर्तते । अतः दृश्यम् इति व्यवहारः । एवम् अदृश्यं जगत् महत्वपूर्णं विशिष्टं च भवति । विज्ञानं प्रायशः दृश्यवस्तुनः विश्लेषणं करोति । अदृश्यकल्पना विज्ञानविरुद्धम् इति केचन वदन्ति । दर्शनप्रतिपादकाः ग्रन्थाः बहवः उपलभ्यन्ते । तत्र ग्रन्थेषु दृश्य-अदृश्यप्रपञ्चस्य विवेचनम् उपलभ्यते । सत्यान्वेषणं, तत्वनिरूपणम् - भारतीयदर्शनस्य परमं लक्ष्यम् ।

महाभारते सत्यस्य महत्वं प्रतिपादितम् । यथा- सत्यधर्मच्युतात् पुंसः क्रुद्धादर्शाविषादिव । अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥

एवं दर्शनेन लौकिकम् अलौकिकं च ज्ञानं लभ्यते । दार्शनिकतत्वानाम् अधिगमेन मानवः प्रापञ्चिकजीवने परमं सुखं प्राप्नोति । प्राचीनकालतः आत्मतत्वं जिज्ञासवः दार्शनिकाः दर्शनसाहित्यं रचयामासुः । मानवजीवनस्य विविधक्षेत्रेषु दार्शनिकं तत्वं स्थापयामासुः । भारतीयदर्शनं प्राधान्येन द्वेधा विभक्तं दृश्यते अस्तिकं नास्तिकम् इति । वेदस्य प्रामाण्यम् ईश्वरस्य अस्तित्वम् अभ्युपगन्तारः अस्तिकाः तद्भिन्नाः नास्तिकाः इति निरूप्यते । जीवमात्रस्य सुखप्राप्तिः दुःखनिवृत्तिः उद्देश्यं भवति । तदर्थमेव दर्शनम् उपदिशति । सांसारिकजीवने यशः प्राप्तुं तदनन्तरं चिरसुखम् अवाप्तुं च दर्शनं सहकरोति । इह-परयोः सर्वहितं साधयितुं प्रवर्तते दर्शनम् । सर्वस्तरतु दुर्गाणि, सर्वो भद्राणि पश्यतु । सर्वः कामानवाप्नोतु, सर्वः सर्वत्र नन्दतु ॥ इत्युक्तिः दर्शनस्य उपदेशे वर्तते । अधिभौतिक= आधिदैविक=आध्यात्मिकदुःखं निवार्य परमं सुखं प्रापयति दर्शनम् इति कारणेन शिक्षणक्षेत्रे प्राथमिकस्तरादारभ्य दर्शनबोधनम् अनिवार्यं स्यात् । पूर्वं दर्शनानां द्वैविध्यं निरूपितम् । तदनुसारं चार्वाक-जैन-बौद्धदर्शनानि नास्तिकदर्शनानि, न्याय -वैशेषिक-सांख्य योग-मीमांसा-वेदान्तदर्शनानि आस्तिक-दर्शनानि इति कथ्यन्ते स्म। तदत्र संक्षेपेण उपस्थाप्यते ।

प्रसि्द्धानि दर्शनानि[सम्पादयतु]

  1. चार्वाकदर्शनम्
  2. बौद्धदर्शनम्
  3. जैनदर्शनम्
  4. साङ्ख्यम्
  5. योगदर्शनम्
  6. न्यायदर्शनम्
  7. वैशेषिकम्
  8. मीमांसा
  9. वेदान्तः

आधाराः[सम्पादयतु]

दर्शनशिक्षणम्, शिक्षायाः सामाजिकाधाराश्च

श्रेणी: भारतीयतत्त्वशास्त्रम्